अध्यायः 203

मार्कण्डेयेन युधिष्ठिरम् प्रति स्वर्गकारणीभूतसाधारणधर्मकथनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-11-203-001
श्रुत्वा स राजा राजर्षिरिन्द्रद्युम्नस्य तत्तदा । KK03-11-203-001a
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥ KK03-11-203-001c
युधिष्ठिरो महाराज पुनः पप्रच्छ तं मुनिम् । KK03-11-203-002a
कीदृशीषु ह्यवस्थासु दत्त्वा दानं महामुने । KK03-11-203-002c
इन्द्रलोकं त्वनुभवेत्पुरुषस्तद्ब्रवीहि मे ॥ KK03-11-203-002e
गार्हस्थ्येऽप्यथवा बाल्ये यौवने स्थाविरेऽपि वा । KK03-11-203-003a
यथा फलं समश्नाति तथा त्वं कथयस्व मे ॥ KK03-11-203-003c
मार्कण्डेय उवाच KK03-11-203-004
वृथा जन्मानि चत्वारि वृथा दानानि षोडश । KK03-11-203-004a
वृथा जन्म ह्यपुत्रस्य ये च धर्मबहिष्कृताः ॥ KK03-11-203-004c
परपाकं च येऽश्नन्ति आत्मार्थं च पचेत्तु यः । KK03-11-203-005a
पर्यश्नन्ति वृथा यत्र तदसत्यं प्रकीर्त्यते ॥ KK03-11-203-005c
आरूढपतिते दत्तमन्यायोपहृतं च यत् । KK03-11-203-006a
व्यर्थं तु पतिते दानं ब्राह्मणे तस्करे तथा ॥ KK03-11-203-006c
गुरौ चानृतिके पापे कृतघ्ने ग्रामयाजके । KK03-11-203-007a
वेदविक्रयिणे दत्तं तथा वृषलयाजके ॥ KK03-11-203-007c
ब्रह्मबन्धुषु यद्दत्तं यद्दत्तं वृषलीपतौ । KK03-11-203-008a
स्त्रीजितेषु च यद्दत्तं व्यालग्राहे तथैव च ॥ KK03-11-203-008c
परिचारकेषु यद्दत्तं वृथा दानानि षोडश । KK03-11-203-009a
तमोवृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥ KK03-11-203-009c
भुङ्क्ते च दानं तत्सर्वं गर्भस्थस्तु नरः सदा । KK03-11-203-010a
ददद्दानं द्विजातिभ्यो वृद्धभावेन मानवः ॥ KK03-11-203-010c
तस्मात्सर्वास्ववस्थासु सर्वदानानि पार्थिव । KK03-11-203-011a
दातव्यानि द्विजातिभ्यः स्वर्गमार्गजिगीषया ॥ KK03-11-203-011c
युधिष्ठिर उवाच KK03-11-203-012
चातुर्वर्ण्यस्य सर्वस्य वर्तमानाः प्रतिग्रहे । KK03-11-203-012a
केन विप्रा विशेषेण तारयन्ति तरन्ति च ॥ KK03-11-203-012c
मार्कण्डेय उवाच KK03-11-203-013
जपैर्मन्त्रैश्च होमैश्च स्वाध्यायाध्यायनेन च । KK03-11-203-013a
नावं वेदमयीं कृत्वा तारयन्ति तरन्ति च ॥ KK03-11-203-013c
ब्राह्मणांस्तोषयेद्यस्तु तुष्यन्ते तस्य देवताः । KK03-11-203-014a
वचनाच्चापि विप्राणां स्वर्गलोकमवाप्नुयात् ॥ KK03-11-203-014c
पितृदैवतपूजाभिर्ब्राह्मणाभ्यर्चनेन च । KK03-11-203-015a
अनन्तं पुण्यलोकं तु गन्ताऽसौ तु न संशयः । KK03-11-203-015c
श्लेष्मादिभिर्व्याप्ततनुर्म्रियमाणोऽविचेतनः ॥ KK03-11-203-015e
ब्राह्मणा एव सम्पूज्याः पुण्यं स्वर्गमभीप्सता । KK03-11-203-016a
श्राद्धकाले तु यत्नेन भोक्तव्या ह्यजुगुप्सिताः ॥ KK03-11-203-016c
दुर्बलः कुनखी कुष्ठी मायावी कुण्डगोलकौ । KK03-11-203-017a
वर्जनीयाः प्रयत्नेन काण्डपृष्ठाश्च देहिनः ॥ KK03-11-203-017c
जुगुप्सितं हि यच्छ्राद्धं दहत्यग्निरिवेन्धनम् ॥ KK03-11-203-018ac
