अध्यायः 213
धर्मव्याधेन कौशिकम् प्रति पौरुषनिन्दनेन दैवप्रशंसनपूर्वकं सुकृतदुष्कृतयोः सुखदुःखहेतुताप्रतिपादनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-213-001
धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर । KK03-11-213-001a
विप्रर्षभमुवाचेदं सर्वधर्मभृतांवर ॥ KK03-11-213-001c
श्रुतिप्रमाणो धर्मोऽयमिति वृद्धानुशासनम् । KK03-11-213-002a
सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥ KK03-11-213-002c
प्राणान्तिके विवाहे च वक्तव्यमनृतं भवेत् । KK03-11-213-003a
अनृतेन भवेत्सत्यं सत्येनैवानृतं भवेत् ॥ KK03-11-213-003c
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा । KK03-11-213-004a
विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥ KK03-11-213-004c
यत्करोत्यशुभं कर्म शुभं वा यदि सत्तम । KK03-11-213-005a
अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥ KK03-11-213-005c
विषमां च दशां प्राप्तो देवान्गर्हति वै भृशम् । KK03-11-213-006a
आत्मृनः कर्मदोषेण न विजानात्यपण्डितः ॥ KK03-11-213-006c
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम । KK03-11-213-007a
'न शुभं कर्म बध्नाति पुरुषं पापनिश्चयम्' ॥ KK03-11-213-007c
सुखदुःखविपर्यासो यदा समुपपद्यते । KK03-11-213-008a
नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥ KK03-11-213-008c
यो यमिच्छेद्यथा कामं तं तं कामं स आप्नुयात् । KK03-11-213-009a
यदि स्यादपराधीनं पौरुषस्य क्रियाफलम् ॥ KK03-11-213-009c
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः । KK03-11-213-010a
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ KK03-11-213-010c
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । KK03-11-213-011a
वञ्चनायां च लोकस्य स सुखेनैव युज्यते ॥ KK03-11-213-011c
अचेष्टमपि चासीनं श्रीः कञ्चिदुपतिष्ठति । KK03-11-213-012a
कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥ KK03-11-213-012c
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृध्नुभिः । KK03-11-213-013a
दशमासधृता गर्भा जायन्ते कुलपांसनाः ॥ KK03-11-213-013c
अपरे धनधान्यैश्च भोगैश्च पितृसञ्चितैः । KK03-11-213-014a
विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ KK03-11-213-014c
'न देहजा मनुष्याणां व्याधयो द्विजसत्तम' । KK03-11-213-015a
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ॥ KK03-11-213-015c
आधिभिश्चैव बाध्यन्ते व्यालैः क्षुद्रमृगा इव । KK03-11-213-016a
ते चापि कुशलैर्वैद्यैर्निपुणैः सम्भृतौषधैः । KK03-11-213-016c
व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥ KK03-11-213-016e
येषामस्ति च भोक्तव्यं ग्रहणीरोगपीडिताः । KK03-11-213-017a
न शक्नुवन्ति ते भोक्तुं चेष्टितं पूर्वकर्मया ॥ KK03-11-213-017c
अपरे बाहुबलिनः क्लिश्यन्ति बहवो जनाः । KK03-11-213-018a
दुःखेन चाधिगच्छनति भोजनं द्विजसत्तम ॥ KK03-11-213-018c
इति लोकमनाक्रन्दं देहशङ्कापरिप्लुतम् । KK03-11-213-019a
स्रोतसाऽसकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥ KK03-11-213-019c
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सर्वकामिकाः । KK03-11-213-020a
नाप्रियं प्रतिपश्येयुर्विधिश्च यदि नो भवेत् ॥ KK03-11-213-020c
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते । KK03-11-213-021a
यतते च यथाथक्ति न च तद्वर्तते तथा ॥ KK03-11-213-021c
बहवः सम्प्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः । KK03-11-213-022a
