अध्यायः 201
मार्कण्डेयेन पाण्डवान्प्रति नारदेरिताष्टकादिराजतारतम्यकथनपूर्वकदानमहिमानुवादः ॥ 1 ॥
वैशम्पायन उवाच KK03-11-201-001
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवो मार्कण्डेयम् ॥ KK03-11-201-001A
अथाचष्ट मार्कण्डेयः ॥ KK03-11-201-001B
अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ॥ KK03-11-201-002A
भ्रातरश्चास्य प्रतर्दनो वमुमनाः शिबिरौशीनर इति स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात्ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान्रथमित्यब्रुवन् ॥ KK03-11-201-002B
तांस्तथेत्युक्त्वा रथमारुरोह ॥ KK03-11-201-003A
अथ तेषामेकः सुरर्षिं नारदमब्रवीत् ॥ KK03-11-201-003B
प्रसाद्य भगवन्तं किञ्चिदिच्छेयं प्रष्टुमिति ॥ KK03-11-201-003C
पृच्छेत्यब्रवीदृषिः ॥ KK03-11-201-004A
सोऽब्रवीदायुष्मन्तः सर्वगुणप्रमुदिताः ॥ KK03-11-201-004B
अथायुष्मन्तं स्वर्गस्थानं चतुर्भिर्यातव्यं स्यात्कोऽवतरेत् ॥ KK03-11-201-004A
अयमष्टकोऽवतरेदित्यब्रवीदृषिः ॥ KK03-11-201-004D
किङ्कारणमित्यपृच्छत् ॥ KK03-11-201-005A
अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहदथापश्यमनेकानि गोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमा गाव इति सोब्रवीत् ॥ KK03-11-201-005B
मया निसृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन ॥ KK03-11-201-005C
एषोवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत् ॥ KK03-11-201-005D
प्रतर्दन इत्यब्रवीदृषिः ॥ KK03-11-201-006A
तत्र किं कारणं प्रतर्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत् ॥ KK03-11-201-006B
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान्निवृत्तो दास्यामीत्यब्रवीद्ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद्ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत् ॥ KK03-11-201-007AB
अथान्योप्यश्वार्थी ब्राह्मण आगच्छत् ॥ KK03-11-201-008A
तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात्पुनरपि चान्योप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोथ तस्मै अपनह्य वामं धुर्यमददत् ॥ KK03-11-201-008B
अथ प्रायात्पुनरन्य आगच्छदश्वार्थी ब्राह्मणस्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद्ब्राह्मणस्तस्मै दत्त्वाऽश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किञ्चिदिति ॥ KK03-11-201-009AB
य एष ददाति चासूयति च तेन व्याहृतेन तथाऽवतरेत् ॥ KK03-11-201-010A
अथ द्वाभ्यां यातव्यमिति कोऽवतरेत् ॥ KK03-11-201-010B
वसुमना अवतरेदित्यब्रवीदृषिः ॥ KK03-11-201-011AB
किङ्कारणमित्यपृच्छदथाचष्ट नारदः ॥ KK03-11-201-012A
अहं परिभ्रमन्वसुमनसो गृहमुपस्थितः ॥ KK03-11-201-012B
स्वस्तिवचनमासीत्पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ॥ KK03-11-201-013AB
तमहं रथं प्राशंसमथ राजाऽब्रवीद्भगवता रथः प्रशस्तः ॥ KK03-11-201-014A
एष भगवतो भगवतो रथ इति ॥ KK03-11-201-014B
अथ कदाचित्पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् ॥ KK03-11-201-015A
सम्यगयमेष भगवत इत्येवं राजाऽब्रवीदिति पुनरेव च तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन्मामभिप्रेक्ष्याब्रवीत् ॥ KK03-11-201-015B