ये ये श्राद्धे न पूज्यन्ते मूकान्धबधिरादयः । KK03-11-203-019a
तेऽपिसर्वे नियोक्तव्या मिश्रिता वेदपारगैः ॥ KK03-11-203-019c
प्रतिग्रहश्च वै देयः शृणु यस्य युधिष्ठिर । KK03-11-203-020a
प्रदातारं तथाऽऽत्मानं यस्तारयति शक्तिमान् ॥ KK03-11-203-020c
तस्मिन्देयं द्विजे दानं सर्वागमविजानता । KK03-11-203-021a
प्रदातारं तथाऽऽत्मानं तारयेद्यः स शक्तिमान् ॥ KK03-11-203-021c
न तथा हविषो होमैर्न पुष्पैर्नानुलेपनैः । KK03-11-203-022a
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिभोजने ॥ KK03-11-203-022c
तस्मात्त्वं सर्वयत्नेन यतस्वातिथिभोजने ॥ KK03-11-203-023ac
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् । KK03-11-203-024a
प्रयच्छन्ति तु ये राजन्नोपसर्पन्ति ते यमम् ॥ KK03-11-203-024c
देवमाल्यापनयनं द्विजोच्छिष्टावमार्जनम् । KK03-11-203-025a
आकल्पपरिचर्या च गात्रसंवाहनानि च । KK03-11-203-025c
अत्रैकैकं नृपश्रेष्ठ गोदानाद्व्यतिरिच्यते ॥ KK03-11-203-025e
कपिलायाः प्रदानात्तु मुच्यते नात्र संशयः । KK03-11-203-026a
तस्मादलङ्कृतां दद्यात्कपिलां तु द्विजातये ॥ KK03-11-203-026c
श्रोत्रियाय दरिद्राय गृहस्थायाग्निहोत्रिणे । KK03-11-203-027a
पुत्रदाराभिभूताय तथा ह्यनुपकारिणे ॥ KK03-11-203-027c
एवंविधेषु दातव्या न समृद्धेषु भारत । KK03-11-203-028a
को गुणो भरतश्रेष्ठ समृद्धेष्वभिवर्जितम् ॥ KK03-11-203-028c
एकस्यैका प्रदातव्या न बहूनां कदाचन । KK03-11-203-029a
सा गौर्विक्रयमापन्ना हन्यात्त्रिपुरुषं कुलम् । KK03-11-203-029c
न तारयति दातारं ब्राह्मणं नैव नैव तु ॥ KK03-11-203-029e
ब्राह्मणस्य विशुद्धस्य सुवर्णं यः प्रयच्छति । KK03-11-203-030a
सुवर्णानां शतं तेन दत्तं भवति शाश्वतम् ॥ KK03-11-203-030c
अनड्वाहं तु यो दद्याद्बलवन्तं धुरन्धरम् । KK03-11-203-031a
स निस्तरति दुर्गाणि स्वर्गलोकं च गच्छति ॥ KK03-11-203-031c
वसुन्धरां तु यो दद्याद्द्विजाय विदुषात्मने । KK03-11-203-032a
दातारं ह्यनुगच्छन्ति सर्वे कामाभिवाञ्छिताः ॥ KK03-11-203-032c
पृच्छन्ति चान्नदातारं वदन्ति पुरुषा भुवि । KK03-11-203-033a
अध्वनि क्षीणगात्राश्च पांसुना चावकुण्ठिताः ॥ KK03-11-203-033c
तेषामेव श्रमार्तानां यो ह्यन्नं कथयेद्बुधः । KK03-11-203-034a
अन्नदातृसमः सोपि कीर्त्यते नात्र संशयः ॥ KK03-11-203-034c
तस्मात्त्वं सर्वदानानि हित्वाऽन्नं सम्प्रयच्छ ह । KK03-11-203-035a
न हीदृशं पुण्यफलं विचित्रामिह विद्यते ॥ KK03-11-203-035c
यथाशक्ति च यो दद्यादन्नं विप्रेषु संस्कृतम् । KK03-11-203-036a
स तेन कर्मणाऽऽप्नोति प्रजापतिसलोकताम् ॥ KK03-11-203-036c
अन्नमेव विशिष्टं हि तस्मात्परतरं न च । KK03-11-203-037a
अन्नं प्रजापतिश्चोक्तः स च संवत्सरो मतः ॥ KK03-11-203-037c
संवत्सरस्तु यज्ञोऽसौ सर्वं यज्ञे प्रतिष्ठितम् । KK03-11-203-038a
तस्मात्सर्वाणि भूतानि स्थावराणि चराणि च ॥ KK03-11-203-038c
