अध्यायः 206
बृहदश्वेनोदङ्कम् प्रति स्वपुत्रेण कुवलाश्वेन धुन्धुवधस्य भावित्वकथनपूर्वकम् वनम् प्रति गमनम् ॥ 1 ॥ धुन्धूत्पत्तिम् पृष्टेन मार्कण्डेयेन युधिष्ठिरम् प्रति तदुपोद्घाततया मधुकैटभवृत्तान्तकथनम् ॥ 2 ॥
मार्कण्डेय उवाच KK03-11-206-001
स एवमुक्तो राजर्षिरुदङ्केनापराजितः । KK03-11-206-001a
उदङ्कं कौरवश्रेष्ठ कृताञ्जलिथाब्रवीत् ॥ KK03-11-206-001c
न हि मे गमनं ब्रह्मन्मोघमेतद्भविष्यति । KK03-11-206-002a
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः ॥ KK03-11-206-002c
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि । KK03-11-206-003a
प्रियं च ते सर्वमेतत्करिष्यति न संशयः ॥ KK03-11-206-003c
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः । KK03-11-206-004a
'हनिष्यति महाबाहुस्तं वै धुन्धुं महाऽसुरम्' । KK03-11-206-004c
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोस्मि साम्प्रतम् ॥ KK03-11-206-004e
तथाऽस्त्विति च तेनोक्तो मुनिनाऽमिततेजसा । KK03-11-206-005a
स तमादिश्य तनयमुदङ्काय महात्मने । KK03-11-206-005c
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् ॥ KK03-11-206-005e
युधिष्ठिर उवाच KK03-11-206-006
क एष भगवन्दैत्यो महावीर्यस्तपोधन । KK03-11-206-006a
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् ॥ KK03-11-206-006c
एवं महाबलो दैत्यो न श्रुतो मे तपोधन । KK03-11-206-007a
'यस्य निश्वासवातेन कम्पते भूः सपर्वता' ॥ KK03-11-206-007c
एतदिच्छामि भगवन्याथातथ्येन वेदितुम् । KK03-11-206-008a
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन ॥ KK03-11-206-008c
मार्कण्डेय उवाच KK03-11-206-009
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप । KK03-11-206-009a
कथ्यमानं महाप्राज्ञ विस्तरेण यथातथम् ॥ KK03-11-206-009c
एकार्णवे निरालोके नष्टे स्थावरजङ्गमे । KK03-11-206-010a
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ ॥ KK03-11-206-010c
प्रभवं लोककर्तारं विष्णुं शाश्वतमव्ययम् । KK03-11-206-011a
यमाहुर्मुनयः सिद्धाः सर्वलोकमहेश्वरम् । KK03-11-206-011c
'चतुर्भुजमुदाराङ्गं दृष्टवानस्मि भारत' ॥ KK03-11-206-011e
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव हि । KK03-11-206-012a
नागस्य भोगे महति शेषस्यामिततेजसः ॥ KK03-11-206-012c
लोककर्ता महाभाग भगवानच्युतो हरिः । KK03-11-206-013a
नागभोगेन महता परिरभ्य महीमिमाम् ॥ KK03-11-206-013c
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् । KK03-11-206-014a
नाभ्या विनिःसृतं दिव्यं तत्रोत्पन्नः पितामहः ॥ KK03-11-206-014c
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्यसमप्रभः । KK03-11-206-015a
चतुर्वेदश्चतुर्मूर्तिश्चतुर्वर्गश्चतुर्मुखः ॥ KK03-11-206-015c
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः । KK03-11-206-016a
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तमौ ॥ KK03-11-206-016c
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् । KK03-11-206-017a
शयानं शयने दिव्ये नागभोगे महाद्युतिम् ॥ KK03-11-206-017c
बहुयोजनविस्तीर्णे बहुयोजनमायते । KK03-11-206-018a
किरीटकौस्तुभधरं पीतकौशेयवाससम् ॥ KK03-11-206-018c
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा । KK03-11-206-019a
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् ॥ KK03-11-206-019c
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा ॥ KK03-11-206-020ac
दृष्ट्वा पितामहं चापि पद्मे पद्मनिभेक्षणम् । KK03-11-206-021a
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् ॥ KK03-11-206-021c
वित्रास्यमानो बहुधा ब्रह्मा ताभ्यां महायशाः । KK03-11-206-022a
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः ॥ KK03-11-206-022c
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ ॥ KK03-11-206-023ac
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ । KK03-11-206-024a
ददामि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते ॥ KK03-11-206-024c
तौ प्रहस्य हृषीकेशं महादर्पौ महाबलौ । KK03-11-206-025a
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् ॥ KK03-11-206-025c
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम । KK03-11-206-026a
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् ॥ KK03-11-206-026c
भगवानुवाच KK03-11-206-027
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम । KK03-11-206-027a
युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् ॥ KK03-11-206-027c
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ । KK03-11-206-028a
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै ॥ KK03-11-206-028c
मधुकैटभावूचतुः KK03-11-206-029
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा । KK03-11-206-029a
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम ॥ KK03-11-206-029c
बले रूपे च शौर्ये च शमे न च समोस्ति नौ । KK03-11-206-030a
धर्मे तपसि दाने च शीलसत्वदमेषु च ॥ KK03-11-206-030c
उपप्लवो महानस्मानुपावर्तत केशव । KK03-11-206-031a
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः ॥ KK03-11-206-031c
आवामिच्छावहे देव कृतमेकं त्वया विभो । KK03-11-206-032a
आनावृतेऽवकाशे त्वं जह्यावां सुरसत्तम ॥ KK03-11-206-032c
पुत्रत्वमधिगच्छाव तव चापि सुलोचन । KK03-11-206-033a
वर एष वृतो देव तद्विद्धि सुरसत्तम ॥ KK03-11-206-033c
अनृतं मा भवेद्देव यद्धि नौ संश्रुतं तदा ॥ KK03-11-206-034ac
भगवानुवाच KK03-11-206-035
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति ॥ KK03-11-206-035ac
स विचिन्त्याथ गोविन्दो नापश्यद्यदनावृतम् । KK03-11-206-036a
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः ॥ KK03-11-206-036c
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा । KK03-11-206-037a
मधुकैटभयो राजञ्शिरसी मधुसूदनः । KK03-11-206-037c
चक्रेण शितधारेण न्यकृन्तत महायशाः ॥ KK03-11-206-037e
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडधिकद्विशततमोऽध्यायः ॥ 206 ॥
3-206-9 न तेऽभिगमनम् इति झ. पाठः ॥