अध्यायः 208

मार्कण्डेयेन युधिष्ठिरम् प्रति पतिव्रतामाहात्म्यकथनारम्भः ॥ 1 ॥

वैशम्पायन उवाच KK03-11-208-001
ततो युधिष्ठिरो राजा मार्कण्डेयं महाद्युतिम् । KK03-11-208-001a
प्रपच्छ भरतश्रेष्ठ धर्मप्रश्नं स दुर्वचम् ॥ KK03-11-208-001c
श्रोतुमिच्छामि भगवन्स्त्रीणां माहात्म्यमुत्तमम् । KK03-11-208-002a
कथ्यमानं त्वया विप्र सूक्ष्मं धर्म्यं च तत्त्वतः ॥ KK03-11-208-002c
प्रत्यक्षमिह विप्रर्षे देवा दृश्यन्ति सत्तम । KK03-11-208-003a
सूर्याचन्द्रमसौ वायुः पृथिवी वह्निरेव च ॥ KK03-11-208-003c
पिता माता च भगवान्गाव एव च सत्तम । KK03-11-208-004a
यच्चान्यदेव विहितं तच्चापि भृगुनन्दन ॥ KK03-11-208-004c
मन्येऽहं गुरुवत्सर्वमेकपत्न्यस्तथा स्त्रियः । KK03-11-208-005a
पतिव्रतानां शुश्रूषा दुष्करा प्रतिभाति मे । KK03-11-208-005c
पतिव्रतानां महात्म्यं वक्तुमर्हसि नः प्रभो ॥ KK03-11-208-005e
निरुध्य चेन्द्रियग्रामं मनः संरुध्य चानघ । KK03-11-208-006a
पतिं दैवतवच्चापि चिन्तयन्त्यः स्थिता हि याः ॥ KK03-11-208-006c
भगवन्दुष्करं त्वेतत्प्रतिभाति मम प्रभो । KK03-11-208-007a
मातापित्रोश्च शुश्रूषा स्त्रीणां भर्तरि च द्विज ॥ KK03-11-208-007c
स्त्रीणां धर्मात्सुघोराद्धि नान्यं पश्यामि दुष्करम् । KK03-11-208-008a
साध्वाचाराः स्त्रियो ब्रह्मन्कुर्वन्तीह सदादृताः ॥ KK03-11-208-008c
दुष्करं खलु कुर्वन्ति पितरो मातरश्च वै । KK03-11-208-009a
एकपत्न्यश्च या नार्यो याश्च सत्यं वदन्त्युत ॥ KK03-11-208-009c
कुक्षिणा दशमासांश्च गर्भं सन्धारयन्ति याः । KK03-11-208-010a
नार्यः कालेन सम्भूय किमद्भुततरं ततः ॥ KK03-11-208-010c
संशयं परमं प्राप्य वेदनामतुलामपि । KK03-11-208-011a
प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ॥ KK03-11-208-011c
पुष्णन्ति चापि महता स्नेहेन द्विजपुङ्गव । KK03-11-208-012a
'चिन्तयन्ति ततश्चापि किंशीलोऽयं भविष्यति' ॥ KK03-11-208-012c
याश्च क्रूरेषु सर्वेषु वर्तमाना जुगुप्सिताः । KK03-11-208-013a
स्वकर्म कुर्वन्ति सदा दुष्करं तच्च मे मतम् ॥ KK03-11-208-013c
क्षत्रधर्मसमाचारतत्त्वं व्याख्याहि मे द्विज । KK03-11-208-014a
धर्मः सुदुर्लभो विप्र नृशंसेन महात्मना ॥ KK03-11-208-014c
एतदिच्छामि भगवन्प्रश्नं प्रश्नविदांवर । KK03-11-208-015a
श्रोतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत ॥ KK03-11-208-015c
मार्कण्डेय उवाच KK03-11-208-016
हन्त तेऽहं समाख्यास्ये प्रश्नमेतं सुदुर्वचम् । KK03-11-208-016a
तत्त्वेन भरतश्रेष्ठ गदतस्तन्निबोध मे ॥ KK03-11-208-016c
मातरं श्रेयसीं तात पितॄनन्ये तु मेनिरे । KK03-11-208-017a
दुष्करं कुरुते माता विवर्धयति या प्रजाः ॥ KK03-11-208-017c
तपसा देवतेज्याभिर्वन्दनेन तितिक्षया । KK03-11-208-018a
सुप्रशस्तैरुपायैश्चापीहन्ते पितरः सुतान् ॥ KK03-11-208-018c
एवं कृच्छ्रेण महता पुत्रं प्राप्य सुदुर्लभम् । KK03-11-208-019a
चिन्तयन्ति सदा वीर कीदृशोऽयं भविष्यति ॥ KK03-11-208-019c
आशंसते हि पुत्रेषु पिता माता च भारत । KK03-11-208-020a
यशः कीर्तिमथैश्वर्यं तेजो धर्मं तथैव च ॥ KK03-11-208-020c
'मातुः पितुश्च राजेन्द्र सततं हितकारिणोः' । KK03-11-208-021a
तयोराशां तु सफलां यः करोति स धर्मवित् ॥ KK03-11-208-021c
पिता माता च राजेन्द्र तुष्यतो यस्य नित्यशः । KK03-11-208-022a
इह प्रेत्य च तस्याथ कीर्तिर्धर्मश्च शाश्वतः ॥ KK03-11-208-022c
नैव यज्ञक्रियाः काश्चिन्न श्राद्धं नोपवासकम् । KK03-11-208-023a
या तु भर्तरि शुश्रूषा तया स्वर्गं जयत्युत ॥ KK03-11-208-023c
एतत्प्रकरणं राजन्नधिकृत्य युधिष्ठिर । KK03-11-208-024a
पतिव्रतानां नियतं धर्मं चावहितः शृणु ॥ KK03-11-208-024c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वयणि अष्टाधिकद्विशततमोऽध्यायः ॥ 208 ॥

3-208-13 ये च क्रूरेषु इति झ. पाठः ॥ 3-208-20 प्रजाधर्मम् इति झ. पाठः ॥