अध्यायः 207

मधुकैटभपुत्रेण धुन्धुना तपस्तोषिताद्विरिञ्चादवध्यत्वादिवरग्रहणेन देवानाम् पीडनम् ॥ 1 ॥ उदङ्कचोदितेन कुवलाश्वेन समुद्रमध्यमधिवसतस्तस्य ब्रह्मास्त्रेण दहनम् ॥ 2 ॥ तदा देवादिभिः कुवलाश्वस्य धुन्धुमार इति नामकरणेन तस्मै वरदानपूर्वकं स्वस्वस्थानम् प्रति गमनम् ॥ 3 ॥ मार्कण्डेयेन युधिष्ठिरम् प्रति तत्पुत्राणां नामकथनपूर्वकं धुन्धुमारोपाख्यानस्तवनम् ॥ 4 ॥

मार्कण्डेय उवाच KK03-11-207-001
धुन्धुर्नाम महाराज तयोः पुत्रो महाद्युतिः । KK03-11-207-001a
स तपोऽतप्यत महन्महावीर्यपराक्रमः ॥ KK03-11-207-001c
अतिष्ठदेकपादेन कृशो धमनिसन्ततः । KK03-11-207-002a
तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ॥ KK03-11-207-002c
देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् । KK03-11-207-003a
अवध्योऽहं भवेयं वै वर एष वृतो मया ॥ KK03-11-207-003c
एवं भवतु गच्छेति तमुवाच पितामहः । KK03-11-207-004a
स एवमुक्तस्तत्पादौ मूर्ध्ना स्पृष्ट्वा जगाम ह ॥ KK03-11-207-004c
स तु धुन्धुर्वरं लब्ध्वा महवीर्यपराक्रमः । KK03-11-207-005a
अनुस्मरन्पितृवधं द्रुतं विष्णुमुपागमत् ॥ KK03-11-207-005c
स तु देवान्सगन्धर्वाञ्जित्वा धुन्धुरमर्षणः । KK03-11-207-006a
बबाध सर्वानसकृद्विष्णुं देवांश्च वै भृशम् ॥ KK03-11-207-006c
समुद्रवालुकापूर्णे उज्जानक इति स्मृते । KK03-11-207-007a
आगम्य च स दुष्टात्मा तं देशं भरतर्षभ । KK03-11-207-007c
बाधते स्म परं शक्त्या तमुदङ्काश्रमं विभो ॥ KK03-11-207-007e
अन्तर्भूमिगतस्तत्र वालुकान्तर्हितस्तथा । KK03-11-207-008a
मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः ॥ KK03-11-207-008c
शेते लोकविनाशाय तपोबलमुपाश्रितः । KK03-11-207-009a
उदङ्कस्याश्रमाभ्याशे निःश्वसन्पावकार्चिषः ॥ KK03-11-207-009c
एतस्मिन्नेव काले तु राजा सबलवाहनः । KK03-11-207-010a
कुवलाश्वो नरपतिरन्वितो बलशालिनाम् ॥ KK03-11-207-010c
सहस्रैरेकविंशत्या पुत्राणामरिमर्दनः । KK03-11-207-011a
प्रायादुदङ्कसहितो धुन्धोस्तस्य वधाय वै ॥ KK03-11-207-011c
तमाविशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः । KK03-11-207-012a
उदङ्कस्य नियोगेन लोकानां हितकाम्यया ॥ KK03-11-207-012c
तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् । KK03-11-207-013a
एष श्रीमान्नृपसुतो धुन्धुमारो भविष्यति ॥ KK03-11-207-013c
दिव्यैश्च पुष्पैस्तं देवाः समन्तात्पर्यवाकिरन् । KK03-11-207-014a
देवदुन्दुभयश्चापि नेदुः स्वयमनीरिताः ॥ KK03-11-207-014c
शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः । KK03-11-207-015a
विपांसुलां महीं कुर्वन्ववर्ष च सुरेश्वरः । KK03-11-207-015c
'प्रदक्षिणाश्चाप्यभवन्वन्यास्तं समृगद्विजाः' ॥ KK03-11-207-015e
अन्तरिक्षे विमानानि देवतानां युधिष्ठिर । KK03-11-207-016a
तत्रैव समदृश्यन्त धुन्धुर्यत्र महासुरः ॥ KK03-11-207-016c
कुवलाश्वस्य धुन्धोश्च युद्धकौतूहलान्विताः । KK03-11-207-017a
देवगन्धर्वसहिताः समवैक्षन्महर्षयः ॥ KK03-11-207-017c
नारायणेन कौरव्य तेजसाऽऽप्यायितस्तदा । KK03-11-207-018a
स गतो नृपतिः क्षिप्रं पुत्रैस्तैः सर्वतो दिशम् ॥ KK03-11-207-018c
अर्णवं खानयामास कुवलाश्वो महीपतिः । KK03-11-207-019a
'हितार्थं सर्वलोकानामुदङ्कस्य वशे स्थितः' ॥ KK03-11-207-019c
कुवलाश्वस्य पुत्रैश्च तस्मिन्वै वालुकार्णवे । KK03-11-207-020a
सप्तभिर्दिवसैः खात्वा दृष्टो धुन्धुर्महाबलः ॥ KK03-11-207-020c
आसीद्धोरं वपुस्तस्य वालुकान्तर्हितं महत् । KK03-11-207-021a
दीप्यमानं यथा सूर्यस्तेजसा भरतर्षभ ॥ KK03-11-207-021c
ततो धुन्धुर्महाराज दिशमावृत्य पश्चिमाम् । KK03-11-207-022a
