अध्यायः 209
तरुतले तपस्यता कौशिकेनात्मोपरि पुरीषोत्सृष्ट्या बलाकायाः सक्रोधनिरीक्षणेन दहनम् ॥ 1 ॥ तथा भिक्षार्थम् पतिव्रतायाः कस्याश्चिद्गृहम् प्रविष्टम् भिक्षादाने चिरीकरणेन रुष्टञ्च कौशिकम् प्रति तया स्वस्य बलाकावृत्तान्तावगतिसूचनेन स्वशक्तिप्रकाशनपूर्वकं धर्मावगतये धर्मव्याधसमीपगमनचोदना ॥ 2 ॥
मार्कण्डेय उवाच KK03-11-209-001
कश्चिद्द्विजातिप्रवरो वेदाध्यायी तपोधनः । KK03-11-209-001a
तपस्वी धर्मशीलश्च कौशिको नाम भारत ॥ KK03-11-209-001c
साङ्गोपनिषदान्वेदानधीते द्विजसत्तमः । KK03-11-209-002a
सवृक्षमूले कस्मिंश्चिद्वेदानुच्चारयन्स्थितः ॥ KK03-11-209-002c
उपरिष्टाच्च वृक्षस्य बलाका सन्न्यलीयत । KK03-11-209-003a
तया पुरीषमुत्सृष्टं ब्राह्मणस्य तदोपरि ॥ KK03-11-209-003c
समवेक्ष्य ततः क्रुद्धः सममध्यायत द्विजः । KK03-11-209-004a
'तां बलाकां महाराज निलीनां नगमूर्धनि ॥ KK03-11-209-004c
भृशं क्रोधाभिभूतेन बलाका सा निरीक्षिता । KK03-11-209-005a
अपध्याता च विप्रेण न्यपतद्धरणीतले ॥ KK03-11-209-005c
बलाकां पतितां दृष्ट्वा गतसत्वामचेतनाम् । KK03-11-209-006a
कारुण्यादभिसन्तप्तः पर्यशोचत तां द्विजः । KK03-11-209-006c
अकार्यं कृतवानस्मि द्वेषरागबलात्कृतः ॥ KK03-11-209-006e
इत्युक्त्वा बहुशो विद्वान्ग्रामं भैक्षाय संश्रितः । KK03-11-209-007a
ग्रामे शुचीनि प्रचरन्कुलानि भरतर्षभ ॥ KK03-11-209-007c
देहीति याचमानोऽसौ तिष्ठेत्युक्तः स्त्रिया ततः । KK03-11-209-008a
शौचं तु यावत्कुरुते भाजनस्य कुटुम्बिनी ॥ KK03-11-209-008c
एतस्मिन्नन्तरे राजन्क्षुधासम्पीडितो भृशम् । KK03-11-209-009a
भर्ता प्रविष्टः सहसा तस्या भरतसत्तम ॥ KK03-11-209-009c
सा तु दृष्ट्वा पतिं साध्वी ब्राह्मणं व्यपहाय तम् । KK03-11-209-010a
पाद्यमाचमनीयं वै ददौ भर्तुस्तथाऽऽसनम् ॥ KK03-11-209-010c
प्रह्वा पर्यचरच्चापि भर्तारमसितेक्षणा । KK03-11-209-011a
आहारेणाथ भक्ष्यैश्च वाक्यैः सुमधुरैस्तथा ॥ KK03-11-209-011c
उच्छिष्टं भाविता भर्तुर्भुङ्क्ते नित्यं युधिष्ठिर । KK03-11-209-012a
दैवतं च पतिं मेने भर्तुश्चित्तानुसारिणी ॥ KK03-11-209-012c
कर्मणा मनसा वाचा नात्यश्नान्नापि चापिबत् । KK03-11-209-013a
तं सर्वभावोपगता पतिशुश्रूषणे रता ॥ KK03-11-209-013c
साध्वाचारा शुचिर्दक्षा कुटुम्बस्य हितैषिणी । KK03-11-209-014a
भर्तुश्चापि हितं यत्तत्सततं साऽनुवर्तते ॥ KK03-11-209-014c
देवतातिथिभृत्यानां श्वश्रूश्वशुरयोस्तथा । KK03-11-209-015a
शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया ॥ KK03-11-209-015c
सा ब्राह्मणं तदा दृष्ट्वा संस्थितं भैक्षकाङ्क्षिणम् । KK03-11-209-016a
कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा ॥ KK03-11-209-016c
व्रीडिता साऽभवत्साध्वी तदा भरतसत्तम । KK03-11-209-017a
भिक्षामादाय विप्राय निर्जगाम यशस्विनी ॥ KK03-11-209-017c
