अध्यायः 210
कौशिकनामकेन द्विजवरेण पतिव्रतावचनाद्धर्मावगतये धर्मव्याधम् प्रति गमनम् ॥ 1 ॥ व्याधेन तस्मै नानाधर्मोपदेशः ॥ 2 ॥
मार्कण्डेय उवाच KK03-11-210-001
चिन्तयित्वा तदाश्चर्यं स्त्रिया प्रोक्तमशेषतः । KK03-11-210-001a
विनिन्दन्स द्विजोऽऽत्मानमागस्कृत इवाबभौ ॥ KK03-11-210-001c
चिन्तयानः स धर्मस्य सूक्ष्मां गतिमथाब्रवीत् । KK03-11-210-002a
श्रद्दधानेन वै भाव्ये गच्छामि मिथिलामहम् ॥ KK03-11-210-002c
कृतात्मा धर्मवित्तस्यां व्याधो निवसते किल । KK03-11-210-003a
तं गच्छाम्यहमद्यैव धर्मं प्रष्टुं तपोधनम् ॥ KK03-11-210-003c
इतिसञ्चिन्त्य मनसा श्रद्दधानः स्त्रिया वचः । KK03-11-210-004a
बलाकाप्रत्ययेनासौ धर्म्यैश्च वचनैः शुभैः ॥ KK03-11-210-004c
सम्प्रतस्थे स मिथिलां कौतूहलसमन्वितः । KK03-11-210-005a
अतिक्रामन्नरण्यानि ग्रामांश्च नगराणि च ॥ KK03-11-210-005c
ततो जगाम मिथिलां जनकेन सुरक्षिताम् । KK03-11-210-006a
धर्मसेतुसमाकीर्णां यज्ञोत्सववतीं शुभाम् ॥ KK03-11-210-006c
गोपुराट्टालकवतीं हर्म्यप्राकारशोभनाम् । KK03-11-210-007a
प्रविश्य नगरीं रम्यां विमानैर्बहुभिर्युताम् ॥ KK03-11-210-007c
पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् । KK03-11-210-008a
अश्वै रथैस्तथा नागैर्योधैश्च बहुभिर्युताम् ॥ KK03-11-210-008c
हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् । KK03-11-210-009a
सोऽपस्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ॥ KK03-11-210-009c
धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः । KK03-11-210-010a
अपश्यत्तत्र गत्वा तं सूनामध्ये व्यवस्थितम् ॥ KK03-11-210-010c
मार्गमाहिषमांसानि विक्रीणन्तं तपस्विनम् । KK03-11-210-011a
आकुलत्वाच्च क्रेतॄणामेकान्ते संस्थितो द्विजः ॥ KK03-11-210-011c
स तु ज्ञात्वा द्विजं प्राप्तं सहसा सम्भ्रमोत्थितः । KK03-11-210-012a
आजगाम यतो विप्रः स्थित एकान्त आसने ॥ KK03-11-210-012c
व्याध उवाच KK03-11-210-013
अभिवादये त्वां भगवन्स्वागतं ते द्विजोत्तम । KK03-11-210-013a
अहं व्याधो हि भद्रं ते किं करोमि प्रशाधि माम् ॥ KK03-11-210-013c
एकपत्न्या यदुक्तोसि गच्छ त्वं मिथिलामिति । KK03-11-210-014a
जानाम्येतदहं सर्वं यदर्थं त्वमिहागतः ॥ KK03-11-210-014c
श्रुत्वा च तस्य तद्वाक्यं स विप्रो भृशविस्मितः । KK03-11-210-015a
द्वितीयमिदमाश्चर्यमित्यचिन्तयत द्विजः ॥ KK03-11-210-015c
अदेशस्थं हि ते स्थानमिति व्याधोऽब्रवीद्द्विजम् । KK03-11-210-016a
गृहं गच्छाव भगवन्यदि ते रोचतेऽनघ ॥ KK03-11-210-016c
मार्कण्डेय उवाच KK03-11-210-017
बाढमित्येव तं विप्रो हृष्टो वचनमब्रवीत् । KK03-11-210-017a
