अध्यायः 216
धर्मव्याधेन कौशिकम् प्रति सत्वादिगुणत्रयगुणनिरूपणपूर्वकमध्यात्मकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-216-001
एवं तु सूक्ष्मे कथिते धर्मव्याधेन भारत । KK03-11-216-001a
ब्राह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः ॥ KK03-11-216-001c
सत्त्वस्य रजसश्चैव तमसश्च यथातथम् । KK03-11-216-002a
गुणांस्तत्त्वेन मे ब्रूहि यथावदिह पृच्छतः ॥ KK03-11-216-002c
व्याध उवाच KK03-11-216-003
हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि । KK03-11-216-003a
एतान्गुणान्पृथक्त्वेन निबोध गदतो मम ॥ KK03-11-216-003c
मोहात्मकं तमस्तेषां रज एषां प्रवर्तकम् । KK03-11-216-004a
प्रकाशबहुलत्वाच्च सत्वं ज्याय इहोच्यते ॥ KK03-11-216-004c
अविद्याबहुलो मूढः स्वप्नशीलो विचेतनः । KK03-11-216-005a
दृर्हृपीकस्तमोध्यस्तः सक्रोधस्तामसोऽलसः ॥ KK03-11-216-005c
सुवृत्तवाक्यो मन्त्री च यो नराग्र्योऽनसूयकः । KK03-11-216-006a
विवित्समानो विप्रर्षे स्तब्धो मानी स राजसः ॥ KK03-11-216-006c
प्रकाशबहुलो धीरो निर्विवित्सोऽनसूयकः । KK03-11-216-007a
अक्रोधनो नरो धीमान्दान्तश्चैव स सात्विकः ॥ KK03-11-216-007c
सात्विकस्त्वथ सम्बुद्धो लोकवृत्तैर्न लिप्यते । KK03-11-216-008a
यदा बुध्यति बोद्धव्यं लोकवृत्तं जुगुप्सते ॥ KK03-11-216-008c
वैराग्यस्य च रूपं तु पूर्वमेव प्रवर्तते । KK03-11-216-009a
मृदुर्भवत्यहङ्कारः प्रसीदत्यार्जवं च यत् ॥ KK03-11-216-009c
ततोऽस्य सर्वद्वन्द्वानि प्रशाम्यन्ति परस्परम् । KK03-11-216-010a
न चास्यासंयमो नाम क्वचिद्भवति कश्चन ॥ KK03-11-216-010c
शूद्रयोनौ हि जातस्य सद्गुणानुपतिष्ठतः । KK03-11-216-011a
वैश्यत्वं भवति ब्रह्मन्क्षत्रियत्वं तथैव च ॥ KK03-11-216-011c
आर्जवे वर्तमानस्य ब्राह्मण्यमभिजायते । KK03-11-216-012a
गुणास्ते कीर्तिताः सर्वे किं भूयः श्रोतुमिच्छसि ॥ KK03-11-216-012c
ब्राह्मण उवाच KK03-11-216-013
पार्थिवं धातुमासाद्य शारीरोऽग्निः कथं भवेत् । KK03-11-216-013a
अवकाशविशेषेण कथं वर्तयतेऽनिलः ॥ KK03-11-216-013c
मार्कण्डेय उवाच KK03-11-216-014
प्रश्नमेतं समुद्दिष्टं ब्राह्मणेन युधिष्ठिर । KK03-11-216-014a
व्याधस्तु कथयामास ब्राह्मणाय महात्मने ॥ KK03-11-216-014c
मूर्धानमाश्रितो वह्निः शरीरं परिपालयन् । KK03-11-216-015a
प्राणो मूर्धनि चाग्नौ च वर्तमानो विचेष्टते ॥ KK03-11-216-015c
भूतं भव्यं भविष्यं च सर्वं प्राणे प्रतिष्ठितम् । KK03-11-216-016a
श्रेष्ठं तदेव भूतानां ब्रह्मज्योतिरुपास्महे ॥ KK03-11-216-016c
स जन्तुः सर्वभूतात्मा पुरुषः स सनातनः । KK03-11-216-017a
मनोबुद्धिरहङ्कारो भूतानां विषयश्च सः ॥ KK03-11-216-017c
'अव्यक्तं सत्वसञ्ज्ञं च जीवः कालः स चैव हि । KK03-11-216-018a
प्रकृतिः पुरुषश्चैव प्राण एव द्विजोत्तम ॥ KK03-11-216-018c
जागर्ति स्वप्नकाले च स्वप्ने स्वप्नायते च सः । KK03-11-216-019a
जाग्रत्सु बलमाधत्ते चेष्टत्सु चेष्टयत्यपि ॥ KK03-11-216-019c
