अध्यायः 212
कौशिकम् प्रति धर्मव्याधेन सर्वैर्हिंसाया दुस्त्यजत्वोपपादनपूर्वकं सर्ववर्णानां स्वस्वधर्मानुष्ठानस्य श्रेयःसाधनत्वादिकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-212-001
स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर । KK03-11-212-001a
यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ KK03-11-212-001c
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुरा कृतम् । KK03-11-212-002a
पुरा कृतस्य पापस्य कर्मदोषो भवत्ययम् ॥ KK03-11-212-002c
दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् । KK03-11-212-003a
विधिना हि हते पूर्वं निमित्तं घातको भवेत् ॥ KK03-11-212-003c
निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ KK03-11-212-004ac
येषां हतानां मांसानि विक्रीणीमो वयं द्विज । KK03-11-212-005a
तेषामपि भवेद्धर्म उपयोगेन भक्षणात् । KK03-11-212-005c
देवतातिथिभृत्यानां पितॄणां चापि पूजनात् ॥ KK03-11-212-005e
ओषध्यो वीरुधश्चैव पशवो मृगपक्षिणः । KK03-11-212-006a
अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ KK03-11-212-006c
आत्ममांसप्रसादेन शिबिरौशीनरो नृपः । KK03-11-212-007a
स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ KK03-11-212-007c
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज । KK03-11-212-008a
[द्वे सहस्रे तु पच्येते पशूनामन्वहं तदा ।] KK03-11-212-008c
अहन्यहनि पच्येते द्वे सहस्रे गवां तथा ॥ KK03-11-212-008e
स मासं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः । KK03-11-212-009a
अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ॥ KK03-11-212-009c
चातुर्मास्ये च पशवो वध्यन्त इति नित्यशः । KK03-11-212-010a
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः ॥ KK03-11-212-010c
यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः । KK03-11-212-011a
संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ KK03-11-212-011c
यदि नैवाग्नयो ब्रह्मन्मांसकामाऽभवन्पुरा । KK03-11-212-012a
भक्ष्यं नैवाभवन्मांसं कस्यचिद्द्विजसत्तम ॥ KK03-11-212-012c
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे ॥ KK03-11-212-013ac
देवतानां पितॄणां च भुङ्क्ते दत्त्वाऽपि यः सदा । KK03-11-212-014a
यथाविधि यथाश्रद्धं न स दुष्येत भक्षणात् ॥ KK03-11-212-014c
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः । KK03-11-212-015a
भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ KK03-11-212-015c
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते । KK03-11-212-016a
सौदासेन तदा राज्ञा मानुषा भक्षिता द्विज । KK03-11-212-016c
शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ KK03-11-212-016e
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम । KK03-11-212-017a
पुरा कृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ॥ KK03-11-212-017c
स्वधर्मं त्यजतो ब्रह्मन्नधर्म इह दृश्यते । KK03-11-212-018a
स्वकर्मनिरतो यस्तु धर्मः स इति निश्चयः ॥ KK03-11-212-018c
कुले हि विहितं कर्म देही तं न विमुञ्चति । KK03-11-212-019a
धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ॥ KK03-11-212-019c
द्रष्टव्यस्तु भवेद्ब्रह्मन्धर्मो धर्मविनिश्चये । KK03-11-212-020a
कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ॥ KK03-11-212-020c
कर्मणस्तस्य घोरस्य वसुधा निर्णयो भवेत् । KK03-11-212-021a
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा । KK03-11-212-021c
द्विजातिपूजने चाहं धर्मे च निरतः सदा ॥ KK03-11-212-021e
अतिमानातिवादाभ्यां निवृत्तोस्मि द्विजोत्तम । KK03-11-212-022a
कृषिं साध्वीति मन्यन्ते तत्र हिंसा परा स्मृता ॥ KK03-11-212-022c
कर्षन्तो लाङ्गलैरुर्वीं घ्नन्ति भूमिशयान्बहून् । KK03-11-212-023a
जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ॥ KK03-11-212-023c
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम । KK03-11-212-024a
सर्वाण्येतानि जीवा हि तत्र किं प्रतिभाति ते ॥ KK03-11-212-024c
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च । KK03-11-212-025a
वृक्षांस्तथौषधीश्चापि छिन्दन्ति पुरुषा द्विज ॥ KK03-11-212-025c
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च । KK03-11-212-026a
उदके बहवश्चापि तत्र किं प्रतिभाति ते ॥ KK03-11-212-026c
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः । KK03-11-212-027a
मत्स्यान्ग्रसन्ते मत्स्याश्च तत्र किं प्रतिभाति ते ॥ KK03-11-212-027c
सत्वैः सत्वानि जीवन्ति बहुधा द्विजसत्तम । KK03-11-212-028a
प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ॥ KK03-11-212-028c
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् । KK03-11-212-029a
पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥ KK03-11-212-029c
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः । KK03-11-212-030a
अज्ञानादथवा ज्ञानात्तत्र किं प्रतिभाति ते ॥ KK03-11-212-030c
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा । KK03-11-212-031a
अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ KK03-11-212-031c
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा । KK03-11-212-032a
के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम ॥ KK03-11-212-032c
बहु सञ्चिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ KK03-11-212-033ac
अहिंसायां तु निरता यतयो द्विजसत्तम । KK03-11-212-034a
कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ KK03-11-212-034c
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः । KK03-11-212-035a
महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ KK03-11-212-035c
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः । KK03-11-212-036a
सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यति ॥ KK03-11-212-036c
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि । KK03-11-212-037a
गुरूंश्चैव विनिन्दन्ति मूढा निश्चितमानिनः ॥ KK03-11-212-037c
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम । KK03-11-212-038a
धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ KK03-11-212-038c
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु । KK03-11-212-039a
स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ KK03-11-212-039c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्वादशाधिकद्विशततमोऽध्यायः ॥ 212 ॥
3-212-1 एतन्मांसविक्रयात्मकम् ॥ 3-212-3 यत्नवानपि न परिहर्तुं शक्नोमि । विधेः प्राबल्यादित्यर्थः ॥ 3-212-4 शरवन्निमित्तभूता वयं सन्धातृवत्कर्ता तु विधिरेवेत्यर्थः ॥ 3-212-6 अन्नाद्यभूताः अन्नं च तदद्यं च भोग्यं भक्ष्यं चेत्यर्थः ॥ 3-212-15 यज्ञियमांसभुजोऽपि ऋतुगामिनो ब्रह्मचर्यमिव औपचारिकममांसाशित्वमिति भावः ॥ 3-212-20 द्रष्टव्या तु भवेत्प्रज्ञा क्रूरे कर्मणि वर्तता इति झ. पाठः ।