अध्यायः 214

धर्मव्याधेन कौशिकम् प्रति प्राणिभिर्दुष्कृतसुकृतकरणप्रकारादिकधनपूर्वकम् ब्राह्मणमाहात्म्यादिकथनम् ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-214-001
एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर । KK03-11-214-001a
प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ KK03-11-214-001c
व्याध उवाच KK03-11-214-002
विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते । KK03-11-214-002a
तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ KK03-11-214-002c
ततस्तदर्थं यतते कर्म चारभते महत् । KK03-11-214-003a
इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ KK03-11-214-003c
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् । KK03-11-214-004a
ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ KK03-11-214-004c
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च । KK03-11-214-005a
न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ KK03-11-214-005c
व्याजेन चरते धर्ममर्थं व्याजेन रोचते । KK03-11-214-006a
व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ॥ KK03-11-214-006c
तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति । KK03-11-214-007a
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ॥ KK03-11-214-007c
उत्तरं श्रुतिसम्बद्धं ब्रवीत्यश्रुतियोजितम् । KK03-11-214-008a
अधर्मस्त्रिविधस्तस्य वर्तते रागदोषजः ॥ KK03-11-214-008c
पापं चिन्तयते चैव ब्रवीति च करोति च । KK03-11-214-009a
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ॥ KK03-11-214-009c
एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः । KK03-11-214-010a
स तेन दुःखमाप्नोति परत्र च विपद्यते ॥ KK03-11-214-010c
पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु । KK03-11-214-011a
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ॥ KK03-11-214-011c
कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते । KK03-11-214-012a
तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु राजते ॥ KK03-11-214-012c
ब्राह्मण उवाच KK03-11-214-013
ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते । KK03-11-214-013a
दिव्यप्रभावः सुमहानृषिरेव मतोसि मे ॥ KK03-11-214-013c
व्याध उवाच KK03-11-214-014
ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा । KK03-11-214-014a
तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ KK03-11-214-014c
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम । KK03-11-214-015a
नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ KK03-11-214-015c
इदं विश्वं जगत्सर्वमजगच्चापि सर्वशः । KK03-11-214-016a
महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ KK03-11-214-016c
महाभूतानि खं वायुरग्निरापस्तथा च भूः । KK03-11-214-017a
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ KK03-11-214-017c
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् । KK03-11-214-018a
पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ KK03-11-214-018c
षष्ठी तु चेतना नाम मन इत्यभिधीयते । KK03-11-214-019a
सप्तमी तु भवेद्बुद्धिरहङ्कारस्ततः परम् ॥ KK03-11-214-019c
इन्द्रियाणि च पञ्चात्मा रजः सत्वं तमस्तथा । KK03-11-214-020a
इत्येष सप्तदशको राशिरव्यक्तसञ्ज्ञकः ॥ KK03-11-214-020c
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतैः । KK03-11-214-021a
चतुर्विंशक इत्येष व्यकत्वाव्यक्तमयो गुणः । KK03-11-214-021c
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ KK03-11-214-021e

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्दशाधिकद्विशततमोऽध्यायः ॥ 214 ॥