तस्मिन्निरुद्धे विप्रेन्द्र मृत इत्यभिधीयते । KK03-11-216-020a
त्यक्त्वा शरीरं भूतात्मा पुनरन्यत्प्रपद्यते ॥ KK03-11-216-020c
एष त्वग्निरपानेन प्राणेन परिपाल्यते । KK03-11-216-021a
पृष्ठतस्तु समानेन स्वांस्वां गतिमुपाश्रितः ॥ KK03-11-216-021c
वस्तिमूले गुदे चैव पावकं समुपाश्रितः । KK03-11-216-022a
वहन्मूत्रं पुरीषं वाऽप्यपानः परिवर्तते ॥ KK03-11-216-022c
प्रयत्ने कर्मणि बले य एकस्त्रिषु वर्तते । KK03-11-216-023a
उदान इति तं प्राहुरध्यात्मविदुषो जनाः ॥ KK03-11-216-023c
सन्धौ सन्धौ सन्निविष्टः सर्वेष्वपि तथाऽनिलः । KK03-11-216-024a
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥ KK03-11-216-024c
धातुष्वग्निस्तु विततः स तु वायुसमीरितः । KK03-11-216-025a
रसान्धातूंश्च दोषांश्च वर्तयन्परिधावति ॥ KK03-11-216-025c
प्राणानां सन्निपातात्तु सन्निपातः प्रजायते । KK03-11-216-026a
सोष्मा सोग्निरिति ज्ञेयो योऽन्नं पचति देहिनाम् ॥ KK03-11-216-026c
अपानोदानयोर्मध्ये प्राणव्यानौ समाहितौ । KK03-11-216-027a
समन्वितस्त्वधिष्ठानं सम्यक्पचति पावकः ॥ KK03-11-216-027c
अस्यापि पायुपर्यन्तस्तथा स्याद्गुदसञ्ज्ञितः । KK03-11-216-028a
स्रोतांसि तस्माज्जायन्ते सर्वप्राणेषु देहिनाम् ॥ KK03-11-216-028c
अग्निवेगवहः प्राणो गुदान्ते प्रतिहन्यते । KK03-11-216-029a
स ऊर्ध्वमागम्य पुनः समुत्क्षिपति पावकम् ॥ KK03-11-216-029c
पक्वाशयस्त्वधोनाभ्या ऊर्ध्वमामाशयः स्थितः । KK03-11-216-030a
नाभिमध्ये शरीरस्य प्राणाः सर्वे प्रतिष्ठिताः ॥ KK03-11-216-030c
प्रवृत्ता हृदयात्सर्वे तिर्यगूर्ध्वमधस्तथा । KK03-11-216-031a
वहन्त्यन्नरसान्नाड्यो दशप्राणप्रचोदिताः ॥ KK03-11-216-031c
योगिनामेष मार्गस्तु येन गच्छन्ति तत्परम् । KK03-11-216-032a
जितक्लमासनो धीरो मूर्धन्यात्मानमादधत् ॥ KK03-11-216-032c
एवं सर्वेषु विततौ प्राणापानौ हि देहिषु । KK03-11-216-033a
'तौ तावदग्निसहितौ विद्धि वै प्राणमात्मनि' ॥ KK03-11-216-033c
एकादशविकारात्मा कलासम्भारसम्भृतः । KK03-11-216-034a
मूर्तिमन्तं हि तं विद्धि नित्यं कर्मजितात्मकम् । KK03-11-216-034c
तस्मिन्यः संस्थितो ह्यग्निर्नित्यं स्थाल्यामिवाहितः ॥ KK03-11-216-034e
आत्मानं तं विजानीहि नित्यं त्यागजितात्मकम् ॥ KK03-11-216-035ac
देवो यः संस्थितस्तस्मिन्नब्बिन्दुरिव पुष्करे । KK03-11-216-036a
क्षेत्रज्ञं तं विजानीहि नित्यं त्यागजितात्मकम् ॥ KK03-11-216-036c
जीवात्मकं विजानीहि रजः सत्वं तमस्तथा । KK03-11-216-037a
जीवमात्मगुणं विद्धि तथाऽऽत्मानं परात्मकम् ॥ KK03-11-216-037c
अचेतनं जीवगुणं वदन्ति स चेष्टते चेष्टयते च सर्वम् । KK03-11-216-038a
ततः परं क्षेत्रविदो वदन्ति प्राकल्पयद्यो भुवनानि सप्त ॥ KK03-11-216-038c
एष सर्वेषु भूतेषु भूतात्मा न प्रकाशते । KK03-11-216-039a
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया ज्ञानवेदिभिः ॥ KK03-11-216-039c
