अध्यायः 219

धर्मव्याधेन नानाधर्मान्बोधितेन कौशिकेन गृहमेत्य स्वपित्रोः शुश्रूषणम् ॥ 1 ॥ मार्कण्डेयेन युधिष्ठिरम् प्रति पतिव्रतामाहात्म्यादिकथनोपसंहारः ॥ 2 ॥

व्याध उवाच KK03-11-219-001
एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम । KK03-11-219-001a
अहं प्रासादयमृषिं गिरा वाक्यविशारदम् ॥ KK03-11-219-001c
अजानता मयाऽकार्यमिदमद्य कृतं मुने । KK03-11-219-002a
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥ KK03-11-219-002c
ऋषिरुवाच KK03-11-219-003
नान्यथा भविता शाप एवमेतदसंशयम् । KK03-11-219-004a
आनृशंस्यात्त्वहं किञ्चित्कर्ताऽनुग्रहमद्य ते ॥ KK03-11-219-004c
शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि । KK03-11-219-005a
मातापित्रोश्च शुश्रूषां करिष्यसि न संशयः ॥ KK03-11-219-005c
तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि । KK03-11-219-006a
जातिस्मरश्च भविता स्वर्गं चैव गमिष्यसि ॥ KK03-11-219-006c
'भूत्वा च धार्मिको व्याधः पित्रोः शुश्रूषणे रतः । KK03-11-219-007a
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः ॥ KK03-11-219-007c
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा । KK03-11-219-008a
प्रसादश्च कृतस्तेन ममैव द्विपदांवर ॥ KK03-11-219-008c
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम । KK03-11-219-009a
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥ KK03-11-219-009c
एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत् । KK03-11-219-010a
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥ KK03-11-219-010c
ब्राह्मण उवाच KK03-11-219-011
एवमेतानि पुरुषा दुःखानि च सुखानि च । KK03-11-219-011a
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥ KK03-11-219-011c
दुष्करं हि कृतं कर्म जानता जातिमात्मनः । KK03-11-219-012a
[लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ॥] KK03-11-219-012c
कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै । KK03-11-219-013a
कञ्चित्कालं मृष्यतां वै ततोसि भविता द्विजः ॥ KK03-11-219-013c
साम्प्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥ KK03-11-219-014ac
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु । KK03-11-219-015a
दाम्भिको दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥ KK03-11-219-015c
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । KK03-11-219-016a
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥ KK03-11-219-016c
कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम् । KK03-11-219-017a
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥ KK03-11-219-017c
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः । KK03-11-219-018a
लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः ॥ KK03-11-219-018c
व्याध उवाच KK03-11-219-019
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । KK03-11-219-019a
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥ KK03-11-219-019c
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रयिस्य च । KK03-11-219-020a
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥ KK03-11-219-020c
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च । KK03-11-219-021a
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ KK03-11-219-021c
अनिष्टेनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते । KK03-11-219-022a
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥ KK03-11-219-022c
शोचतो न भवेत्किञ्चित्केवलं परितप्यते । KK03-11-219-023a
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ॥ KK03-11-219-023c
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः । KK03-11-219-024a
असन्तोषपरा मूढाः सन्तोषं यानति पण्डिताः ॥ KK03-11-219-024c
असन्तोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् । KK03-11-219-025a
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ॥ KK03-11-219-025c
न विषादे मनः कार्यं विषादो विषमुत्तमम् । KK03-11-219-026a
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥ KK03-11-219-026c
यं विषादोऽभिभवति विषमे समुपस्थिते । KK03-11-219-027a
तेजसा तस्य हीनस्य पुरुषार्थो न विद्यते ॥ KK03-11-219-027c
अवश्यं क्रियमाणस्य कर्मणो दृश्यते फलम् । KK03-11-219-028a
न हि निर्वेदमागम्य किञ्चित्प्राप्नोति शोभनम् ॥ KK03-11-219-028c
अथाप्युपायं पश्येत दुःखस्य परिमोक्षणे । KK03-11-219-029a
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥ KK03-11-219-029c
भूतेष्वभावं सञ्चिन्त्य ये तु बुद्धेः परं गताः । KK03-11-219-030a
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥ KK03-11-219-030c
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम् । KK03-11-219-031a
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥ KK03-11-219-031c
ब्राह्मण उवाच KK03-11-219-032
कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव । KK03-11-219-032a
पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित् ॥ KK03-11-219-032c
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु । KK03-11-219-033a
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर ॥ KK03-11-219-033c
मार्कण्डेय उवाच KK03-11-219-034
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह । KK03-11-219-034a
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥ KK03-11-219-034c
स तु गत्वा द्विजः सर्वां शुश्रूषां कृतवांस्तदा । KK03-11-219-035a
मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः ॥ KK03-11-219-035c
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर । KK03-11-219-036a
पृष्टवानसि यं तात धर्मं धर्मभृतांवर ॥ KK03-11-219-036c
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम । KK03-11-219-037a
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥ KK03-11-219-037c
युधिष्ठिर उवाच KK03-11-219-038
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् । KK03-11-219-038a
सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम ॥ KK03-11-219-038c
सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः । KK03-11-219-039a
न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥ KK03-11-219-039c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥

3-219-20 गुणैः गुणकार्यैः सुखदुःखमोहैः ॥ 3-219-24 गताध्वानः प्राप्तज्ञानमार्गाः ॥ 3-219-29 बुद्धेस्तत्त्वज्ञानात् । परं ब्रह्म गताः प्राप्ताः ॥