महत्तु फलवैषम्यं दृश्यते कर्मसिद्धिषु ॥ KK03-11-213-022c
न केचिदीशते ब्रह्मन्स्वयङ्ग्राह्यस्य सत्तम । KK03-11-213-023a
कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥ KK03-11-213-023c
तथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः । KK03-11-213-024a
शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥ KK03-11-213-024c
वध्यमाने शरीरे तु देहनाशो भवत्युत । KK03-11-213-025a
जीवः सङ्क्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥ KK03-11-213-025c
ब्राह्मण उवाच KK03-11-213-026
कथं धर्मविदांश्रेष्ठ जीवो भवति शाश्वतः । KK03-11-213-026a
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतांवर ॥ KK03-11-213-026c
व्याध उवाच KK03-11-213-027
न जीवनाशोस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतीति मूढाः । KK03-11-213-027a
जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥ KK03-11-213-027c
अन्यो हि नाश्नाति कृतं हि कर्म मनुष्यलोके मनुजस्य कश्चित् । KK03-11-213-028a
यत्तेन किञ्चिद्धि कृतंहि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ KK03-11-213-028c
सुपुण्यशीला हि भवन्ति पुण्या नराधमाः पापकृतो भवन्ति । KK03-11-213-029a
नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः ॥ KK03-11-213-029c
ब्राह्मण उवाच KK03-11-213-030
कथं सम्भवते योनौ कथं वा पुण्यपापयोः । KK03-11-213-030a
जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥ KK03-11-213-030c
व्याध उवाच KK03-11-213-031
गर्भाधानसमायुक्तं कर्मेदं सम्प्रदृश्यते । KK03-11-213-031a
समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥ KK03-11-213-031c
यथा सम्भृतसम्भारः पुनरेव प्रजायते । KK03-11-213-032a
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ KK03-11-213-032c
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् । KK03-11-213-033a
मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥ KK03-11-213-033c
जातिमृत्युजरादुःखैः सततं समभिद्रुतः । KK03-11-213-034a
संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥ KK03-11-213-034c
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । KK03-11-213-035a
जीवाः सम्परिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ KK03-11-213-035c
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः । KK03-11-213-036a
तद्दुःखप्रतिघातार्थमपुण्यां योनिमाप्नुते ॥ KK03-11-213-036c
ततः कर्म समादत्ते पुनरन्यन्नवं बहु । KK03-11-213-037a
पच्यते तु पुनस्तेन भुक्त्वाऽपथ्यमिवातुरः ॥ KK03-11-213-037c
अजस्रमेव दुःखार्तोऽदुःखितः सुखिसञ्ज्ञितः । KK03-11-213-038a
ततो निवृत्तबन्धत्वात्कर्मणामुदयादपि ॥ KK03-11-213-038c
परिक्रामति संसारे चक्रवद्बहुवेदनः । KK03-11-213-039a
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ॥ KK03-11-213-039c
तपोयोगसमारम्भं कुरुते द्विजसत्तम । KK03-11-213-040a
कर्मभिर्बहुभिश्चापि लोकानश्नाति मानवः ॥ KK03-11-213-040c
[स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।] KK03-11-213-041a
प्राप्नोति सुकृताल्ँलोकान्यत्र गत्वा न शोचति ॥ KK03-11-213-041c
पापं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति । KK03-11-213-042a
'पुण्यं कुर्वन्पुण्यवृत्तः पुण्यस्यान्तं न गच्छति' । KK03-11-213-042c
तस्मात्पुण्यं यतेत्कर्तुं वर्जयीत च पापकम् ॥ KK03-11-213-042e
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते । KK03-11-213-043a
सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥ KK03-11-213-043c
संस्कृतस्य च दान्तस्य नियतस्य यतात्मनः । KK03-11-213-044a
प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥ KK03-11-213-044c
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् । KK03-11-213-045a
असङ्क्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विजः ॥ KK03-11-213-045c
सन्ति ह्यागमविज्ञानाः शिष्टाः शास्त्रे विचक्षणाः । KK03-11-213-046a
स्वधर्मेण क्रिया लोके कुर्वाणास्ते ह्यसङ्कराः ॥ KK03-11-213-046c
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति । KK03-11-213-047a
तस्माद्धर्मादवाप्तेन धनेन द्विजसत्तम ॥ KK03-11-213-047c
तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै । KK03-11-213-048a
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति । KK03-11-213-048c
स मित्रजनसन्तुष्ट इह प्रेत्य च नन्दति ॥ KK03-11-213-048e
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम । KK03-11-213-049a
प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥ KK03-11-213-049c
धर्मस्य च पलं लब्ध्वा न तुष्यति महाद्विज । KK03-11-213-050a
अतुष्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ KK03-11-213-050c
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते । KK03-11-213-051a
विरज्यते यथाकामं न च धर्मं विमुञ्चति ॥ KK03-11-213-051c
फलत्यागे च यतते दृष्ट्वा लोकं क्रियात्मकम् । KK03-11-213-052a
ततो मोक्षे प्रयतते नानुपायादुपायतः ॥ KK03-11-213-052c
एवं निर्वेदमादत्ते पापं कर्म जहाति च । KK03-11-213-053a
धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥ KK03-11-213-053c
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः । KK03-11-213-054a
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ KK03-11-213-054c
इन्द्रियाणां निरोधेन सत्येन च दमेन च । KK03-11-213-055a
ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥ KK03-11-213-055c
ब्राह्मण उवाच KK03-11-213-056
इन्द्रियाणीति यान्याहुः कानि तानि यतव्रत । KK03-11-213-056a
निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥ KK03-11-213-056c
कथं च फलमाप्नोति तेषां धर्मभृतांवर । KK03-11-213-057a
एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥ KK03-11-213-057c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमस्यापर्वणि त्रयोदशाधिकद्विशततमोऽध्याः ॥ 213 ॥
3-213-4 धारणा अवधारणम् । निश्चय इत्यर्थः ॥ 3-213-8 सुनीतं गुरुशिक्षा ॥ 3-213-10 प्रहीणाः श्रान्ता अपीत्यर्थः ॥ 3-213-13 पुत्रगृध्नुभिः पुत्रकामैः ॥ 3-213-19 अनाक्रन्दम् असहायम् । आक्रन्दः क्रन्दने ह्वाने मित्रदारुणयुद्धयोरिति मेदिनी । स्रोतसा कर्मप्रवाहेण ॥ 3-213-23 स्वीयमपि वस्तु स्वस्यानधीनं प्राक्कर्मवशाद्भवतीत्यर्थः ॥ 3-213-27 दशार्धता पञ्चत्वम् ॥ 3-213-27 मोहनीयैस्तामसैः । अधः नरकतिर्यक्षु ॥ 3-213-33 प्रेत्य मृत्वा । 3-213-36 दुःखात्मकः प्रतीघातः । दुःखं भोक्तुमित्यर्थः ॥ 3-213-39 निवृत्तबन्धो वीतरागः । तत्र हेतुः विशुद्धश्चेति ॥ 3-213-40 तपोयोगयोः आलोचनध्यानयोः समारम्भम् ॥ 3-213-42 यतेत् यतेत ॥ 3-213-49 प्रभुत्वम् अप्रतिहतेच्छत्वम् ॥ 3-213-51 अतुष्यमाणः प्रीतिमलभमानः निर्वेदं वैराग्यं दोषं रागद्वेषादिकं नानुरुध्यते तद्वशो न भवतीत्यर्थः ॥ 3-213-52 उपायत एव मोक्षे प्रयतते नन्वनुपायाद्दैवमात्राश्रयादिति योजना ॥ 3-213-54 तपः ज्ञानम् । निःश्रेयसं मोक्षसाधनम् ॥ 3-213-57 तेषाम् इन्द्रियाणां निग्रहादिति शेषः ॥