अग्रतस्तु द्विजं कृत्वा स जगाम गृहं प्रति ॥ KK03-11-210-017c
प्रविश्य च गृहं रम्यमासनेनाभिपूजितः । KK03-11-210-018a
'अर्घ्येण च स वै तेन व्याधेन द्विजसत्तमः' ॥ KK03-11-210-018c
पाद्यमाचमनीयं च प्रतिगृह्य द्विजोत्तमः । KK03-11-210-019a
ततः सुखोपविष्टस्तं व्याधं वचनमब्रवीत् ॥ KK03-11-210-019c
कर्मैतद्वै न सदृशं भवतः प्रतिभाति मे । KK03-11-210-020a
अनुतप्ये भृशं तात तव घोरेण कर्मणा ॥ KK03-11-210-020c
व्याध उवाच KK03-11-210-021
कुलोचितमिदं कर्म पितृपैतामहं परम् । KK03-11-210-021a
वर्तमानस्य मे धर्मे स्वे मन्युं मा कृथा द्विज ॥ KK03-11-210-021c
विधात्रा विहितं पूर्वं कर्म स्वमनुपालयन् । KK03-11-210-022a
प्रयत्नाच्च गुरू वृद्धौ शुश्रूषेऽहं द्विजोत्तम ॥ KK03-11-210-022c
सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च । KK03-11-210-023a
देवतातिथिभृत्यानामवशिष्टेन वर्तये ॥ KK03-11-210-023c
न कुत्सयाम्यहं किञ्चिन्न गर्हे बलवत्तरम् । KK03-11-210-024a
कृतमन्वेति कर्तारं पुरा कर्म द्विजोत्तम ॥ KK03-11-210-024c
कृषिगोरक्ष्यवाणिज्यमिह लोकस्य जीवनम् । KK03-11-210-025a
दण्डनीतिस्त्रयो विद्या तेन लोको भवत्युत ॥ KK03-11-210-025c
कर्म शूद्रे कृषिर्वैश्ये सङ्ग्रामः क्षत्रिये स्मृतः । KK03-11-210-026a
ब्रह्मचर्यतपोमन्त्राः सत्यं च ब्राह्मणे सदा ॥ KK03-11-210-026c
राजा प्रशास्ति धर्मेण स्वकर्मनिरताः प्रजाः । KK03-11-210-027a
विकर्माणश्च ये केचित्तान्युनक्ति स्वकर्मसु ॥ KK03-11-210-027c
भेतव्यं हि सदा राज्ञां प्रजानामधिपा हि ते । KK03-11-210-028a
मारयन्ति विकर्मस्थं लुब्धा मृगमिवेषुभिः ॥ KK03-11-210-028c
जनकस्येह विप्रर्षे विकर्मस्थो न विद्यते । KK03-11-210-029a
स्वकर्मनिरता वर्णाश्चत्वारोपि द्विजोत्तम ॥ KK03-11-210-029c
स एष जनको राजा दुर्वृत्तमपि चेत्सुतम् । KK03-11-210-030a
दण्ड्यं दण्डे निक्षिपति यथा न ग्लाति धार्मिकम् ॥ KK03-11-210-030c
सुयुक्तचारो नृपतिः सर्वं धर्मेण पश्यति । KK03-11-210-031a
श्रीश्च राज्यं च दण्डश्च क्षत्रियाणां द्विजोत्तम ॥ KK03-11-210-031c
राजानो हि स्वधर्मेण श्रियमिच्छन्ति भूयसीम् । KK03-11-210-032a
सर्वेषामेव वर्णानां त्राता राजा भवत्युत ॥ KK03-11-210-032c
परेण हि हतान्ब्रह्मन्वराहमहिषानहम् । KK03-11-210-033a
न स्वयं हन्मि विप्रर्षे विक्रीणामि सदा त्वहम् ॥ KK03-11-210-033c
न भक्षयामि मांसानि ऋतुगामी तथाह्यहम् । KK03-11-210-034a
सदोपवासी च तथा नक्तभोजी सदा द्विज ॥ KK03-11-210-034c
अशीलश्चापि पुरुषो भूत्वा भवति शीलवान् । KK03-11-210-035a
प्राणिहिंसारतिश्चापि भवते धार्मिकः पुनः ॥ KK03-11-210-035c