ब्राह्मण उवाच KK03-11-209-018
किमिदं भवति त्वं मां तिष्ठेत्युक्त्वा वराङ्गने । KK03-11-209-018a
उपरोधं कृतवती न विसर्जितवत्यसि ॥ KK03-11-209-018c
मार्कण्डेय उवाच KK03-11-209-019
ब्राह्मणं क्रोधसन्तप्तं ज्वलन्तमिव तेजसा । KK03-11-209-019a
दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचोऽब्रवीत् ॥ KK03-11-209-019c
'क्षमस्वविप्रप्रवर क्षमस्व स्त्रीजडात्मताम् । KK03-11-209-020a
प्रसीद भगवन्मह्यं कृपां कुरु मयि द्विज' ॥ KK03-11-209-020c
क्षन्तुमर्हसि मे विद्वन्भर्ता मे दैवतं महत् । KK03-11-209-021a
स चापि क्षुधितः श्रान्तः प्राप्तः शुश्रूषितो मया ॥ KK03-11-209-021c
ब्राह्मण उवाच KK03-11-209-022
ब्राह्मणाः न गरीयांसो गरीयांस्ते पतिः कृतः । KK03-11-209-022a
गृहस्थधर्मे वर्तन्ती ब्राह्मणानवमन्यसे ॥ KK03-11-209-022c
इन्द्रोऽप्येषां प्रणमते किं पुनर्मानवो भुवि । KK03-11-209-023a
अवलिप्ते न जानीषे वृद्धानां न श्रुतं त्वया ॥ KK03-11-209-023c
ब्राह्मणा ह्यग्निसदृशा दहेयुः पृथिवीमपि । KK03-11-209-024a
'सपर्वतवनद्वीपां क्षिप्रमेवावमानिताः' ॥ KK03-11-209-024c
स्त्र्युवाच KK03-11-209-025
[नाहं बलाका विप्रर्षे त्यज क्रोधं तपोधन । KK03-11-209-025a
अनया क्रुद्धया दृष्ट्या क्रुद्धः किं मां करिष्यसि] KK03-11-209-025c
नावजानाम्यहं विप्रान्देवैस्तुल्यान्मनस्विनः । KK03-11-209-026a
अपराधमिमं विप्र क्षन्तुमर्हसि मेऽनघ ॥ KK03-11-209-026c
जानामि तेजो विप्राणां महाभाग्यं च धीमताम् । KK03-11-209-027a
अपेयः सागरः क्रोधात्कृतो हि लवणोदकः ॥ KK03-11-209-027c
तथैव दीप्ततपसां मुनीनां भावितात्मनाम् । KK03-11-209-028a
येषां क्रोधाग्निरद्यापि समुद्रे नोपशाम्यति । KK03-11-209-028c
'कस्तान्परिभवेन्मूढो ब्राह्मणानमितौजसः' ॥ KK03-11-209-028e
ब्राह्मणानां परिभवाद्वातापिः सुदुरात्मवान् । KK03-11-209-029a
अगस्त्यमृषिमासाद्य जीर्णः क्रूरो महासुरः ॥ KK03-11-209-029c
बहुप्रभावाः श्रूयन्ते ब्राह्मणानां महात्मनाम् । KK03-11-209-030a
क्रोधः सुविपुलो ब्रह्मन्प्रसादश्च महात्मनाम् । KK03-11-209-030c
अस्मिंस्त्वतिक्रमे ब्रह्मन्क्षन्तुमर्हसि मेऽनघ ॥ KK03-11-209-030e
पतिशुश्रूषया धर्मो यः स मे रोचते द्विज । KK03-11-209-031a
दैवतेष्वपि सर्वेषु भर्ता मे दैवतं परम् ॥ KK03-11-209-031c
अविशेषेण तस्याहं कुर्यां धर्मं द्विजोत्तम । KK03-11-209-032a
शुश्रूषायाः फलं पश्य पत्युर्ब्राह्मण यादृशम् ॥ KK03-11-209-032c
बलाका हि त्वया दग्धा रोषात्तद्विदितं मया । KK03-11-209-033a
क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तम ॥ KK03-11-209-033c
'मास्म क्रुध्यो बलाकेव न वध्याऽस्मि पतिव्रता' । KK03-11-209-034a
यः क्रोधमोहौ त्यजति तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-034c