तस्मादन्नं विशिष्टं हि सर्वेभ्य इति विश्रुतम् ॥ KK03-11-203-039ac
येषां तटाकानि महोदकानि वाप्यश्च कूपाश्च प्रतिश्रयाश्च । KK03-11-203-040a
अन्नस्य दानं मधुरा च वाणी यमस्य ते निर्वचना भवन्ति ॥ KK03-11-203-040c
धान्यं श्रमेणार्जितवित्तसञ्चितं विप्रे सुशीले प्रतियच्छते यः । KK03-11-203-041a
वसुन्धरा तस्य भवेत्सुतुष्टा धारां वसूनां प्रतिमुञ्चतीव ॥ KK03-11-203-041c
अन्नदाः प्रथमं यान्ति सत्यवाक्तदनन्तरम् । KK03-11-203-042a
अयाचितप्रदाता च समं यान्ति त्रयो जनाः ॥ KK03-11-203-042c
वैशम्पायन उवाच KK03-11-203-043
कौतूहलसमुत्पन्नः पर्यपृच्छद्युधिष्ठिरः । KK03-11-203-043a
मार्कण्डेयं महात्मानं पुनरेव सहानुजः ॥ KK03-11-203-043c
यमलोकस्य चाध्वानमन्तरं मानुषस्य च । KK03-11-203-044a
कीदृशं किम्प्रमाणं वा कथं वा तन्महामुने । KK03-11-203-044c
तरन्ति पुरुषाश्चैव केनोपायेन शंस मे ॥ KK03-11-203-044e
मार्कण्डेय उवाच KK03-11-203-045
सर्वगुह्यतमं प्रश्नं पवित्रमृषिसंस्तुतम् । KK03-11-203-045a
कथयिष्यामि ते राजन्धर्मं धर्मभृतांवर ॥ KK03-11-203-045c
षडशीतिसहस्राणि योजनानां नराधिप । KK03-11-203-046a
यमलोकस्य चाध्वानमन्तरं मानुषस्य च ॥ KK03-11-203-046c
आकाशं तदपानीयं घोरं कान्तारदर्शनम् । KK03-11-203-047a
न तत्र वृक्षच्छाया वा पानीनं केतनानि च ॥ KK03-11-203-047c
विश्रमेद्यत्र वै श्रान्तः पुरुषोऽध्वनि कर्शितः । KK03-11-203-048a
नीयते यमदूतैस्तु यमस्याज्ञाकरैर्बलात् ॥ KK03-11-203-048c
नराः स्त्रियस्तथैवान्ये पृथिव्यां जीवसञ्ज्ञिताः । KK03-11-203-049a
ब्राह्मणेभ्यः प्रदानानि नानारूपाणि पार्थिव ॥ KK03-11-203-049c
हयादीनां प्रकृष्टानि तेऽध्वानं यान्ति वै नराः । KK03-11-203-050a
सन्निवार्यातपं यान्ति च्छत्रेणैव हि च्छत्रदाः ॥ KK03-11-203-050c
तृप्ताश्चैवान्नदातारो ह्यतृप्ताश्चाप्यनन्नदाः । KK03-11-203-051a
वस्त्रिणो वस्त्रदा यान्ति अवस्त्रा यान्त्यवस्त्रदाः ॥ KK03-11-203-051c
हिरण्यदाः सुखं यान्ति पुरुषास्त्वभ्यलङ्कृताः । KK03-11-203-052a
भूमिदास्तु सुखं यान्ति सर्वैः कामैः सुतर्पिताः ॥ KK03-11-203-052c
यान्ति चैवापरिक्लिष्टा नराः सस्यप्रदायकाः । KK03-11-203-053a
नराः सुखतरं यान्ति विमानेषु गृहप्रदाः ॥ KK03-11-203-053c
पानीयदा ह्यतृषिताः प्रहृष्टमनसो नराः । KK03-11-203-054a
पन्थानं द्योतयन्तश्च यान्ति दीपप्रदाः सुखम् ॥ KK03-11-203-054c
गोप्रदास्तु सुखं यान्ति निर्मुक्ताः सर्वपातकैः । KK03-11-203-055a
विमानैर्हंससंयुक्तैर्यान्ति मासोपवासिनः ॥ KK03-11-203-055c
तथा बर्हिप्रयुक्तैश्च षष्ठरात्रोपवासिनः । KK03-11-203-056a
त्रिरात्रं क्षपते यस्तु एकभक्तेन पाण्डव ॥ KK03-11-203-056c
अन्तरा चैव नाश्नाति तस्य लोका ह्यनामयाः । KK03-11-203-057a
पानीयस्य गुणा दिव्याः प्रेतलोकसुखावहाः ॥ KK03-11-203-057c
तत्र पुष्पोदका नाम नदी तेषां विधीयते । KK03-11-203-058a