व्यभिचारान्नरेन्द्राणां धर्मः सङ्कीर्यते महान् । KK03-11-210-036a
अधर्मो वर्तते चापि सङ्कीर्यन्ते ततः प्रजाः ॥ KK03-11-210-036c
भेरुण्डा वामनाः कुब्जाः स्थूलशीर्षास्तथैव च । KK03-11-210-037a
क्लीबाश्चान्धाश्च बधिरा जायन्तेऽत्युच्चलोचनाः ॥ KK03-11-210-037c
पार्थिवानामधर्मत्वात्प्रजानामभवः सदा । KK03-11-210-038a
स एष राजा जनकः प्रजा धर्मेण पश्यति ॥ KK03-11-210-038c
अनुगृह्णन्प्रजाः सर्वाः स्वधर्मनिरताः सदा । KK03-11-210-039a
'पात्येष राजा जनकः पितृवद्द्विजसत्तम' ॥ KK03-11-210-039c
ये चैव मां प्रशंसन्ति येच निन्दन्ति मानवाः । KK03-11-210-040a
सर्वान्सुपरिणीतेन कर्माणा तोषयाम्यहम् ॥ KK03-11-210-040c
ये जीवन्ति स्वधर्मेण संयुञ्जन्ति च पार्थिवाः । KK03-11-210-041a
न किञ्चिदुपजीवन्ति दान्ता उत्थानशीलिनः ॥ KK03-11-210-041c
शक्त्याऽन्नदानं सततं तितिक्षा धर्मनित्यता । KK03-11-210-042a
यथार्हं प्रतिपूजा च सर्वभूतेषु वै दया ॥ KK03-11-210-042c
त्यागान्नान्यत्र मर्त्यानां गुणास्तिष्ठन्ति पूरुषे । KK03-11-210-043a
मृषावादं परिहरेत्कुर्यात्प्रियमयाचितः ॥ KK03-11-210-043c
न च कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । KK03-11-210-044a
प्रिये नातिभृशं हृष्येदप्रिये न च सञ्ज्वरेत् ॥ KK03-11-210-044c
न मुह्येदर्थकृच्छ्रेषु न च धर्मं परित्यजेत् । KK03-11-210-045a
कर्म चेत्किञ्चिदन्यत्स्यादितरन्न तदाचरेत् ॥ KK03-11-210-045c
यत्कल्याणमभिध्यायेत्तत्रात्मानं नियोजयेत् । KK03-11-210-046a
न पापं प्रति पापः स्यात्साधुरेव सदा भवेत् ॥ KK03-11-210-046c
आत्मनैव हतः पापो यः पापं कर्तुमिच्छति । KK03-11-210-047a
कर्म चैतदसाधूनां वृजिनानामसाधुकम् ॥ KK03-11-210-047c
न धर्मोस्तीति मन्वानाः शुचीनवहसन्ति ये । KK03-11-210-048a
अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः ॥ KK03-11-210-048c
महादृतिरिवाध्मातः पापो भवति नित्यदा । KK03-11-210-049a
'साधुः सन्नतिमानेव सर्वत्र द्विजसत्तम' ॥ KK03-11-210-049c
मूढानामवलिप्तानामसारं भाषितं भवेत् । KK03-11-210-050a
दर्शयन्त्यन्तरात्मानं दिवा रूपमिवांशुमान् ॥ KK03-11-210-050c
न लोके राजते मूर्खः केवलात्मप्रशंसया । KK03-11-210-051a
अपिचेह मृजाहीनः कृतविद्यः प्रकाशते ॥ KK03-11-210-051c
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन् । KK03-11-210-052a
न कश्चिद्गुणसम्पन्नः प्रकाशो भुवि दृश्यते ॥ KK03-11-210-052c
विकर्मणा तप्यमानः पापाद्विपरिमुच्यते । KK03-11-210-053a
न तत्कुर्यां पुनरिति द्वितीयात्परिमुच्यते ॥ KK03-11-210-053c
