अध्यायः 211
कौशिकम् प्रति धर्मव्याधेन शिष्टलक्षणादिकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-211-001
स तु विप्रो महाप्राज्ञ धर्मव्याधमपृच्छत । KK03-11-211-001a
शिष्टाचारं कथमहं विद्यामिति नरोत्तम ॥ KK03-11-211-001c
'पञ्च कानि पवित्राणि शिष्टाचारेषु नित्यदा' । KK03-11-211-002a
एतदिच्छामि भद्रं ते श्रोतुं धर्मभृतांवर । KK03-11-211-002c
त्वत्तो महामते व्याध तद्ब्रवीहि यथातथम् ॥ KK03-11-211-002e
व्याध उवाच KK03-11-211-003
यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम । KK03-11-211-003a
पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ KK03-11-211-003c
कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् । KK03-11-211-004a
धर्ममित्येवं सन्तुष्टास्ते शिष्टाः शिष्टसम्मताः ॥ KK03-11-211-004c
न तेषां भिद्यते वृत्तं यज्ञस्वाध्यायशीलिनाम् । KK03-11-211-005a
आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ KK03-11-211-005c
गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च । KK03-11-211-006a
एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ KK03-11-211-006c
शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः । KK03-11-211-007a
यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ KK03-11-211-007c
वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः । KK03-11-211-008a
दमस्योपनिषत्त्यागः शिष्टाचारेषु नित्यदा ॥ KK03-11-211-008c
ये तु धर्मानसूयन्ते बुद्धिमोहान्विता नराः । KK03-11-211-009a
अपथा गच्छतां तेषामनुयाता च पीड्यते ॥ KK03-11-211-009c
ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः । KK03-11-211-010a
धर्मपन्थानमारूढाः सत्यधर्मपरायणाः ॥ KK03-11-211-010c
नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता जनाः । KK03-11-211-011a
उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ KK03-11-211-011c
नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् । KK03-11-211-012a
त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ KK03-11-211-012c
कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् । KK03-11-211-013a
नावं धृतिमयीं कृत्वा जन्मदुर्गाणि सन्तर ॥ KK03-11-211-013c
क्रमेण सञ्चितो धर्मो बुद्धियोगमयो महान् । KK03-11-211-014a
शिष्टाचारे भवेत्साधू रागः शुक्ले व वाससि ॥ KK03-11-211-014c
अहिंसा सत्यवचनं सर्वभूतहितं परम् । KK03-11-211-015a
अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः । KK03-11-211-015c
सत्यं कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ KK03-11-211-015e
सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् । KK03-11-211-016a
आचारश्च सतां धर्मः सन्तो ह्याचारलक्षणाः ॥ KK03-11-211-016c
यो यथा प्रकृतिर्जन्तुः स स्वां प्रकृतिमश्नुते । KK03-11-211-017a
पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ KK03-11-211-017c
आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः । KK03-11-211-018a
अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥ KK03-11-211-018c
अक्रुध्यन्तोऽनसूयन्तो निरहङ्कारमत्सराः । KK03-11-211-019a
ऋजवः शमसम्पन्नाः शिष्टाचारा भवन्ति ते ॥ KK03-11-211-019c
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः । KK03-11-211-020a
गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ KK03-11-211-020c
तेषामहीनसत्वानां दुष्कराचारकर्मणाम् । KK03-11-211-021a
स्वैः कर्मभिः सत्कृतानां घोरत्वं सम्प्रणश्यति ॥ KK03-11-211-021c
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् । KK03-11-211-022a
धर्म्यं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ KK03-11-211-022c
आस्तिका मानहीनाश्च द्विजातिजनपूजकाः । KK03-11-211-023a
श्रुतवृत्तोपसम्पन्नास्ते सन्तः स्वर्गगामिनः ॥ KK03-11-211-023c
वेदोक्तः प्रथमो धर्मो धर्मशास्त्रेषु चापरः । KK03-11-211-024a
शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥ KK03-11-211-024c
धारणं चापि वेदानां तीर्थानामवगाहनम् । KK03-11-211-025a
क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ KK03-11-211-025c
सर्वभूतदयावन्तो ह्यहिंसानिरताः सदा । KK03-11-211-026a
परुषं च न भाषन्ते सदा सन्तो द्विजप्रियाः ॥ KK03-11-211-026c
शुभानामशुभानां च कर्मणां सबलाश्रयम् । KK03-11-211-027a
विपाकमभिजानन्ति ते शिष्टाः शिष्टसम्मताः ॥ KK03-11-211-027c
न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः । KK03-11-211-028a
सन्तः स्वर्गजितः शक्त्या सन्निविष्टाश्च सत्पथे । KK03-11-211-028c
दातारः संविभक्तारो दीनानुग्रहकारिणः ॥ KK03-11-211-028e
सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः । KK03-11-211-029a
सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसम्मताः ॥ KK03-11-211-029c
दाननित्याः सुखान्याशु प्राप्नुवन्त्यपि च श्रियम् । KK03-11-211-030a
पीडया च कलत्रस्य भृत्यानां च समाहिताः ॥ KK03-11-211-030c
अतिशक्त्या प्रयच्छन्ति सन्तः सद्भिः समागताः । KK03-11-211-031a
लोकयात्रां च पश्यन्तो धर्ममात्महितानि च । KK03-11-211-031c
एवं सन्तो वर्तमानास्त्वेधन्ते शाश्वतीः समाः ॥ KK03-11-211-031e
अहिंसा सत्यवचनमानृशंस्यमथार्जवम् । KK03-11-211-032a
अद्रोहो नातिमानश्च ह्रीस्तितिक्षा दमः शमः ॥ KK03-11-211-032c
धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः । KK03-11-211-033a
अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ KK03-11-211-033c
त्रीण्येव तु पदान्याहुः सतां वृत्तमनुस्मरन् । KK03-11-211-034a
न चैव द्रुह्येद्दद्याच्च सत्यं चैव सदा वदेत् ॥ KK03-11-211-034c
सर्वत्र च दयावन्तः सन्तः करुणवेदिनः । KK03-11-211-035a
गच्छन्तीह सुसन्तुष्टा धर्म्यं पन्थानमुत्तमम् ॥ KK03-11-211-035c
शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः । KK03-11-211-036a
अनसूया क्षमा शान्तिः सन्तोषः प्रियवादिता ॥ KK03-11-211-036c
कामक्रोधपरित्यागः शिष्टाचारनिषेवणम् । KK03-11-211-037a
कर्म च श्रुतसम्पन्नं सतां मार्गमनुत्तमम् ॥ KK03-11-211-037c
शिष्टाचारं निषेवन्ते नित्यं धर्ममनुव्रताः । KK03-11-211-038a
प्रज्ञाप्रासादमारूह्य मुह्यतो महतो जनान् ॥ KK03-11-211-038c
प्रेक्षन्ते लोकवृत्तानि विविधानि द्विजोत्तमाः । KK03-11-211-039a
अतिपुण्यानि दानानि तानि द्विजवरोत्तम ॥ KK03-11-211-039c
एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् । KK03-11-211-040a
शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ KK03-11-211-040c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकादशाधिकद्विशततमोऽध्यायः ॥ 211 ॥
3-211-6 वृत्तं वृतं स्वेच्छोपात्तमिति यावत् ॥ 3-211-7 अतोऽन्यथा गुरुशुश्रूषणाद्यभावे ॥ 3-211-8 उपनिषद्रहस्यम् ॥ 3-211-9 अनुयाता अनुगन्ता ॥ 3-211-10 श्रुतिश्च त्यागश्च ते द्वे परम् अयनं स्थानं येषां ते श्रुतित्यागपरायणाः ॥ 3-211-14 शिष्टाचारवति शुक्लपटोपमे योगधर्मः रागइव साधुर्भवेत् । शुक्लेव वेति इवार्थे ॥ 3-211-17 अनात्मवान् अजितचित्तः ॥ 3-211-19 अहङ्कारो दर्पः मत्सरः परदोषासहिष्णुत्वं तद्वर्जिताः । शिष्टं गुरुशास्त्रोक्तम् आचरन्तः शिष्टाचाराः ॥ 3-211-20 त्रैविद्यवृद्धाः तिस्रो विद्या ऋग्यजुःसामात्मिका यत्र स त्रिविद्यो यज्ञस्तत्र साधवस्त्रैविद्या याज्ञिकाः । वृत्तं शीलं तद्वन्तः । मनस्विनः जितचित्ताः ॥ 3-211-21 दुष्कराचारकर्मणां अन्यैर्दुष्करः आचारः शीलं कर्म यज्ञादि येषां तेषाम् । घोरत्वं हिंसादिदोषवत्त्वम् ॥ 3-211-22 पुराणमनादिम् । शाश्वतम् अनवच्छिन्नम् । ध्रुवं नित्यम् । अत्याज्यमित्यर्थः ॥ 3-211-24 वेदोक्तोऽग्निहोत्रादिः । धर्मशास्त्रोक्तः अष्टकाश्राद्धादिः । शिष्टाचीर्णः होलकादिः । शिष्टनां तुष्टिरिति शेषः ॥ 3-211-28 न्यायो युक्तिः । गुणाः शमादयस्तदुपेताः । संविभक्तारः कुटुम्बेषु ॥ 3-211-29 श्रुतधनाः विद्याधनाः ॥ 3-211-35 करुणाः करुणावन्तश्च ते वेदनशीलाश्च । मत्वर्थीयोऽच् ॥ 3-211-39 अतिपुण्यानि पापानि इति झ. पाठः ॥