अध्यायः 215
कौशिकम् प्रति धर्मव्याधेन भूतपञ्चकगुणनिरूपणपूर्वकमिन्द्रियजयाजययोः सुखदुःखासाधारणकारणताकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-215-001
एवमुक्तः स विप्रस्तु धर्मव्याधेन भारत । KK03-11-215-001a
कथामकथयद्भूयो मनसः प्रीतिवर्धनीम् ॥ KK03-11-215-001c
ब्राह्मण उवाच KK03-11-215-002
महाभूतानि यान्याहुः पञ्च धर्मविदांवर । KK03-11-215-002a
एकैकस्य गुणान्सम्यक्पञ्चानामपि मे वद ॥ KK03-11-215-002c
व्याध उवाच KK03-11-215-003
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च । KK03-11-215-003a
गुणोत्तराणइ सर्वाणि तेषां वक्ष्यामि ते गुणान् ॥ KK03-11-215-003c
भूमिः पञ्चगुणा ब्रह्मन्नुदकं च चतुर्गुणम् । KK03-11-215-004a
गुणास्त्रयस्तेजसि च त्रयश्चाकाशवातयोः ॥ KK03-11-215-004c
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । KK03-11-215-005a
एते गुणाः पञ्च भूमेः सर्वेभ्यो गुणवत्तराः ॥ KK03-11-215-005c
शब्दः स्पर्शश्च रूपं च सरश्चापि द्विजोत्तम । KK03-11-215-006a
अपामेते गुणा ब्रह्मन्कीर्तितास्तव सुव्रत ॥ KK03-11-215-006c
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः । KK03-11-215-007a
शब्दः स्पर्शश्च वायौ तु शब्दश्चाकाश एव तु ॥ KK03-11-215-007c
एते पञ्चदश ब्रह्मन्गुणा भूतेषु पञ्चसु । KK03-11-215-008a
वर्तन्ते सर्वभूतेषु येषु लोकाः प्रतिष्ठिताः ॥ KK03-11-215-008c
अन्योन्यं नातिवर्तन्ते सम्यक्च भवति द्विज । KK03-11-215-009a
यदा तु विषमं भावमाचरन्ति चराचराः ॥ KK03-11-215-009c
तदा देही देहमन्यं व्यतिरोहति कालतः । KK03-11-215-010a
प्रातिलोम्याद्विनश्यन्ति जायन्ते चानुपूर्वशः ॥ KK03-11-215-010c
तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः । KK03-11-215-011a
यैरावृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ KK03-11-215-011c
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्मृतम् । KK03-11-215-012a
तदव्यक्तमिति ज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ KK03-11-215-012c
यथास्वं ग्राहकान्येषां शब्दादीनामिमानि तु । KK03-11-215-013a
इन्द्रियाणि तथा देही धारयन्निह तप्यते ॥ KK03-11-215-013c
लोके विततमात्मानं लोकं चात्मनि पश्यति । KK03-11-215-014a
परापरज्ञः सक्तः सन्स तु भूतानि पश्यति ॥ KK03-11-215-014c
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा । KK03-11-215-015a
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ॥ KK03-11-215-015c
ज्ञानमूलात्मकं क्लेशमतिवृत्तस्य मोहजम् । KK03-11-215-016a
लोकबुद्धिप्रकाशेन ज्ञेयमार्गेण गम्यते ॥ KK03-11-215-016c
अनादिनिधनं जन्तुमात्मयोनिं सदाव्ययम् । KK03-11-215-017a
अनौपम्यममूर्तं च भगवानाह बुद्धिमान् ॥ KK03-11-215-017c
तपोमूलमिदं सर्वं यन्मां विप्रानुपृच्छसि । KK03-11-215-018a
'तपसा हि समाप्नोति यद्यदेवाभिवाञ्छति' । KK03-11-215-018c
इन्द्रियाण्येव संयम्य तपो भवति नान्यथा ॥ KK03-11-215-018e
इन्द्रियाण्येव तत्सर्वं यत्स्वर्गनरकावुभौ । KK03-11-215-019a
निगृहीतविसृष्टानि स्वर्गाय नरकाय च ॥ KK03-11-215-019c
एष योगविधिः कृत्स्नो यावदिन्द्रियधारणम् । KK03-11-215-020a
एतन्मूलं हि तपसः स्वर्गस्य नरकस्य च ॥ KK03-11-215-020c
इन्द्रियाणां प्रसङ्गेन दोषमार्च्छत्यसंशयम् । KK03-11-215-021a
सन्नियम्य तु तान्येव ततः सिद्धिं समाप्नुयात् ॥ KK03-11-215-021c
षण्णामात्मनि योज्यानामैश्वर्यं योऽधितिष्ठति । KK03-11-215-022a
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ KK03-11-215-022c
रथः शरीरं पुरुषस्य दृष्टमात्मा नियन्तेन्द्रियाण्याहुरश्वान् । KK03-11-215-023a
तैरप्रमत्तः कुशली सदश्वैर्दान्तः सुखं याति रथीव धीरः ॥ KK03-11-215-023c
षण्णामात्मनियुक्तानामिन्द्रियाणां प्रमाथिनाम् । KK03-11-215-024a
यो धीरो धारयेद्रश्मीन्स स्यात्परमसारथिः ॥ KK03-11-215-024c
इन्द्रियाणां प्रसृष्टानां हयानामिव वर्त्मसु । KK03-11-215-025a
धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद्ध्रुवम् ॥ KK03-11-215-025c
इन्द्रियाणां विचरतां यन्मनोऽनुविधीयते । KK03-11-215-026a
तदस् हरते बुद्धिं नावं वायुरिवाम्भसि ॥ KK03-11-215-026c
येषु विप्रतिपद्यन्ते षट्स्वमोहात्फलागमम् । KK03-11-215-027a
तेष्वध्यवसिताध्यायी विन्दते ध्यानजं फलम् ॥ KK03-11-215-027c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चदशाधिकद्विशततमोऽध्यायः ॥ 215 ॥
-215-3 गुणोत्तराणि उत्तरोत्तरगुणाः पूर्वपूर्वस्मिन्वर्तन्त इत्यर्थः ॥ 3-215-10 आनुपूर्व्या विनश्यन्ति इति झ. थ. पाठः ॥ 3-215-20 कृत्स्नस्य नरकस्य चेति झ. ध. पाठः ॥ 3-215-27 षट्सु मोहात् इति झ. पाठः ॥