अध्यायः 199

मार्कण्डेयेन सेदुकवृषदर्भचरितकथनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-11-199-001
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत्पाण्डवः ॥ KK03-11-199-001AB
अथाचष्ट मार्कण्डेयो महाराज वृषदर्भसेदुकनामानौ राजानौ नीतिमार्गरतावस्त्रोपास्त्रकृतिनौ ॥ KK03-11-199-002AB
सेदुको वृषदर्भस्य बालस्यैव उपांशुव्रतमभ्यजानात् कुप्यमदेयं ब्राह्मणस्य ॥ KK03-11-199-003AB
अथ तं सेदुकं ब्राह्मणः कश्चिद्वेदाध्ययनसम्पन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् ॥ KK03-11-199-004AB
अश्वसहस्रं मे भवान्ददात्विति ॥ KK03-11-199-005A
तं सेदुको ब्राह्मणमब्रवीत् ॥ KK03-11-199-005B
नास्ति सम्भवो गुर्वर्थं दातुमिति ॥ KK03-11-199-006AB
स त्वं गच्छ वृषदर्भसकाशम् ॥ KK03-11-199-007A
राजा परमधर्मज्ञो ब्राह्मण तं भिक्षस्व ॥ KK03-11-199-007B
स ते दास्यति तस्यै तदुपांशुव्रतमिति ॥ KK03-11-199-007C
अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रमयाचत ॥ KK03-11-199-008A
स राजा तं कशेनाताडयत् ॥ KK03-11-199-008B
तं ब्राह्मणोऽब्रवीत् ॥ KK03-11-199-009A
किं हिंस्यनागसं मामिति ॥ KK03-11-199-009B
एवमुक्त्या तं शपन्तं राजाऽऽह ॥ KK03-11-199-010A
विप्र किं यो न ददाति तुभ्यमुताहोस्विद्ब्राह्मण्यमेतत् ॥ KK03-11-199-010B
ब्राह्मण उवाच KK03-11-199-011
राजाधिराज तव समीपं सेदुकेन प्रेषितो भिक्षितुमागतः तेनानुशिष्टेन मया त्वं भिक्षितोसि ॥ KK03-11-199-011AB
राजोवाच KK03-11-199-012
पूर्वाह्णे ते दास्यामि यो मेऽद्य बलिरागमिष्यति ॥ KK03-11-199-012A
यो हन्यते कशया कथं मोघं क्षेपणं तस्य स्यात् ॥ KK03-11-199-012B
इत्युक्त्वा ब्राह्मणाय दैवसिकामुत्पत्तिं प्रदात् ॥ KK03-11-199-013A
अधिकस्याश्वसहस्रस्य मूल्यमेवादादिति ॥ KK03-11-199-013B

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनद्विशततमोऽध्यायः ॥ 199 ॥

3-199-3 उपांशु बहिरनुद्घाटितम् । कुप्यं स्वर्णरूप्यादन्यत् ॥ 3-199-8 कशेन पुंस्त्वमार्षम् ॥ 3-199-9 हिंसि हिनस्सि ताडयसि ॥ 3-199-10 शपन्तं शापं दित्सन्तम् । हे विप्र यो न ददाति स्वीयं धनं तुभ्यं तस्मै वा एतत् शापदानम् उचितम् । उताहोस्वित् एतद्ब्राह्मण्यं ब्राह्मणयोग्यं स्वोयमपि दित्सन्न शापयोग्यः नापि शान्तिधर्मा ब्राह्मणः शापं दातुमर्हतीत्यर्थः ॥ 3-199-12 क्षेपणं दूरीकरणम् । अवश्यं स प्रसादनीय इत्यर्थः ॥ 3-199-13 दैवसिकां एकदिवसजातामुत्पत्तिं धनस्य । स्वनियमभङ्गाय प्रवृत्तं ब्राह्मणं दण्डयितुमपि प्रार्थितादधिकं दत्त्वा प्रसादयितुमपि समर्था राजान इति तात्पर्यम् ॥