अध्यायः 221

मार्कण्डेयेनाग्नीनामुत्पत्त्यादिकथनम् ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-221-001
ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह । KK03-11-221-001a
तस्यापि वसुदाभार्या प्रजास्तस्यां च मे शृणु ॥ KK03-11-221-001c
बृहत्कीर्तिर्बृहज्ज्योतिर्बृहद्ब्रह्मा बृहन्मनाः । KK03-11-221-002a
बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥ KK03-11-221-002c
प्रजासु तासु सर्वासु रूपेणाप्रतिमाऽभवत् । KK03-11-221-003a
देवी भानुमती नाम प्रथमाऽङ्गिरसः सुता ॥ KK03-11-221-003c
भूतानामेव सर्वेषां यस्यां रागस्तदाऽभवत् । KK03-11-221-004a
रागाद्रागेति यामाहुर्द्वितीयाऽङ्गिरसः सुता ॥ KK03-11-221-004c
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः । KK03-11-221-005a
तनुत्वात्सा सिनीवाली तुतीयाऽङ्गिरसः सुता ॥ KK03-11-221-005c
यां तु दृष्ट्वा भगवतीं जनः कुहकुहायते । KK03-11-221-006a
एकानेकेति यामाहुश्चतुर्थ्यङ्गिरसः सुता ॥ KK03-11-221-006c
पञ्चम्यर्चिष्मती नाम्ना हविर्भिश्च हविष्मती । KK03-11-221-007a
षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ॥ KK03-11-221-007c
महामखेष्वाङ्गिरसी दीप्तिमत्सु महीयती । KK03-11-221-008a
महामतीति विख्याता सप्तमी कथ्यते सुता ॥ KK03-11-221-008c
बृहस्पतेश्चान्द्रमसी भार्याऽऽसीद्या यशस्विनी । KK03-11-221-009a
अग्नीन्साऽजनयत्पुण्यान्षडेकां चापि पुत्रिकाम् ॥ KK03-11-221-009c
आहुतिष्वेव यस्याग्नेर्हविराज्यं विधीयते । KK03-11-221-010a
सोग्निर्बृहस्पतेः पुत्र शंयुर्नाम महाप्रभः ॥ KK03-11-221-010c
चातुर्मास्येषु यस्येष्टमश्वमेधाग्रभागभूत् । KK03-11-221-011a
दीप्तिज्वालैरनेकाग्रैरग्निष्टोमोऽथ वीर्यवान् ॥ KK03-11-221-011c
शंयोरप्रतिमा भार्या सत्या सत्याऽथ धर्मजा । KK03-11-221-012a
अग्निस्तस्य सुतो दीप्तस्तिस्रः कन्याश्च सुव्रताः ॥ KK03-11-221-012c
प्रथमेनाज्यभागेन पूज्यते योऽग्निरध्वरे । KK03-11-221-013a
अग्निस्तस्य भरद्वाजः प्रथमः पुत्र उच्यते ॥ KK03-11-221-013c
पौर्णमासेषु सर्वेषु हविराज्यं ध्रुवोद्यतम् । KK03-11-221-014a
भरतो नामतः सोग्निर्द्वितीयः शंयुतः सुतः ॥ KK03-11-221-014c
तिस्रः कन्या भवन्त्यन्या यासां स भरतः पतिः । KK03-11-221-015a
भारतस्तु सुतस्तस्य भारत्येका च पुत्रिका ॥ KK03-11-221-015c
भारतो भरतस्याग्नेः पावकस्तु प्रजायते । KK03-11-221-016a
महानत्यर्थमहितस्तथा भरतसत्तम ॥ KK03-11-221-016c
भरद्वाजस्य भार्या तु वीरा वीरश्च पिण्डदः । KK03-11-221-017a
प्राहुराज्येन तस्येज्यां सोमस्येव द्विजाः शनैः ॥ KK03-11-221-017c
हविषा यो द्वितीयेन सोमेन सह युज्यते । KK03-11-221-018a