शीतलं सलिलं तत्रपिबन्ति ह्यमृतोपमम् ॥ KK03-11-203-058c
ये च दृष्कृतकर्माणः पूयं तेषां विधीयते । KK03-11-203-059a
एवं नदी महाराज सर्वकामप्रदा हि सा ॥ KK03-11-203-059c
तस्मात्त्वमपि राजेन्द्र पूजयैनान्यथाविधि । KK03-11-203-060a
अध्वनि क्षीणगात्रश्च पथि पांशुसमन्वितः ॥ KK03-11-203-060c
पृच्छते ह्यन्नदातारं गृहमायाति चाशया । KK03-11-203-061a
तं पूजयाथ यत्नेन सोऽतिथिर्ब्राह्यणश्च सः ॥ KK03-11-203-061c
तं यान्तमनुगच्छन्ति देवाः सर्वे सवासवाः । KK03-11-203-062a
तस्मिन्सम्पूजिते प्रीता निराशा यान्त्यपूजिते ॥ KK03-11-203-062c
तस्मात्त्वमपि राजेन्द्र पूजयैनं यथाविधि । KK03-11-203-063a
एतत्ते शतशः प्रोक्तं किं भूयः श्रोतुमिच्छसि ॥ KK03-11-203-063c
युधिष्ठिर उवाच KK03-11-203-064
पुनः पुनरहं श्रोतुं कथां धर्मसमाश्रयाम् । KK03-11-203-064a
पुण्यामिच्छामि धर्मज्ञ कथ्यमानां त्वया विभो ॥ KK03-11-203-064c
मार्कण्डेय उवाच KK03-11-203-065
धर्मान्तरं प्रति कथां कथ्यमानां मया नृप । KK03-11-203-065a
सर्वपापहरां नित्यं शृणुष्वावहितो मम ॥ KK03-11-203-065c
कपिलायां तु दत्तायां यत्फलं ज्येष्ठपुष्करे । KK03-11-203-066a
तत्फलं भरतश्रेष्ठ विप्राणां पादधावने ॥ KK03-11-203-066c
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी । KK03-11-203-067a
तावत्पुष्करपर्णेन पिबन्ति पितरो जलम् ॥ KK03-11-203-067c
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । KK03-11-203-068a
पितरः पादशौचेन अन्नाद्येन प्रजापतिः ॥ KK03-11-203-068c
यावद्वत्सस्य पादौ द्वौ शिरश्चैव प्रदृश्यते । KK03-11-203-069a
तस्मिन्काले प्रदातव्या प्रयतेनान्तरात्मना ॥ KK03-11-203-069c
अन्तरिक्षगतो वत्सो यावद्योन्यां प्रदृश्यते । KK03-11-203-070a
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ॥ KK03-11-203-070c
यावन्ति तस्यां रोमाणि वत्सस्य च युधिष्ठिर । KK03-11-203-071a
तावद्युगसहस्राणि स्वर्गलोके महीयते ॥ KK03-11-203-071c
सुवर्णनासां यः कृत्वा सखुरां कृष्णधेनुकाम् । KK03-11-203-072a
तिलैः प्रच्छादितां दद्यात्सर्वरत्नैरलङ्कृताम् ॥ KK03-11-203-072c
प्रतिग्रहं गृहीत्वा यः पुनर्ददति साधवे । KK03-11-203-073a
फलानां फलमश्नाति तदा दत्त्वा च भारत ॥ KK03-11-203-073c
ससमुद्रगुहा तेन सशैलवनकानना । KK03-11-203-074a
चतुरन्ता भवेद्दत्ता पृथिवी नात्र संशयः ॥ KK03-11-203-074c
अन्तर्जानुशयो यस्तु भुञ्जते सक्तभाजनः । KK03-11-203-075a
यो द्विजः शब्दरहितं संयन्तुस्तारणाय वै ॥ KK03-11-203-075c
ये पानीयानि ददति तथाऽन्ये ये द्विजातयः । KK03-11-203-076a
जपन्ति संहितां सम्यक्ते नित्यं तारणक्षमाः ॥ KK03-11-203-076c
हव्यं कव्यं च यत्किञ्चित्सर्वं तच्छ्रोत्रियोऽर्हति । KK03-11-203-077a
दत्तं हि श्रोत्रिये साधौ ज्यलितेऽग्नौ यथा हुतम् ॥ KK03-11-203-077c
मन्युप्रहरणा विप्रा न विप्राः शस्त्रयोधिनः । KK03-11-203-078a