कर्मणा येन केनापि पापात्मा द्विजसत्तम । KK03-11-210-054a
एवं श्रुतिरियं ब्रह्मन्धर्मेषु प्रतिदृश्यते ॥ KK03-11-210-054c
पापनि बुद्ध्वेह पुरा कृतानि स्वधर्मशीलो विनिहन्ति पश्चात् । KK03-11-210-055a
धर्मो ब्रह्मन्नुदते ब्राह्मणानां यत्कुर्वते पापमिह प्रमादात् ॥ KK03-11-210-055c
पापं कृत्वा हि मन्येत नाहमस्मीति पूरुषः । KK03-11-210-056a
[तं तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः] ॥ KK03-11-210-056c
चिकीर्षेदेव कल्याणं श्रद्दधानोऽनसूयकः ॥ KK03-11-210-057ac
वसनस्येव च्छिद्राणि साधूनां विवृणोति यः । KK03-11-210-058a
'अपश्यन्नात्मनो दोषान्स पापः प्रेत्य नश्यति' ॥ KK03-11-210-058c
पापं चेत्पुरुषः कृत्वा कल्याणमभिपद्यते । KK03-11-210-059a
मुच्यते सर्वपापेभ्यो महाभ्रेणेव चन्द्रमाः ॥ KK03-11-210-059c
यथाऽऽदित्यः समुद्यन्वै तमः सर्वं व्यपोहति । KK03-11-210-060a
एवं कल्याणमातिष्ठन्सर्वपापैः प्रमुच्यते ॥ KK03-11-210-060c
पापानां विद्ध्यधिष्ठानं लोभमोहौ द्विजोत्तम । KK03-11-210-061a
'तस्मात्तौ विदुषा विप्र वर्जनीयौ विशेषतः' ॥ KK03-11-210-061c
लुब्धाः पापं व्यवस्यन्ति नरा नातिबहुश्रुताः । KK03-11-210-062a
अधर्म्या धर्मरूपेण तृणैः कूपा इवावृताः ॥ KK03-11-210-062c
येषां पञ्च पवित्राणि प्रलापा धर्मसंश्रितः । KK03-11-210-063a
सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ KK03-11-210-063c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि दशाधिकद्विशततमोऽध्यायः ॥ 210 ॥
3-210-1 आगोऽपराधः कृतमनेनेत्यागस्कृतः ॥ 3-210-7 विमानैः साप्तभौमिकगृहैः ॥ 3-210-10 सूना वधस्थानं तन्मध्ये ॥ 3-210-16 अदेशस्थम् अयोग्यदेशस्थम् ॥ 3-210-22 गुरू मातापितरौ ॥ 3-210-23 वर्तये जीवामि ॥ 3-210-24 कुत्सा विद्यमानदोषसङ्कीर्तनम् । गर्हा अविद्यमानदोषारोपः । पुराकृतं कर्मेति सम्बन्धः ॥ 3-210-25 लोकः परलोकः ॥ 3-210-30 न ग्लाति न ग्लानिं नयति ॥ 3-210-36 व्यभिचारात्स्वैरगतेः ॥ 3-210-37 भेरुण्डाः भयानकाः । उरुण्डाः इति ख. थ.ध. पाठः ॥ 3-210-40 सुपरिणीतेन साधुना ॥ 3-210-41 ये संयुञ्जन्ति सम्यग्योगं सेनाविनेशं कुर्वन्ति तएव पार्तिवा अन्ये चोरो इत्यर्थः ॥ 3-210-44 संरम्भाद्भयात् ॥ 3-210-45 अन्यत् विपरीतं स्यात् इतरत्तादृशं द्वितीयं कल्याणमेवाचरेत् ॥ 3-210-46 पापः पापी ॥ 3-210-47 वृजिनानां व्यसनवताम् ॥ 3-210-49 दृतिर्भस्त्रा । आध्मातः सन्नसारोपि पुष्टो भवेत् ॥ 3-210-51 मृजाहीनः मलिनदेहः ॥ 3-210-52 मूढस्वरूपमाह अब्रुवन्निति ॥ 3-210-53 पापात् प्राक्कृतात् । द्वितीयात्करिष्यमाणात् ॥ 3-210-54 जपतपस्तीर्थाद्यन्यतमेन येनकेनचिदपि कर्मणा पापात् परिमुच्यत इत्यनुषज्ज्यते ॥