अध्यायः 218
धर्मव्याधेन कौशिकम् प्रति मातापितृशुश्रूषणचोदनपूर्वकं स्वस्य शूद्रयोनौ जनननिदानकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-218-001
गुरू निवेद्य विप्राय तौ मातापितरावुभौ । KK03-11-218-001a
पुनरेव स धर्मात्मा व्याधो ब्राह्मणमब्रवीत् ॥ KK03-11-218-001c
प्रवृत्तचक्षुर्जातोस्मि सम्पश्य तपसो बलम् । KK03-11-218-002a
यदर्थमुक्तोसि तया गच्छ त्वं मिथिलामिति ॥ KK03-11-218-002c
पतिशुश्रूषपरया दान्तया सत्यशीलया । KK03-11-218-003a
मिथिलायां वसन्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ KK03-11-218-003c
ब्राह्मण उवाच KK03-11-218-004
पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत । KK03-11-218-004a
संस्मृत्य वाक्यं धर्मज्ञ गुणवानसि मे मतः ॥ KK03-11-218-004c
व्याध उवाच KK03-11-218-005
यत्तया त्वं द्विजश्रेष्ठ नियुक्तो मां प्रति प्रभो । KK03-11-218-005a
दृष्टमेव तया सम्यगेकपत्न्या न संशयः ॥ KK03-11-218-005c
त्वदनुग्रहबुद्ध्या तु विप्रैतद्दर्शितं मया । KK03-11-218-006a
वाक्यं च शृणु मे तात यत्ते वक्ष्ये हितं द्विज ॥ KK03-11-218-006c
त्वया न पूजिता माता पिता च द्विजसत्तम । KK03-11-218-007a
अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिन्दित ॥ KK03-11-218-007c
वेदोच्चारणकार्यार्थमयुक्तं तत्त्वया कृतम् । KK03-11-218-008a
तव शोकेन वृद्धौ तावन्धीभूतौ तपस्विनौ ॥ KK03-11-218-008c
तौ प्रसादयितुं गच्छ मा त्वां धर्मोऽत्यगादयम् । KK03-11-218-009a
तपस्वी त्वं महात्मा च धर्मे च निरतः सदा ॥ KK03-11-218-009c
सर्वमेतदपार्थं ते क्षिप्रं तौ सम्प्रसादय । KK03-11-218-010a
'तौ प्रसाद्य द्विजश्रेष्ठ यच्छ्रेयस्तदवाप्स्यसि' ॥ KK03-11-218-010c
श्रद्दधस्व मम ब्रह्मन्नान्यथा कर्तुमर्हसि । KK03-11-218-011a
गम्यतामद्य विप्रर्षे श्रेयस्ते कथयाम्यहम् ॥ KK03-11-218-011c
ब्राह्मण उवाच KK03-11-218-012
यदेतदुक्तं भवता सर्वं सत्यमसंशयम् । KK03-11-218-012a
प्रीतोस्मि तव भद्रं ते धर्माचारगुणान्वित ॥ KK03-11-218-012c
व्याध उवाच KK03-11-218-013
दैवतप्रतिमो हि त्वं यस्त्वं धर्ममनुव्रतः । KK03-11-218-013a
पुराणं शाश्वतं दिव्यं दुष्प्रापमकृतात्मभिः ॥ KK03-11-218-013c
मातापित्रोः सकाशं हि गत्वा त्वं द्विजसत्तम । KK03-11-218-014a
अतन्द्रितः कुरु क्षिप्रं मातापित्रोर्हि पूजनम् । KK03-11-218-014c
अतः परमहं धर्मं नान्यं पश्यामि कञ्चन ॥ KK03-11-218-014e
ब्राह्मण उवाच KK03-11-218-015
इहाहमागतो दिष्ट्या दिष्ट्या मे सङ्गतं त्वया । KK03-11-218-015a
ईदृशा दुर्लभा लोके नरा धर्मप्रदर्शकाः ॥ KK03-11-218-015c
एको नरसहस्रेषु धर्मवान्विद्यते न वा । KK03-11-218-016a