निहन्युर्मन्युना विप्रा वज्रपाणिरिवासुरान् ॥ KK03-11-203-078c
धर्माश्रितेयं तु कथा कथिता हि तवानघ । KK03-11-203-079a
यां श्रुत्वा मुनयः प्रीता नैमिषारण्यवासिनः ॥ KK03-11-203-079c
वीतशोकभयक्रोधा विपाप्मानस्तथैव च । KK03-11-203-080a
श्रुत्वेमां तु कथां राजन्भवन्तीह तु मानवाः ॥ KK03-11-203-080c
युधिष्ठिर उवाच KK03-11-203-081
किं तच्छौचं भवेद्येन विप्रः शुद्धः सदा भवेत् । KK03-11-203-081a
तदिच्छामि महाप्राज्ञ श्रोतुं धर्मभृतांवर ॥ KK03-11-203-081c
मार्कण्डेय उवाच KK03-11-203-082
वाक्शौचं क्रमशौचं च यच्च शौचं जलात्मकम् । KK03-11-203-082a
त्रिभिः शौचैरुपेतो यः स स्वर्गी नात्र संशयः ॥ KK03-11-203-082c
सायं प्रातश्च सन्ध्यां यो ब्राह्मणोऽभ्युपसेवते । KK03-11-203-083a
प्रजपन्पावनीं देवीं गायत्रीं वेदमातरम् ॥ KK03-11-203-083c
स तया पावितो देव्या ब्राह्मणो नष्टकिल्बिषः । KK03-11-203-084a
न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥ KK03-11-203-084c
ये चास्य दारुणा केचिद्ग्रहाः सूर्यादयो दिवि । KK03-11-203-085a
ते चास्य सौम्या जायन्ते शिवाः शिवतराः सदा ॥ KK03-11-203-085c
सर्वे नानुगतं चैनं दारुणाः पिशिताशनाः । KK03-11-203-086a
घोररूपा महाकाया धर्षयन्ति द्विजोत्तमम् ॥ KK03-11-203-086c
नाध्यापनाद्याजनाद्वा अन्यायाद्वा प्रतिग्रहात् । KK03-11-203-087a
दोषो भवति विप्राणां ज्वलिताग्निससा द्विजाः ॥ KK03-11-203-087c
दुर्वेदा वा सुवेदा वा प्राकृताः संस्कृतास्तथा । KK03-11-203-088a
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥ KK03-11-203-088c
यथा श्मशाने दीप्तौजाः पावको नैव दुष्यति । KK03-11-203-089a
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत् ॥ KK03-11-203-089c
प्राकरैश्च पुरद्वारैः प्रासादैश्च पृथग्विधैः । KK03-11-203-090a
नगराणि न शोभन्ते हीनानि ब्राह्मणोत्तमैः ॥ KK03-11-203-090c
वेदाढ्ञा वृत्तसम्पन्ना ज्ञानवन्तस्तपस्विनः । KK03-11-203-091a
यत्र तिष्ठन्ति वै विप्रास्तन्नाम नगरं नृप ॥ KK03-11-203-091c
व्रजे वाऽप्यथवाऽरण्ये यत्र सन्ति बहुश्रुताः । KK03-11-203-092a
तत्तन्नगरमित्याहुः पार्थ तीर्थं च तद्भवेत् ॥ KK03-11-203-092c
रक्षितारं च राजानं ब्राह्मणं च तपस्विनम् । KK03-11-203-093a
अभिगम्याभिपूज्याथ सद्यः पापात्प्रमुच्यते ॥ KK03-11-203-093c
पुण्यतीर्थाभिषेकं च पवित्राणां च कीर्तनम् । KK03-11-203-094a
सद्भिः सम्भाषणं चैव प्रशस्तं कीर्त्यते बुधैः ॥ KK03-11-203-094c
साधुसङ्गमपूतेन वाक्सुभाषितवारिणा । KK03-11-203-095a
पवित्रीकृतमात्मानं सन्तो मन्यन्ति नित्यशः ॥ KK03-11-203-095c
त्रिदण्डधारणं मौनं जटाभारोऽथ मुण्डनम् । KK03-11-203-096a
वल्कलाजिनसंवेष्टं व्रतचर्याऽभिषेचनम् ॥ KK03-11-203-096c
अग्निहोत्रं वने वासः शरीरपरिशोषणम् । KK03-11-203-097a
सर्वाण्येतानि मिथ्या स्युर्यदि भावो न निर्मलः ॥ KK03-11-203-097c