अथो भगवता पुष्परथस्य स्वस्तिवाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत् ॥ KK03-11-201-015C
अथैकेन यातव्यं स्यात्कोऽवतरेत्पुनर्नारद आह ॥ KK03-11-201-016A
शिबिर्यायादहमवतरेयम् अत्र किं कारणमित्यब्रवीत् ॥ KK03-11-201-016B
असावहं शिबिना समो नास्मि यतो] ब्राह्मणः कश्चिदेनमब्रवीत् ॥ KK03-11-201-016C
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिबिः किं क्रियतामाज्ञापयतु भवानिति ॥ KK03-11-201-017AB
अथैनं ब्राह्मणोऽब्रवीत् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोपपादय ततोऽहं प्रतीक्ष्य इति ॥ KK03-11-201-018A
ततः पुत्रं प्रमाथ्य संस्कृत्य विधिना साधयित्वा पात्र्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ॥ KK03-11-201-018B
अथास्य मृगयमाणस्य कश्चिदाचष्ट एष ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति ॥ KK03-11-201-019AB
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत्सिद्धं भगवन्नन्नमिति ब्राह्मणो न किञ्चिद्व्याजहार विस्मयादधोमुखश्चासीत् ॥ KK03-11-201-020AB
ततः प्रासादयद्ब्राह्मणं भगवन्भुज्यतामिति ॥ KK03-11-201-021A
मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत् ॥ KK03-11-201-021B
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवाविमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ॥ KK03-11-201-022AB
अथास्य ब्राह्मणो हस्तमगृह्णात् ॥ KK03-11-201-023A
अब्रवीच्चैनं जितक्रोधोसि न ते किञ्चिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत् ॥ KK03-11-201-023B
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देवकुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ॥ KK03-11-201-024AB
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमूचुः ॥ KK03-11-201-025A
किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ॥ KK03-11-201-025B
शिबिरुवाच KK03-11-201-026
नैवाहमेतद्यशसे ददानि न चार्यहेतोर्न च भोगतृष्णया । KK03-11-201-026a
पापैरनासेवित एष मार्ग इत्येवमेतत्सकलं करोमि ॥ KK03-11-201-026c
सद्भिः सदाऽध्यासितं तु प्रशस्तं तस्मात्प्रशस्तं श्रयते मतिर्मे । KK03-11-201-027a
एतन्महाभाग्यवरं शिबेस्तु तस्मादहं वेद यथावदेतत् ॥ KK03-11-201-027c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकाधिकद्विशततमोऽध्यायः ॥ 201 ॥
3-201-4 आयुष्मन्तं चिरकालभोग्यम् । स्वर्गस्थानम् । पुंस्त्वमार्षम् । अवतरेत्स्वर्गात् भूमौ प्रथममिति शेषः ॥ 3-201-7 पार्श्वं रथचक्रप्रदेशस्थमश्वम् ॥ 3-201-9 अतियातोऽतिवेगवान् । अश्वचतुष्टयस्यापि दानात् धुरं स्वहस्तेनैव गृह्णता । साम्प्रतं युक्तायुक्तविचारः ॥ 3-201-13 पुष्परथस्य गिरिगगनसागरेष्वप्रतिषिद्धमार्गस्य प्रयोजनेन तदर्थमित्यर्थः ॥ 3-201-14 रथः स्तुत एव नतु याचितः । राजापि ममाशयं बुद्ध्वापि रथं न दत्तवान् रथस्तुतिं चानुमोदितवानिति प्रघट्टकार्थः ॥ 3-201-15 द्रोहवचनेन अदत्त्वा वृथास्तवेन ॥ 3-201-22 महित्वा पूजयित्वा । कपालं शीर्षास्थिपात्रम् ॥ 3-201-27 यो दत्त्वा श्लाघते यश्चासूयेत् यश्चार्थिनो लिप्सितमिङ्गितैर्ज्ञात्वापि तं स्तुतिमात्रेणैव सम्भावयति नत्वर्थेन यश्च ब्राह्मणेनार्थितः श्रद्धाक्षमापूर्वकमदेयमपि ददाति अकर्तव्यमपि करोति ते उत्तरोत्तरं श्रेष्ठाः । तत्राप्यन्त्यो नारदादपि श्रेष्ठ इति दातुर्गुणदोष विधानपरोऽयमध्यायः ॥