सुप्तोऽभूद्राजशार्दूल कालानलसमद्युतिः ॥ KK03-11-207-022c
कुवलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः । KK03-11-207-023a
अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्मुसलैरपि ॥ KK03-11-207-023c
पट्टसैः परिधैः प्रासैः खड्गैश्च विमलैः शितैः । KK03-11-207-024a
सवध्यमानः सङ्क्रुद्धः समुत्तस्थौ महाबलः ॥ KK03-11-207-024c
क्रुद्धश्चाभक्षयत्तेषां शस्त्राणि विविधानि च । KK03-11-207-025a
आस्याद्वमन्पावकं स संवर्तकसमं तदा ॥ KK03-11-207-025c
तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा । KK03-11-207-026a
मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ KK03-11-207-026c
क्षणेन राजशार्दूल पुरेव कपिलः प्रभुः । KK03-11-207-027a
सगरस्यात्मजान्क्रुद्धस्तदद्भुतमिवाभवत् ॥ KK03-11-207-027c
तेषु क्रोधाग्निदग्धेषु तदा भरतसत्तम । KK03-11-207-028a
तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् । KK03-11-207-028c
आससाद महातेजाः कुवलाश्वो महीपतिः ॥ KK03-11-207-028e
तस्य वारि महाराज सुस्राव बहु देहतः । KK03-11-207-029a
तत्तदापीयते तेजो राज्ञा वारिमयं नृप ॥ KK03-11-207-029c
योगी योगेन सृष्टं स शमयित्वा च वारिणा । KK03-11-207-030a
ब्रह्मास्त्रेण ततो राजा दैत्यं क्रूरपराक्रमम् । KK03-11-207-030c
ददाह भरतश्रेष्ठ सर्वलोकभवाय वै ॥ KK03-11-207-030e
सोऽस्त्रेण दग्ध्वा राजर्षिः कुवलाश्वो महासुरम् । KK03-11-207-031a
सुरशत्रुममित्रघ्नस्त्रैलोक्येश इवापरः ॥ KK03-11-207-031c
धुन्धोर्वधात्तदा राजा कुवलाश्वो महामनाः । KK03-11-207-032a
धुन्धुमार इति ख्यातो नाम्ना समभवत्ततः ॥ KK03-11-207-032c
प्रीतैश्च त्रिदशैः सर्वैर्महर्षिसहितैस्तदा । KK03-11-207-033a
परं वृणीष्वेत्युक्तः स प्राञ्जलिः प्रणतस्तदा । KK03-11-207-033c
अतीव मुदितो राजन्निदं वचनमब्रवीत् ॥ KK03-11-207-033e
दद्यां वित्तं द्विजाग्र्येभ्यः शत्रूणां चापि दुर्जयः । KK03-11-207-034a
सख्यं च विष्णुना मे स्याद्भूतेष्वद्रोह एव च । KK03-11-207-034c
धर्मे रतिश्च सततं स्वर्गे वासस्तथाऽक्षयः ॥ KK03-11-207-034e
तथाऽस्त्विति ततो देवैः प्रीतैरुक्तः स पार्थिवः । KK03-11-207-035a
ऋषिभिश्च सगन्धर्वैरुदङ्केन च धीमता ॥ KK03-11-207-035c
सम्भाष्य चैनं विविधैराशीर्वादैस्ततो नृपम् । KK03-11-207-036a
देवा महर्षयश्चापि स्वानि स्थानानि भेजिरे ॥ KK03-11-207-036c
तस्य पुत्रास्त्रयः शिष्टा युधिष्ठिर तदाऽभवन् । KK03-11-207-037a
दृढाश्वः कपिलाश्वश्च भद्राश्वश्चैव भारत ॥ KK03-11-207-037c
तेभ्यः परम्परा राजन्निक्ष्वाकूणां महात्मनाम् । KK03-11-207-038a
[वंशस्य सुमहाभाग राज्ञाममिततेजसाम्] ॥ KK03-11-207-038c
एवं स निहतस्तेन कुवलाश्वेन सत्तम । KK03-11-207-039a
धुन्धुर्नाम महादैत्यो मधुकैटभयोः सुतः ॥ KK03-11-207-039c
कुवलाश्वश्च नृपतिर्धुन्धुमार इति स्मृतः । KK03-11-207-040a
नाम्ना च गुणयुक्तेन तदाप्रभृति सोऽभवत् ॥ KK03-11-207-040c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । KK03-11-207-041a
धौन्धुमारमुपाख्यानं प्रथितं यस्य कर्मणा ॥ KK03-11-207-041c
इदं तु पुण्यमाख्यानं विष्णोः समनुकीर्तनम् । KK03-11-207-042a
शृणुयाद्यः स धर्मात्मा पुत्रवांश्च भवेन्नरः ॥ KK03-11-207-042c
आयुष्मान्भूतिमांश्चैव श्रुत्वा भवति पर्वसु । KK03-11-207-043a
न च व्याधिभयं किञ्चित्प्राप्नोति विगतज्वरः ॥ KK03-11-207-043c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्ताधिकद्विशततमोऽध्यायः ॥ 207 ॥

3-207-30 वृष्टिं सगमयित्वा विचारिणा इति क. थ. पाठः । वह्निं च शमयामास वारिणा इति झ. पाठः ॥