विशुद्धिं चक्षुरादीनां षण्णामिन्द्रियगामिनाम् । KK03-11-203-098a
विकारि तेषां राजेन्द्र सुदुष्करतरं मनः ॥ KK03-11-203-098c
ये पापानि न कुर्वन्ति मनोवाक्कर्मबुद्धिभिः । KK03-11-203-099a
ते तपन्ति महात्मानो न शरीरस्य शोषणम् ॥ KK03-11-203-099c
न ज्ञातिभ्यो दया यस्य शुक्लदेहोऽविकल्मषः । KK03-11-203-100a
हिंसा सा तपसस्तस्य नानाशित्वं तपः स्मृतम् ॥ KK03-11-203-100c
तिष्ठन्गृहे चैव मुनिर्नित्यं शुचिरलङ्कृतः । KK03-11-203-101a
यावज्जीवं दयावांश्च सर्वपापैः प्रमुच्यते ॥ KK03-11-203-101c
न हि पापानि कर्माणि शुद्ध्यन्त्यनशनादिभिः । KK03-11-203-102a
सीदत्यनशनादेव मांसशोणितलेपनः ॥ KK03-11-203-102c
अज्ञातं कर्म कृत्वा च क्लेशो नान्यत्प्रहीयते । KK03-11-203-103a
नाग्निर्दहति कर्माणि भावशून्यस्य देहिनः ॥ KK03-11-203-103c
पुण्यादेव प्रव्रजन्ति शुध्यन्त्यनशनानि च । KK03-11-203-104a
न मूलफलभक्षित्वान्न मौनान्नानिलाशनात् ॥ KK03-11-203-104c
शिरसो मुण्डनाद्वाऽपि न स्थानकुटिकासनात् । KK03-11-203-105a
न जटाधारणाद्वाऽपि न तु स्थण्डिलशय्यया । KK03-11-203-105c
नित्यं ह्यनशनाद्वाऽपि नाग्निशुश्रूषणादपि । KK03-11-203-106a
न चोदकप्रवेशेन न च क्ष्माशयनादपि ॥ KK03-11-203-106c
ज्ञानेन कर्मणा वापि जरामरणमेव च । KK03-11-203-107a
व्याधयश्च प्रहीयन्ते प्राप्यते चोत्तमं पदम् ॥ KK03-11-203-107c
बीजानि ह्यग्निदग्धानि न रोहन्ति पुनर्यथा । KK03-11-203-108a
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संयुज्यते पुनः ॥ KK03-11-203-108c
आत्मना विप्रहीणानि काष्ठकुड्योपमानि च । KK03-11-203-109a
विनश्यन्ति न सन्देहः फेनानीव महार्णवे ॥ KK03-11-203-109c
आत्मानं विन्दते येन सर्वभूतगुहाशयम् । KK03-11-203-110a
श्लोकेन यदि वाऽर्धेन क्षीणं तस्य प्रयोजनम् ॥ KK03-11-203-110c
द्व्यक्षरादभिसन्धाय केचिच्छ्लोकपदाङ्कितैः । KK03-11-203-111a
शतैरन्यैः सहस्रैश्च प्रत्ययो मोक्षलक्षणम् ॥ KK03-11-203-111c
नायं लोकोस्ति न परो न सुखं संशयात्मनः । KK03-11-203-112a
ऊचुर्ज्ञानविदो वृद्धाः प्रत्ययो मोक्षलक्षणम् ॥ KK03-11-203-112c
विदितार्थस्तु वेदानां परिवेद प्रयोजनम् । KK03-11-203-113a
उद्विजेत्स तु देवेभ्यो दावाग्नेरिव मानवः ॥ KK03-11-203-113c
शुष्कं तर्कं परित्यज्य आश्रयस्व श्रुतिं स्मृतिम् । KK03-11-203-114a
एकाक्षराभिसम्बद्धं तत्त्वं हेतुभिरिच्छसि । KK03-11-203-114c
बुद्धिर्न तस्य सिद्ध्येत साधनस्य विपर्ययात् ॥ KK03-11-203-115a
वेद्यं पूर्वं वेदितव्यं प्रयत्नात्तद्धीर्वेदस्तस्य वेदः शरीरम् । KK03-11-203-115c
वेदस्तत्त्वं तत्समासोपलब्धिः क्लीबस्त्वात्मा न स वेद्यं न वेदः ॥ KK03-11-203-115e
वेदोक्तमायुर्देवानामाशिषश्चैव कर्मणाम् । KK03-11-203-116a
फलत्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ KK03-11-203-116c
इन्द्रियाणां प्रसादेन तदेतत्परिवर्जयेत् । KK03-11-203-117a
