अध्यायः 205

उदङ्केन राज्ये स्वपुत्राभिषेचनपूर्वकम् वनम् प्रस्थितम् बृहदश्वम् प्रति तन्निवारणपूर्वकं धुन्धुनामकासुरहननचोदना ॥ 1 ॥

मार्कण्डेय उवाच KK03-11-205-001
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् । KK03-11-205-001a
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥ KK03-11-205-001c
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । KK03-11-205-002a
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥ KK03-11-205-002c
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रश्च जज्ञिवान् । KK03-11-205-003a
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ KK03-11-205-003c
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । KK03-11-205-004a
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ॥ KK03-11-205-004c
बृहदश्वस्य दायादः कुवलाश्व इति स्मृतः । KK03-11-205-005a
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः ॥ KK03-11-205-005c
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः । KK03-11-205-006a
कुवलाश्वश्च पितृतो गुणैरभ्यधिकोऽभवत् ॥ KK03-11-205-006c
समये तं तदा राज्ये बृहदश्वोऽभ्यषेचयत् । KK03-11-205-007a
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥ KK03-11-205-007c
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः । KK03-11-205-008a
जगाम तपसे धीमांस्तपोवनममित्रहा ॥ KK03-11-205-008c
अथ शुश्राव राजर्षिं तमुदङ्को नराधिप । KK03-11-205-009a
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥ KK03-11-205-009c
तमुदङ्को महातेजाः सर्वास्त्रविदुषांवरम् । KK03-11-205-010a
न्यवारयदमेयात्मा समासाद्य पुरोत्तमे ॥ KK03-11-205-010c
उदङ्क उवाच KK03-11-205-011
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि । KK03-11-205-011a
निरुद्विग्रा वयं राजंस्त्वत्प्रदाद्वसेमहि ॥ KK03-11-205-011c
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना । KK03-11-205-012a
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ KK03-11-205-012c
पालने हि महान्धर्मः प्रजानामिह दृश्यते । KK03-11-205-013a
न तथा दृश्यतेऽरण्ये माभूत्ते बुद्धिरीदृशी ॥ KK03-11-205-013c
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते । KK03-11-205-014a
प्रजानां पालने यत्नः पुरा राजर्षिभिः कृतः ॥ KK03-11-205-014c
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि । KK03-11-205-015a
निरुद्विग्नस्तपस्तप्तुं न हि शक्नोमि पार्थिव ॥ KK03-11-205-015c
ममाश्रमसमीपे वै समेषु मरुधन्वसु । KK03-11-205-016a
समुद्रवालुकापूर्ण उज्जालक इति स्मृतः । KK03-11-205-016c
बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥ KK03-11-205-016e
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः । KK03-11-205-017a
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः । KK03-11-205-017c
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ॥ KK03-11-205-017e
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥ KK03-11-205-018ac
शेते लोकविनाशाय तप आस्थाय दारुणम् । KK03-11-205-019a
त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥ KK03-11-205-019c
अवध्यो दैवतानां हि दैत्यानामथ रक्षसाम् । KK03-11-205-020a
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः । KK03-11-205-020c
अवाप्य स वरं राजन्सर्वलोकपितामहात् ॥ KK03-11-205-020e
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा । KK03-11-205-021a
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥ KK03-11-205-021c
क्रूरस्य तस्य स्वपतो वालुकान्तर्हितस्य च । KK03-11-205-022a
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते ॥ KK03-11-205-022c
यदा तदा भूश्चलति सशैलवनकानना । KK03-11-205-023a
तस्य निःश्वासवातेन रज उद्धूयते महत् ॥ KK03-11-205-023c
आदित्यरथमाश्रित्य सप्ताहं भूमिकम्पनम् । KK03-11-205-024a
सविस्फुलिङ्गं सज्वालं धूममिश्रं सुदारुणम् ॥ KK03-11-205-024c
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्वआश्रमे ॥ KK03-11-205-025ac
तं विनाशय राजेन्द्र लोकानां हितकाम्यया । KK03-11-205-026a
लोकाः स्वस्था भविष्यन्ति तस्मिन्विनिहतेऽसुरे ॥ KK03-11-205-026c
'धुन्धुनामानमत्युग्रं दानवं घोरविग्रहम् । KK03-11-205-027a
समरे घोरतुमुले विनाशय महेषुणा' ॥ KK03-11-205-027c
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः । KK03-11-205-028a
तेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥ KK03-11-205-028c
विष्णुना च वरो दत्तः पूर्वं मम महीपते ॥ KK03-11-205-029ac
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः । KK03-11-205-030a
तेजस्तद्वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥ KK03-11-205-030c
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् । KK03-11-205-031a
तं निषूदय सन्दिष्टो दैत्यं रौद्रपराक्रमम् ॥ KK03-11-205-031c
न हि धुन्धुर्महातेजास्तेजसाऽल्पेन शक्यते । KK03-11-205-032a
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥ KK03-11-205-032c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चाधिकद्विशततमोऽध्यायः ॥ 205 ॥

3-205-3 बाडिशश्च पृथो पुत्र इति क. थ. पाठः ॥