यो वदेदिह सत्यानि गुरुं सन्तोषयेत च । KK03-11-209-035a
हिंसितश्च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-035c
जितेन्द्रियो धर्मपरः स्वाध्यायनिरतः शुचिः । KK03-11-209-036a
कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-036c
यस्य चात्मसमो लोको धर्मज्ञस्य मनस्विनः । KK03-11-209-037a
सर्वधर्मेषु चरतस्तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-037c
योऽध्यापयेदधीयीत यजेद्वा याजयीत वा । KK03-11-209-038a
दद्याद्वाऽपि यथाशक्ति तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-038c
ब्राह्मचारी वदान्यो योप्यधीयाद्द्विजपुङ्गवः । KK03-11-209-039a
स्वाध्यायवानमत्तो वै तं देवा ब्राह्मणं विदुः ॥ KK03-11-209-039c
यद्ब्राह्मणानां कुशलं तदेषां परिकीर्तयेत् । KK03-11-209-040a
सत्यं तथा व्याहरतां नानृते रमते मनः ॥ KK03-11-209-040c
धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् । KK03-11-209-041a
इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ॥ KK03-11-209-041c
सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः । KK03-11-209-042a
दुर्ज्ञेयः शाश्वतो धर्मः स च सत्ये प्रतिष्ठितः ॥ KK03-11-209-042c
श्रुतिप्रमाणो धर्मः स्यादिति वृद्धानुशासनम् । KK03-11-209-043a
बहुधा दृश्यते धर्मः सूक्ष्म एव द्विजोत्तम ॥ KK03-11-209-043c
भगवानपि धर्मज्ञः स्वाध्यायनिरतः शुचिः । KK03-11-209-044a
न तु तत्त्वेन भगवन्धर्मं वेत्सीति मे मतिः ॥ KK03-11-209-044c
यदि विप्र न जानीषे धर्मं परमकं द्विज । KK03-11-209-045a
धर्मव्याधं ततः पृच्छ गत्वा तु मिथिलां पुरीम् ॥ KK03-11-209-045c
मातापितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः । KK03-11-209-046a
मिथिलायां वसेद्व्याधः स ते धर्मान्प्रवक्ष्यति ॥ KK03-11-209-046c
तत्र गच्छस्व भद्रं ते यथाकामं द्विजोत्तम । KK03-11-209-047a
'व्याधः परमधर्मात्मा स ते छेत्स्यति संशयम्' ॥ KK03-11-209-047c
अत्युक्तमपि मे सर्वं क्षन्तुमर्हस्यनिन्दित । KK03-11-209-048a
स्त्रियो ह्यवध्याः सर्वेषां ये धर्ममभिविन्दते ॥ KK03-11-209-048c
ब्राह्मण उवाच KK03-11-209-049
प्रीतोस्मि तव भद्रं ते गतः क्रोधश्च शोभने । KK03-11-209-049a
उपालम्भस्त्वया प्रोक्तो मम निश्रेयसं परम् ॥ KK03-11-209-049c
स्वस्ति तेऽस्तु गमिष्यामि साधयिष्यामि शोभने । KK03-11-209-050a
'धन्या त्वमसि कल्याणि यस्याः स्याद्वृत्तमीदृशम् ॥ KK03-11-209-050c
मार्कण्डेय उवाच KK03-11-209-051
तया विसृष्टो निर्गत्य स्वमेव भवनं ययौ । KK03-11-209-051a
विनिन्दन्स स्वमात्मानं कौशिको द्विजसत्तमः ॥ KK03-11-209-051c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि नवाधिकद्विशततमोऽध्यायः ॥ 209 ॥
3-209-28 दण्डकेनोपशाम्यति इति झ. पाठः ॥ 3-209-48 अभिविन्दते जानन्तीत्यर्थः ॥ 3-209-50 साधयिष्यामि स्वकार्यमिति शेषः ॥