तस्मादनशनं दिव्यं निरुद्धेन्द्रियगोचरम् ॥ KK03-11-203-117c
तपसा स्वर्गगमनं भोगो दानेन जायते । KK03-11-203-118a
ज्ञानेन मोक्षो विज्ञेयस्तीर्थस्नानादघक्षयः ॥ KK03-11-203-118c
वैशम्पायन उवाच KK03-11-203-119
एवमुक्तस्तु राजेन्द्र प्रत्युवाच महायशाः । KK03-11-203-119a
भगवञ्श्रोतुमिच्छामि प्रदानविधिमुत्तमम् ॥ KK03-11-203-119c
मार्कण्डेय उवाच KK03-11-203-120
यत्तत्पृच्छसि राजेन्द्र दानधर्मं युधिष्ठिर । KK03-11-203-120a
इष्टं चेदं सदा मह्यं राजन्गौरवतस्तथा ॥ KK03-11-203-120c
शृणु दानरहस्यानि श्रुतिस्मृत्युदितानि च । KK03-11-203-121a
छायायां करिणः श्राद्धं तत्कर्म परिवीजितम् । KK03-11-203-121c
दशकल्पायुतानीह न क्षीयेत युधिष्ठिर ॥ KK03-11-203-121e
जीवनाय समाक्लिन्नं वसु दत्त्वा महीपते । KK03-11-203-122a
विप्रं तु वासयेद्यस्तु सर्वयज्ञैः स इष्टवान् ॥ KK03-11-203-122c
प्रतिस्रोतश्चित्रवाहाः पर्जन्योऽन्नानुसञ्चरन् । KK03-11-203-123a
महाधुरि यथा नावा महापापैः प्रमुच्यते । KK03-11-203-123c
विषुवे विप्रदत्तानि दधिमध्वक्षयाणि च ॥ KK03-11-203-123e
पर्वसु द्विगुणं दानमृतौ दशगुणं भवेत् । KK03-11-203-124a
'अब्दे दशगुणं प्रोक्तमनन्तं विषुवे भवेत्' ॥ KK03-11-203-124c
अयने विषुवे चैव षडशीतिमुखेषु च । KK03-11-203-125a
चन्द्रसूर्योपरागे च दत्तमक्षयमुच्यते ॥ KK03-11-203-125c
ऋतुषु दशगुणं वदन्ति दत्तं शतगुणमृत्वयनादिषु ध्रुवम् । KK03-11-203-126a
भवति सहस्रगुणं दिनस्य राहोर्विषुवति चाक्षयमश्नुते फलम् ॥ KK03-11-203-126c
नाभूमिदो भूमिमश्नाति राजन्नायानदो यानमारुह्य याति । KK03-11-203-127a
यान्यान्कामान्ब्राह्मणेभ्यो ददाति तांस्तान्कामाञ्जायमानः स भुङ्क्ते ॥ KK03-11-203-127c
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी सूर्यसुताश्च गावः । KK03-11-203-128a
लोकाश्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गाश्च महीं च दद्यात् ॥ KK03-11-203-128c
परंहि दानान्न बभूव शाश्वतं भव्यं त्रिलोके भवते कुतः पुनः । KK03-11-203-129a
तस्मात्प्रधानं परमं हि दानं वदन्ति लोकेषु विशिष्टबुद्धयः ॥ KK03-11-203-129c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥

3-203-5 यत्र जन्मनि असत्यं वृथा गोब्राह्मणादित्राणं विना कीर्त्यते तदपि वृथेत्यर्थः ॥ 3-203-6 आरूढश्चासौ पतितः ॥ 3-203-7 गुरावप्यानृतिकेऽनृतप्रिये । वृषलः शूद्रः ॥ 3-203-8 ब्रह्मबन्धवो जातिमात्रब्राह्मणा वृत्ताध्ययनशून्याः ॥ 3-203-10 दानं दानफलम् अन्यत्तु दानं वृद्धभावेन जरया भुङ्क्ते ॥ 3-203-17 काण्डपृष्ठाः बाणनिषङ्गधराः क्षात्रवृत्तय इत्यर्थः । दुर्वर्णः कुनखीति झ. पाः ॥ 3-203-25 माल्यं निर्माल्यम् । आकल्पः गन्धादिनालङ्करणम् । अरोगिप्रतिचर्याचेति नृपश्रेष्ठगोशतादिति च ध. पाठः ॥ 3-203-27 अभिभूताय दारिद्र्यादेव ॥ 3-203-28 अभिवर्जितं दत्तम् ॥ 3-203-29 सा बहुभ्यो दत्ता ॥ 3-203-40 प्रतिश्रयाः गृहाः येषां यैः उत्सृष्टा इति शेषः । निर्वचनाः यमवार्तामपि न शृण्वन्तीत्यर्थः ॥ 