अध्यायः 202
मार्कण्डेयेन पाण्डवान्प्रति कीर्त्यकीर्त्योः स्वर्गनरकनिवासहेतुताप्रतिपादकेन्द्रद्युम्नोपाख्यानकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-11-202-001
मार्कण्डेयमृषिं पाण्डवाः पर्यपृच्छन्नस्ति कश्चिद्भवतश्चिरजाततर इति ॥ KK03-11-202-001AB
स तानुवाचास्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः कीर्तिर्मे व्युच्छिन्नेति स मामुपातिष्ठदथ प्रत्यभिजानाति मां भवानिति ॥ KK03-11-202-002AB
तमहमब्रवं नाभिजानीमो भवन्तमिति कार्यचेष्टाकुलत्वान्न वयं रासायनिका ग्रामैकरात्रवासिनो न प्रत्यभिजानीमोऽप्यात्मनोऽर्थानामनुष्टानं न शरीरोपतापेनात्मनः समारभामोऽर्थानामनुष्ठानम् ॥ KK03-11-202-003AB
'एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनर्मामब्रवीत् ॥ KK03-11-202-004A
अथास्ति कश्चित्त्वत्तश्चिरजाततर इति । तं पुनः प्रत्यब्रवम् ॥' KK03-11-202-004B
अस्ति खलु हिमवति प्रावारकर्णो नामोलूकः प्रतिवसति ॥ KK03-11-202-004C
स मत्तश्चिरजातो भवन्तं यदि जानीयाद्विप्रकृष्टे चाध्वनि हिमवांस्तत्रासौ प्रतिवसतीति ॥ KK03-11-202-004D
तत सः मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥ KK03-11-202-005A
अथैनं स राजर्षिः पर्यपृच्छत्प्रतिजानाति मां भवानिति ॥ KK03-11-202-005B
स मुहूर्तमिव ध्यात्वाऽब्रवीदेनं नाभिजानामि भवन्तमिति स एवमुक्त इन्द्रद्युम्नः पुनस्तमुलूकमब्रवीद्राजर्षिः ॥ KK03-11-202-006AB
अथास्ति कश्चिद्भवतः सकाशाच्चिरजात इति स एवमुक्तोऽब्रवीदस्तिखल्विन्द्रद्युम्नं नाम सरस्तस्मिन्नालिजङ्घो नाम बकः प्रतिवसति सोस्मत्तश्चिरजाततरस्तं पृच्छेति तत इन्द्रद्युम्नो मां चोलूकमादाय तत्सरोऽगच्छद्यत्रासौ नालिजङ्घो नाम बको बभूव ॥ KK03-11-202-007AB
सोस्माभिः पृष्टो भवानिममिन्द्रद्युम्नं राजानमभिजानातीति स एवं मुहूर्तं ध्यात्वाऽब्रवीन्नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ KK03-11-202-008A
ततः सोस्माभिः पृष्टः कश्चिद्भवतोऽन्यश्चिरजाततरोस्तीति स नोऽब्रवीदस्ति खल्वस्मिन्नेव सरस्यकूपारो नाम कच्छपः प्रतिवसति ॥ KK03-11-202-008B
स मत्तश्चिरजाततरः स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छध्वमिति ॥ KK03-11-202-008C
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास अस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुं साध्वागम्यतां तावदिति तच्छ्रुत्वा कच्छपस्तस्मात्सरस उत्थायाभ्यागच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे आगतं चैनं वयमपृच्छाम भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥ KK03-11-202-009AB
स मूहूर्तं ध्यात्वा बाष्पसम्पूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् किमहमेनं न प्रत्यभिज्ञास्यामीह ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहिताः ॥ KK03-11-202-010AB
सरश्चेदमस्य दक्षिणोदकदत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् ॥ KK03-11-202-011A
अत्र चाहं प्रतिवसामीति ॥ KK03-11-202-011B
अथैतत्सकलं कच्छपेनोदाहृतं श्रुत्वा तदनन्तरं देवलोकाद्देवरथः प्रादुरासीद्वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति प्रस्तुतस्ते स्वर्गो यथोचितं स्थानं प्रतिपद्यस्व कीर्तिमानस्यव्यग्रो याहीति ॥ KK03-11-202-012AB
भवन्ति चात्र श्लोकाः । KK03-11-202-013
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः । KK03-11-202-013a
यावत्स शब्दो भवति तावत्स्वर्गे महीयते ॥ KK03-11-202-013c
अकीर्तिः कीर्त्यते लोके यस्य भूतस्य कस्यचित् । KK03-11-202-014a
स पतत्यधमाल्ँलोकान्यावच्छब्दः प्रकीर्त्यते ॥ KK03-11-202-014c
तस्मात्कल्याणवृत्तः स्याद्दाता तावन्नरो भुवि । KK03-11-202-015a
विहाय वृत्तं पापिष्ठं धर्ममेव समाश्रयेत् ॥ KK03-11-202-015c
इत्येतच्छ्रुत्वा स राजाऽब्रवीत्तिष्ठ तावद्यावदिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ KK03-11-202-016AB
स मां प्रावारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेन देवयानेन संसिद्धं यथोचितं स्थानं प्रतिपेदे तन्मयाऽनुभूतं चिरजीविनेदृशमिति पाण्डवानुवाच मार्कण्डेयः ॥ KK03-11-202-017AB
तमृषिं पाण्डवाश्चोचुः साधु शोभनं भवता कृतं राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने प्रतिपादयतेत्यथैतानब्रवीदसौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्पुनः समुद्धृत्य स्वर्गं प्रापित इति ॥ KK03-11-202-018AB
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि द्व्यधिकद्विशततमोऽध्यायः ॥ 202 ॥
3-202-3 रसायनिकाः इति झ. पाठः ॥ 3-202-10 अग्निचितिषु अग्निचयनेषु कर्तव्येषु सत्सु ॥ 3-202-13 तावत्पुरुष उच्यते इति झ. पाठः । पुरुषः स्वर्गस्थ इति शेषः ॥ 3-202-18 असौ मार्कण्डेयः ॥