अध्यायः 204
मार्कण्डेयेन युधिष्ठिरम् प्रति धुन्धुमारोपाख्यानकथनारम्भः ॥ 1 ॥ उदङ्कनामकमुनेस्तपसा तुष्टेन विष्णुना तस्मै वरदानम् ॥ 2 ॥ तथा विष्णुना उदङ्कम् प्रति कुवलाश्वेन धुन्धुनामकासुरघातनविधानपूर्वकमन्तर्धानम् ॥ 3 ॥
वैशम्पायन उवाच KK03-11-204-001
[श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत्तथा । KK03-11-204-001a
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥] KK03-11-204-001c
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ । KK03-11-204-002a
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ KK03-11-204-002c
विदितास्तव धर्मज्ञ देवदानवरक्षसाम् । KK03-11-204-003a
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ KK03-11-204-003c
न तेऽस्त्यविदितं किञ्चिदस्मिल्ँलोके द्विजोत्तम । KK03-11-204-004a
अथ वेत्सि मुने वंशान्मनुष्योरगरक्षसाम् ॥ KK03-11-204-004c
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा । KK03-11-204-005a
इदमिच्छाम्यहं श्रोतुं तत्त्वेन द्विजसत्तम ॥ KK03-11-204-005c
कुवलाश्व इति ख्यात इक्ष्वाकुकुलसम्भवः । KK03-11-204-006a
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ KK03-11-204-006c
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम । KK03-11-204-007a
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥ KK03-11-204-007c
[वैशम्पायन उवाच KK03-11-204-008
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः । KK03-11-204-008a
धौन्धुमारमुपाख्यानं कथयामास भारत ॥] KK03-11-204-008c
मार्कण्डेय उवाच KK03-11-204-009
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर । KK03-11-204-009a
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ KK03-11-204-009c
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः । KK03-11-204-010a
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ KK03-11-204-010c
महर्षिर्विश्रुतस्तात उदङ्क इति भारत । KK03-11-204-011a
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ KK03-11-204-011c
उदङ्कस्तु महाराज तपोतप्यत्सुदुश्चरम् । KK03-11-204-012a
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः ॥ KK03-11-204-012c
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् । KK03-11-204-013a
दृष्ट्वा महर्षिस्तद्ब्रह्म तुष्टाव विविधैः स्तवैः ॥ KK03-11-204-013c
उदङ्क उवाच KK03-11-204-014
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः । KK03-11-204-014a
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ KK03-11-204-014c
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते । KK03-11-204-015a
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ॥ KK03-11-204-015c
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत । KK03-11-204-016a
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ KK03-11-204-016c
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन । KK03-11-204-017a
पादौ ते पृथिवी चैव रोमाण्योषधयस्तथा ॥ KK03-11-204-017c
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः । KK03-11-204-018a
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ KK03-11-204-018c
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर । KK03-11-204-019a
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ KK03-11-204-019c
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम् । KK03-11-204-020a
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ KK03-11-204-020c
देवानां मानुषाणां च सर्वभूतसुखावहः । KK03-11-204-021a
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः ॥ KK03-11-204-021c
असुराणां समृद्धानां विनाशश्च त्वया कृतः । KK03-11-204-022a
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ॥ KK03-11-204-022c
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते । KK03-11-204-023a
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः । KK03-11-204-023c
आराधयित्वा त्वां देवाः सुखमेधन्ति नित्यशः ॥ KK03-11-204-023e
एवं स्तुतो हृषीकेश उदङ्केन महात्मना । KK03-11-204-024a
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥ KK03-11-204-024c
उदङ्क उवाच KK03-11-204-025
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् । KK03-11-204-025a
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ KK03-11-204-025c
विष्णुरुवाच KK03-11-204-026
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम । KK03-11-204-026a
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ KK03-11-204-026c
एवं स च्छन्द्यमानस्तु वरेण हरिणा तदा । KK03-11-204-027a
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ KK03-11-204-027c
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण । KK03-11-204-028a
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा । KK03-11-204-028c
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर ॥ KK03-11-204-028e
भगवानुवाच KK03-11-204-029
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ॥ KK03-11-204-029ac
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् । KK03-11-204-030a
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ KK03-11-204-030c
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः । KK03-11-204-031a
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ KK03-11-204-031c
[राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः] KK03-11-204-032a
बृहदश्व इति ख्यातो भविष्यति महीपतिः ॥ KK03-11-204-032c
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः । KK03-11-204-033a
स योगबलामास्थाय मामकं पार्थिवोत्तमः । KK03-11-204-033c
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥ KK03-11-204-033e
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥ KK03-11-204-034ac
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥
3-204-3 देवदानवराक्षसा इति ध. पाठः ॥