प्रीतोस्मि तव सत्येन भद्रं ते पुरुषर्षभ ॥ KK03-11-218-016c
पतमानोऽद्य नरके भवताऽस्मि समुद्धृतः । KK03-11-218-017a
भवितव्यमथैवं च यद्दृष्टोसि मयाऽनघ ॥ KK03-11-218-017c
राजा ययातिर्दौहित्रैः पतितस्तारितो यथा । KK03-11-218-018a
सद्भिः पुरुषशार्दूल तथाऽहं भवता त्विह ॥ KK03-11-218-018c
मातापितृभ्यां शुश्रूषां करिष्ये वचनात्तव । KK03-11-218-019a
नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम् ॥ KK03-11-218-019c
दुर्ज्ञेयः शाश्वतो धर्मः शूद्रयोनौ हि वर्तता । KK03-11-218-020a
न त्वां शूद्रमहं मन्ये भवितव्यं हि कारणम् ॥ KK03-11-218-020c
येन कर्मविशेषेण प्राप्तेयं शूद्रता त्वया । KK03-11-218-021a
एतामिच्छामि विज्ञातुं तत्त्वेन तव शूद्रताम् । KK03-11-218-021c
कामयानस्य मे शंस सर्वं त्वं प्रयतात्मवान् ॥ KK03-11-218-021e
व्याध उवाच KK03-11-218-022
अनतिक्रमणीया वै ब्राह्मणा मे द्विजोत्तम । KK03-11-218-022a
शृणु सर्वमिदं वृत्तं पूर्वदेहे ममानघ ॥ KK03-11-218-022c
अहं हि ब्राह्मणः पूर्वमासं द्विजवरात्मजः । KK03-11-218-023a
वेदाध्यायी सुकुशलो वेदाङ्गानां च पारगः । KK03-11-218-023c
आत्मदोषकृतैर्ब्रह्मन्नवस्थामाप्तवानिमाम् ॥ KK03-11-218-023e
कश्चिद्राजा मम सखा धनुर्वेदपरायणः । KK03-11-218-024a
संसर्गाद्धनुषि श्रेष्ठस्ततोऽहमभवं द्विज ॥ KK03-11-218-024c
एतस्मिन्नेव काले तु मृगयां निर्गतो नृपः । KK03-11-218-025a
सहितो योधमुख्यैश्च मन्त्रिभिश्च सुसंवृतः । KK03-11-218-025c
ततोऽभ्यहन्मृगांस्तत्र सुबहूनाश्रमं प्रति ॥ KK03-11-218-025e
अथ क्षिप्तः शरो घोरो मयापि द्विजसत्तम । KK03-11-218-026a
ताडितश्च ऋषिस्तेन शरेणानतपर्वणा ॥ KK03-11-218-026c
भूमौ निपतितो ब्रह्मन्नुवाच प्रतिनादयन् । KK03-11-218-027a
नापराध्याम्यहं किञ्चित्केन पापमिदं कृतम् ॥ KK03-11-218-027c
मन्वानस्तं मृगं चाहं सम्प्राप्तः सहसा मुनिम् । KK03-11-218-028a
अपश्यं तमृषिं विद्धं शरेणानतपर्वणा । KK03-11-218-028c
तमुग्रतपसं विप्रं निष्टनन्तं महीतले ॥ KK03-11-218-028e
अकार्यकरणाच्चापि भृशं मे व्यथितं मनः । KK03-11-218-029a
अजानता कृतमिदं मयेत्यहमथाब्रुवम् ॥ KK03-11-218-029c
क्षन्तुमर्हसि मे सर्वमिति चोक्तो मया मुनिः ॥ KK03-11-218-030ac
ततः प्रत्यब्रवीद्वाक्यमृषिर्मां क्रोधमूर्च्छितः । KK03-11-218-031a
व्याधस्त्वं भविता क्रूर शूद्रयोनाविति द्विज ॥ KK03-11-218-031c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टादशाधिकद्विशततमोऽध्यायः ॥ 218 ॥
3-218-2 प्रवृत्तचक्षुर्दिव्यदृष्टिः । तपसः पित्रोः शुश्रूषात्मकस्य ॥ 3-218-28 निष्टनन्तं शब्दं कुर्वन्तम् ॥