अध्यायः 217
धर्मव्याधेन कौशिकाय स्वगृहप्रवेशनपूर्वकं वृद्धयोः स्वपित्रोः प्रदर्शनम् ॥ 1 ॥ तथा मातापितृविषये स्वानुसन्धानप्रकारनिवेदनम् ॥ 2 ॥
मार्कण्डेय उवाच KK03-11-217-001
एवं सङ्कथिते कृत्स्ने मोक्षधर्मे युधिष्ठिर । KK03-11-217-001a
दृढप्रीतमना विप्रो धर्मव्याधमुवाच ह ॥ KK03-11-217-001c
न्याययुक्तमिदं सर्वं भवता परिकीर्तितम् । KK03-11-217-002a
न तेऽस्त्यविदितं किञ्चिद्धर्मेष्वभिसमीक्ष्यते ॥ KK03-11-217-002c
व्याध उवाच KK03-11-217-003
प्रत्यक्षं मम यो धर्मस्तं च पश्य द्विजोत्तम । KK03-11-217-003a
येन सिद्धिरियं प्राप्ता मया ब्राह्मणपुङ्गव ॥ KK03-11-217-003c
उत्तिष्ठ भगवन्क्षिप्रं प्रविश्याभ्यन्तरं गृहम् । KK03-11-217-004a
द्रष्टुमर्हसि धर्मज्ञ मातरं पितरं च मे ॥ KK03-11-217-004c
इत्युक्तः स प्रविश्याथ ददर्श परमार्चितम् । KK03-11-217-005a
सौधं हृद्यं चतुःशालमतीव च मनोरमम् ॥ KK03-11-217-005c
देवतागृहसङ्काशं दैवतैश्च सुपूजितम् । KK03-11-217-006a
शयनासनसम्बाधं गन्धैश्च परमैर्युतम् ॥ KK03-11-217-006c
तत्र शुक्लाम्बरधरौ पितरावस्य पूजितौ । KK03-11-217-007a
कृताहारौ तु सन्तुष्टावुपविष्टौ वरासने ॥ KK03-11-217-007c
'तस्य व्याधस्य पितरौ ब्राह्मणः सन्ददर्श ह' । KK03-11-217-008a
धर्मव्याधस्तु तौ दृष्ट्वा पादेषु शिरसाऽपतत् ॥ KK03-11-217-008c
वृद्धावूचतुः KK03-11-217-009
उत्तिष्ठोत्तिष्ठ धर्मज्ञ धर्मस्त्वामभिरक्षतु । KK03-11-217-009a
प्रीतौ स्वस्तव शौचेन दीर्घमायुरवाप्नुहि । KK03-11-217-009c
[गतिमिष्टां तपो ज्ञानं मेधां च परमां गतः] ॥ KK03-11-217-009e
सत्पुत्रेण त्वया पुत्र नित्यं काले सुपूजितौ । KK03-11-217-010a
'सुखमेव वसावोऽत्र देवलोकगताविव' ॥ KK03-11-217-010c
न तेऽन्यद्दैवतं किञ्चिद्दैवतेष्वपि वर्तते । KK03-11-217-011a
प्रयतत्वाद्द्विजातीनां दमेनासि समन्वितः ॥ KK03-11-217-011c
पितुः पितामहा ये च तथैव प्रपितामहाः । KK03-11-217-012a
प्रीतास्ते सततं पुत्र दमेनावां च पूजया ॥ KK03-11-217-012c
मनसा कर्मणा वाचा शुश्रूषा नैव हीयते । KK03-11-217-013a
न चान्या हि तथा बुद्धिर्दृश्यते साम्प्रतं तव ॥ KK03-11-217-013c
जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ । KK03-11-217-014a
तथा त्वया कृतं सर्वं तद्विशिष्टं च पुत्रक ॥ KK03-11-217-014c
मार्कण्डेय उवाच KK03-11-217-015
ततस्तं ब्राह्मणं ताभ्यां धर्मव्याधो न्यवेदयत् । KK03-11-217-015a