रथप्रभू रथध्वानः कुम्भरेताः स उच्यते ॥ KK03-11-221-018c
सरय्वां जनयत्सिद्धिं भानुं भाभिः समावृणोत् । KK03-11-221-019a
आग्नेयमनयन्मिथ्यं मिथ्यो नामैष कथ्यते ॥ KK03-11-221-019c
यस्तु न च्यवते नित्यं शयसा वर्चसा श्रिया । KK03-11-221-020a
अग्निर्निश्च्यवनो नाम पृथिवीं स्तौति केवलम् ॥ KK03-11-221-020c
विपाप्मा कलुषैर्मुक्तो विशुद्धश्चार्चिषा ज्वलन् । KK03-11-221-021a
विपापोऽग्निः सुतस्तस्य योज्यः समयकर्मसु ॥ KK03-11-221-021c
अक्रोशतां हि भूतानां यः करोति हि निष्कृतिम् । KK03-11-221-022a
अग्निः स निष्कृतिर्नाम शोभयत्यभिसेवितः ॥ KK03-11-221-022c
अनुकूजन्ति येनेह वेदनार्ताः स्वयं जनाः । KK03-11-221-023a
तस्य पुत्रः स्वनो नाम पावकः सरुजस्करः ॥ KK03-11-221-023c
यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । KK03-11-221-024a
तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम् ॥ KK03-11-221-024c
अन्तराग्निः स्मृतो यस्तु भुक्तं पचति देहिनाम् । KK03-11-221-025a
स यज्ञे विश्वभुङ्नाम सर्वलोकेषु भारत ॥ KK03-11-221-025c
ब्रह्मचारी यतात्मा च सततं विपुलप्रभः । KK03-11-221-026a
ब्राह्मणाः पूजयन्त्येनं पाकयज्ञेषु पावकम् ॥ KK03-11-221-026c
प्रथितो गोपतिर्नाम नदी यस्याभवत्प्रिया । KK03-11-221-027a
तस्मिन्कर्माणि सर्वाणि क्रियन्ते धर्मकर्तृभिः ॥ KK03-11-221-027c
बडबाग्निः पिबत्यम्भो योसौ परमदारुणः । KK03-11-221-028a
ऊर्द्वभागूर्ध्वभाङ्नाम कविः प्राणाश्रितस्तु यः ॥ KK03-11-221-028c
उदग्द्वारं हविर्यस्य गृहे नित्यं प्रदीयते । KK03-11-221-029a
ततस्तुष्टो भवेद्ब्रह्मा स्विष्टकृत्परमः स्मृतः ॥ KK03-11-221-029c
यः प्रशान्तेषु भूतेषु आविर्भवति पावकः । KK03-11-221-030a
क्रोधस्य तु रसो जज्ञे मन्यती चाथ पुत्रिका ॥ KK03-11-221-030c
स्वाहेति दारुणा क्रूरा सर्वभूतेषु तिष्ठति । KK03-11-221-031a
त्रिदिवे यस्य सदृशो नास्ति रूपेण कश्चन । KK03-11-221-031c
अतुलत्वात्कृतो देवैर्नाम्ना कामस्तु पावकः ॥ KK03-11-221-031e
संहर्षाद्धारयन्क्रोधं धन्वी स्रग्वी रथे स्थितः । KK03-11-221-032a
समरे नाशयेच्छत्रूनमोघो नाम पावकः ॥ KK03-11-221-032c
उक्थ्यो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः । KK03-11-221-033a
महावर्षं त्वजनयत्सकामाश्वं हि यं विदुः ॥ KK03-11-221-033c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकविंशत्यधिकद्विशततमोऽध्यायः ॥ 221 ॥

3-221-1 तस्यापि वसुधा भार्या इति ट. ध. पाठः ॥ 3-221-2 बृहत्तेजा बृहन्मना इति क. ध. पाठः ॥ 3-221-10 हविषाद्यं विधीयते इति झ. पाठः ॥ 3-221-17 वीरस्य पिण्डदा इतिझ. पाठः ॥