3-203-41 वसूनां धनानाम् ॥ 3-203-42 सत्योक्तास्तदनन्तरमिति ध. पाठः ॥ 3-203-45 सर्वं पूज्यतमं प्रश्नमिति ध. पाठः ॥ 3-203-51 प्रावृता वस्त्रदातार इति ध. पाठः ॥ 3-203-76 अपानपा नगदितास्तथा इति झ. पाठः । अपानपाः अमद्यपाः नगदिताः न केनचिद्दोषवत्तया कीर्तिताः ॥ 3-203-80 राजन्न भवन्तीह इति झ. पाठः । न भवन्तीह मानवाः स्वर्गं प्राप्योपर्युपरि गच्छन्तो मुक्तिमेव प्राप्नुवन्तीत्यर्थः ॥ 3-203-87 अन्यस्माद्वा इति झ. पाठः ॥ 3-203-94 पवित्राणां त्रिसुपर्णादिमन्त्राणाम् ॥ 3-203-96 अभिषेचनं तीर्थेषु ॥ 3-203-97 भावश्चित्तम् ॥ 3-203-98 न दुष्करमिति इन्द्रियगामिनां विषयाणां विशुद्धिं विना अशनं भोगः सुकरम् । भोगो विषयशुद्धिं नापेक्षते । पण्याङ्गनासङ्गादिनापि तत्सिद्धेः । किन्तु अनाशित्वम् अमृतत्वं भोगवर्जनं वा तां विना न सुकरम् । यतो दुष्करं स्वभावतो दुःसम्पादमिति योजना । दुष्करत्वे हेतुमाहार्धेन विकारीति । सुदुष्करतरं दुर्जयम् ॥ 3-203-100 ज्ञातिभ्यः पुत्राद्यर्थे । शुक्लदेहः शुक्लवत्त्युपजीवी । अविकल्मषः शुक्लवृत्त्या यः कुटुम्बं पीडयति स निष्कल्मषो न भवतीत्यर्थः । तस्योपपादनमुत्तरार्धेन हिंसेति । अनाशित्वम् अशनत्यागः ॥ 3-203-101 मांसशोणितलेपनः देहः ॥ 3-203-103 अज्ञातं शास्त्रत्किन्तु स्वयमेव कल्पितं तप्तशिलारोहणादि । तेन क्लेश एव नतु अन्यत्पापं प्रहीयते ॥ 3-203-105 स्थानकुटिकासनात्स्थावरगृहत्यागात् ॥ 3-203-109 आत्मनेति शरीराणीति शेषः ॥ 3-203-113 स तु वेदेभ्यः इति झ. पाठः ॥ 3-203-115 वेदपूर्वं वेदितव्यं प्रयत्नात्तद्वै वेदस्तस्य वेदः शरीरम् । वेदस्तत्वं तत्समासोपलब्धौ क्लीबस्त्वात्मा तत्सवेद्यस्य वेद्यम् । इति झ.पाठः ॥ 3-203-117 प्रसादेन नैर्मल्येन । अनशनं नाम चित्तेन्द्रियनिरोधो नत्वाहारत्याग इत्याह तस्मादिति ॥ 3-203-121 छायायां करिणः । गुर्वमायोगेऽश्वत्थच्छाया गजच्छायाख्यं पर्व देशकालयोगजम् । तत्कर्णपरिवीजिते इति झ. पाठः । कर्णाइव कर्णा अश्वत्थपल्लवास्तैर्वीजिते देशे जलोपान्ते ॥ 3-203-122 समाक्लिन्नम् आर्द्रं वसु अन्नादिद्रव्यं दत्त्वा महीयते । वैश्यं तु इति झ. पाठः ॥ 3-203-123 प्रति प्रतीपं पूर्ववाहिन्याः नद्याः पश्चिमाभिमुखं स्रोतः प्रवाहो यत्र तत् तीर्थं प्रतिस्रोतः । तत्र पात्रेऽर्पिताश्चित्रवाहा उत्तमाश्वाः । विपरिणम्य अक्षया इत्यपकृष्यते । अक्षयफला इत्यर्थः । पर्जन्योऽन्नानुसञ्चरन् अन्नार्थं अनुसञ्चरन्पर्जन्य इन्द्रोऽप्यक्षयः । अतिथिरूपेण तृप्त इन्द्रोप्यक्षयस्वर्गप्रद इत्यर्थः । महाधुरि महति धूःसदृशे प्रवाहे ना पुरुषो वा यथा महाधुरि योगभारे । यथा सर्वपापैः प्रमुच्यते तथैव गजच्छायाश्राद्धादिकर्तारोपि मुच्यन्त इत्यर्थः ॥ 3-203-124 विप्लवे विप्रदत्तानि दधिमस्त्वक्षयाणि च इति झ. पाठः ॥ 3-203-125 विषुवे तुलामेषसङ्क्रान्त्योः । षडशीतिमुखे मिथुनकनयामीनसङ्क्रान्तिषु ॥ 3-203-127 कामान् काम्यमानान्विषयान् ॥