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । KK03-11-216-040a
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते ॥ KK03-11-216-040c
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् । KK03-11-216-041a
'सुखदुःखे हि सन्त्यज्य निर्द्वन्द्वो निष्परिग्रहः' । KK03-11-216-041c
निवाते वा यथा दीपो दीप्येत्कुशलदीपितः ॥ KK03-11-216-041e
पूर्वरात्रेऽपरे चैव युञ्जानः सततं मनः । KK03-11-216-042a
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ॥ KK03-11-216-042c
प्रदीप्तेनेव दीपेन मनोदीपेन पश्यति । KK03-11-216-043a
दृष्ट्वाऽऽत्मानं निरात्मानं स तदा विप्रमुच्यते ॥ KK03-11-216-043c
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः । KK03-11-216-044a
एतत्पवित्रं यञ्ज्ञानं तपो वै सङ्क्रमो मतः ॥ KK03-11-216-044c
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् । KK03-11-216-045a
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ॥ KK03-11-216-045c
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् । KK03-11-216-046a
आत्मज्ञानं परं ज्ञानं परं सत्यव्रतव्रतम् ॥ KK03-11-216-046c
सत्यस् वचनं श्रेयः सत्यं ज्ञानं हितं भवेत् । KK03-11-216-047a
यद्बूतहितमत्यन्तं तद्वै सत्यं परं मतम् ॥ KK03-11-216-047c
यस्य सर्वे समारम्भा निराशीर्बन्धनाः सदा । KK03-11-216-048a
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ॥ KK03-11-216-048c
यदा न गुरुतां चैनं च्यावयेदुपपादयन् । KK03-11-216-049a
तं विद्याद्ब्राह्मणो योगमयोगं योगसञ्ज्ञितम् ॥ KK03-11-216-049c
न हिंस्यात्सर्वभूतानि मैत्रायणगतश्चरेत् । KK03-11-216-050a
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित् ॥ KK03-11-216-050c
आकिञ्चन्यं सुसन्तोषो निराशित्वमचापलम् । KK03-11-216-051a
एतदेव परं ज्ञानं सदात्मज्ञानमुत्तमम् ॥ KK03-11-216-051c
परिग्रहं परित्यज्य भवेद्बुद्ध्या यतव्रतः । KK03-11-216-052a
अशोकं स्थानमाश्रित्य निश्चलं प्रेत्य चेह च ॥ KK03-11-216-052c
तपोनित्येन दान्तेन मुनिना संयतात्मना । KK03-11-216-053a
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ KK03-11-216-053c
गुणागुणमनासङ्गमेककार्यमनन्तरम् । KK03-11-216-054a
एतत्तद्ब्रह्मणो वृत्तमाहुरेकपदं सुखम् ॥ KK03-11-216-054c
परित्यजति यो दुःखं सुखं चाप्युभयं नरः । KK03-11-216-055a
ब्रह्म प्राप्नोति सोत्यन्तमासङ्गं च न गच्छति ॥ KK03-11-216-055c
यथाश्रुतमिदं सर्वं समासेन द्विजोत्तम । KK03-11-216-056a
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ KK03-11-216-056c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षोडशाधिकद्विशततमोऽध्यायः ॥
3-216-10 नचास्य संशयो नाम इति झ. पाठः ॥ 3-216-27 समानोदानयोर्मध्येप्राणापानौ समाहितौ इति झ. पाठः ॥ 3-216-45 धर्मंं रक्षेच्च मत्सरात् इति झ. पाठः ॥ 3-216-50 मैत्रं मित्रभावस्तदेवायनं मार्गस्तद्गतश्चरेत् ॥