अध्यायः 220
मार्कण्डेयेन युधिष्ठिरम् प्रत्याङ्गिरसोपाख्यानकथनारम्भः ॥ 1 ॥ अग्ङिरसःपुत्रस्य बृहस्पतेर्देवैरङ्गिरसो वचनाद्गुरुत्वेन स्वीकरणम् ॥ 2 ॥
वैशम्पायन उवाच KK03-11-220-001
श्रुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम् । KK03-11-220-001a
पुनः पप्रच्छ तमृषिं मार्कण्डेयमिदं तदा ॥ KK03-11-220-001c
कथमग्निर्वनं यातः कथं चाप्यङ्गिराः पुरा । KK03-11-220-002a
नष्टेऽग्नौ हव्यमहवदग्निर्भूत्वा महाद्युतिः ॥ KK03-11-220-002c
अग्निर्यदा चैक एव बहुत्वं चास्य कर्मसु । KK03-11-220-003a
दृश्यते भगवन्सर्वमेतदिच्छामि वेदितुम् ॥ KK03-11-220-003c
कुमारश्च यथोत्पन्नो यथा चाग्नेः सुतोऽभवत् । KK03-11-220-004a
यथा रुद्राच्च सम्भूतो गङ्गायां कृत्तिकासु च ॥ KK03-11-220-004c
एतदिच्छाम्यहं त्वत्तः श्रोतुं भार्गवसत्तम । KK03-11-220-005a
कौतूहलसमाविष्टो याथातथ्यं महामुने ॥ KK03-11-220-005c
मार्कण्डेय उवाच KK03-11-220-006
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । KK03-11-220-006a
यथा क्रुद्धो हुतवहस्तपस्तप्तुं वनं गतः ॥ KK03-11-220-006c
यथा च भगवानग्निः स्वयमेवाङ्गिराऽभवत् । KK03-11-220-007a
सन्तापयंश्च प्रभया नाशयंस्तिमिरावलिम् ॥ KK03-11-220-007c
पुराङ्गिरा महाबाहो चचार तप उत्तमम् । KK03-11-220-008a
आश्रमस्थो महाभागो हव्यवाहं विशेषयन् । KK03-11-220-008c
यथाग्निर्भूत्वा तु तदा जगत्सर्वं व्यकाशयत् ॥ KK03-11-220-008e
तपश्चरंस्तु हुतभुक्सन्तप्तस्तस्य तेजसा । KK03-11-220-009a
भृशं ग्लानश्च तेजस्वी न च किञ्चित्प्रजज्ञिवान् ॥ KK03-11-220-009c
अथ सञ्चिन्तयामास भगवान्हव्यवाहनः । KK03-11-220-010a
अन्योऽग्निरिव लोकानां ब्रह्मणा सम्प्रकल्पितः ॥ KK03-11-220-010c
अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः । KK03-11-220-011a
कथमग्निः पुनरहं भवेयमिति चिन्त्य सः ॥ KK03-11-220-011c
अपश्यदग्निवल्लोकांस्तापयन्तं महामुनिम् । KK03-11-220-012a
सोपासर्पच्छनैर्भीतस्तमुवाच तदाङ्गिराः ॥ KK03-11-220-012c
शीघ्रमेव भवस्वाग्निस्त्वं पुनर्लोकभावनः । KK03-11-220-013a
विज्ञातश्चासि लोकेषु त्रिषु संस्थानचारिषु ॥ KK03-11-220-013c
त्वमग्ने प्रथमः सृष्टो ब्रह्मणा तिमिरापहः । KK03-11-220-014a
स्वस्थानं प्रतिपद्यस्व शीघ्रमेव तमो नुद ॥ KK03-11-220-014c
अग्निरुवाच KK03-11-220-015
नष्टकीर्तिरहं लोके भवाज्जातो हुताशनः । KK03-11-220-015a
भवन्तमेव ज्ञास्यन्ति पावकं न तु मां जनाः ॥ KK03-11-220-015c
निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव । KK03-11-220-016a
भविष्यामि द्वितीयोऽहं प्राजापत्यक एव च ॥ KK03-11-220-016c
अङ्गिरा उवाच KK03-11-220-017
कुरु पुण्यं प्रजास्वर्ग्यं भवाग्निस्तिमिरापहः । KK03-11-220-017a
मां च देव कुरुष्वाग्ने प्रथमं पुत्रमञ्जसा ॥ KK03-11-220-017c
मार्कण्डेय उवाच KK03-11-220-018
तच्छ्रुत्वाङ्गिरसो वाक्यं जातवेदास्तथाऽकरोत् । KK03-11-220-018a
राजन्वृहस्पतिर्नाम तस्याप्यङ्गिरसः सुतः ॥ KK03-11-220-018c
ज्ञात्वा प्रथमजं तं तु वह्नेरङ्गिरसं सुतम् । KK03-11-220-019a
उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत ॥ KK03-11-220-019c
स तु पृष्टस्तदा देवैस्ततः कारणमब्रवीत् । KK03-11-220-020a
प्रत्यगृह्णन्त देवाश्च तद्वचोऽङ्गिरसस्तदा ॥ KK03-11-220-020c
तत्र नानाविधानग्नीन्प्रवक्ष्यामि महाप्रभान् । KK03-11-220-021a
कर्मभिर्बहुभिः ख्यातान्नानार्थान्ब्राह्मणेष्विह ॥ KK03-11-220-021c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि विंशत्यधिकद्विशततमोऽध्यायः ॥ 220 ॥
3-220-13 संस्थानचारिषु स्थावरजङ्गमेषु । सम्यक् स्थानं गतिनिवृत्तिर्येषु चरणशीलेषु चेति योगात् ॥ 3-220-16 प्राजापत्यस्तथैकत इति क. थ. ध. पाठः ॥ 3-220-20 प्रत्यगृह्णन् अङ्गिरसो वचः अयं भवतां गुरुरिति अङ्गीकृतवन्तः ॥ 3-220-21 यातान्नानात्वं ब्राह्मणेष्वपि इति थ. पाठः ॥