तौ स्वागतेन तं विप्रमर्चयामासतुस्तदा ॥ KK03-11-217-015c
प्रतिगृह्य च तां पूजां द्विजः पप्रच्छ तावुभौ । KK03-11-217-016a
सपुत्राभ्यां सभृत्याभ्यां कच्चिद्वां कुशलं गृहे । KK03-11-217-016c
अनामयं च वां कच्चित्सुखं वेह शरीरयोः ॥ KK03-11-217-016e
वृद्धावूचतुः KK03-11-217-017
कुशलं नौ गृहे विप्र भृत्यवर्गे च सर्वशः । KK03-11-217-017a
कच्चित्त्वमप्यविघ्नेन सम्प्राप्तो भगवन्निति ॥ KK03-11-217-017c
मार्कण्डेय उवाच KK03-11-217-018
बाढमित्येव तौ विप्रः प्रत्युवाच मुदान्वितः । KK03-11-217-018a
धर्मव्याधस्तु तं विप्रमर्थवद्वाक्यमब्रवीत् ॥ KK03-11-217-018c
पिता माता च भगवन्नेतौ मे दैवतं परम् । KK03-11-217-019a
यद्दैवतेभ्यः कर्तव्यं तदेताभ्यां करोम्यहम् ॥ KK03-11-217-019c
त्रयस्त्रिंशद्यथा देवाः सर्वे शक्रपुरोगमाः । KK03-11-217-020a
सम्पूज्याः सर्वलोकस्य तथा वृद्धाविमौ मम ॥ KK03-11-217-020c
उपाहारानाहरन्तो देवतानां यथा द्विजाः । KK03-11-217-021a
कुर्वन्ति तद्वदेताभ्यां करोम्यहमतन्द्रितः ॥ KK03-11-217-021c
एतौ मे परमं ब्रह्मन्पिता माता च दैवतम् । KK03-11-217-022a
एतौ पुष्पैः फलैरन्नैस्तोषयामि सदा द्विज ॥ KK03-11-217-022c
एतावेवाग्नयो मह्यं यान्वदन्ति मनीषिणः । KK03-11-217-023a
यज्ञा वेदाश्च चत्वारः सर्वमेतौ मम द्विज ॥ KK03-11-217-023c
एतदर्थं मम प्राणा भार्या पुत्रः सुहृज्जनः । KK03-11-217-024a
सपुत्रदारः शुश्रूषां नित्यमेव करोम्यहम् ॥ KK03-11-217-024c
स्वयं च स्नापयाम्येतौ तथा पादौ प्रधावये । KK03-11-217-025a
आहारं च प्रयच्छामि स्वयं च द्विजसत्तम ॥ KK03-11-217-025c
अनुकूलाः कथा वच्मि विप्रियं परिवर्जये । KK03-11-217-026a
अधर्मेणापि संयुक्तं प्रियमाभ्यां करोम्यहम् ॥ KK03-11-217-026c
धर्ममेव गुरुं मत्वा साक्षादेतौ द्विजोत्तम । KK03-11-217-027a
अतन्द्रितः सदा विप्र शुश्रूषां वै करोम्यहम् ॥ KK03-11-217-027c
पञ्चैव गुरवो ब्रह्मन्पुरुषस्य बुभूषतः । KK03-11-217-028a
पिता माताऽग्निरात्मा च गुरुश्च द्विजसत्तम ॥ KK03-11-217-028c
एतेषु यस्तु वर्तेत सम्यगेव द्विजोत्तम । KK03-11-217-029a
भवेयुरग्नयस्तेन परिचीर्णास्तु नित्यशः । KK03-11-217-029c
गार्हस्थ्ये वर्तमानस्य एष धर्मः सनातनः ॥ KK03-11-217-029e
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्तदशाधिकद्विशततमोऽध्यायः ॥ 217 ॥
3-217-6 शयनासनसम्बाधं शयनादिसङ्कीर्णम् ॥ 3-217-16 वां युवयोः ॥ 3-217-17 नौ आवयोः ॥