अध्यायः 198 मार्कण्डेयेन पाण्डवान्प्रति विप्राय गोप्रदानरूपययातिचरितकथनम् ॥ 1 ॥

[*मार्कण्डेय उवाच KK03-11-198-001
इदमन्यच्छ्रूयतां ययातिर्नाहुषो राजा राज्यस्थः पौरजनावृत आसाञ्चक्रे ॥ KK03-11-198-001A
गुर्वर्थी ब्राह्मण उपेत्याब्रवीत् भो राजन्गुर्वर्थं भिक्षेयं समयादिति राजोवाच ॥ KK03-11-198-001B
ब्रवीतु भगवान्समयमिति ॥ KK03-11-198-002AB
ब्राह्मण उवाच KK03-11-198-003
विद्वेषणं परमं जीवलोके कुर्यान्नरः पार्थिव याच्यमानः । KK03-11-198-003a
तं त्वां पृच्छामि कथं तु राजन्दद्याद्भवान्दयितं च मेऽद्य ॥ KK03-11-198-003c
राजोवाच KK03-11-198-004
नचानुकीर्तये दद्य दत्त्वा अयाच्यमर्थं न च संशृणोमि । KK03-11-198-004a
प्राप्यमर्थं च संश्रुत्य तं चापि दत्त्वा सुसुखी भवामि ॥ KK03-11-198-004c
ददामि ते रोहिणीनां सहस्रं प्रियो हि मे ब्राह्मणो याचमानः । KK03-11-198-005a
न मे मनः कुप्यति याचमाने दत्तं न शोचामि कदाचिदर्थम् ॥ KK03-11-198-005c
इत्युक्त्वा ब्राह्मणाय राजा गोसहस्रं ददौ । KK03-11-198-006a
प्राप्तवांश्च गवां सहस्रं ब्राह्मण इति ॥ KK03-11-198-006c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥

3-198-3 विद्वेषणं याचकस्य द्वेषम् । प्रीत्यैव ददासि चेत् ग्रहीष्यामीत्यर्थः ॥ 3-198-4 हे दद्य ददो हानं तदर्ह ॥ 3-198-5 रोहिणीनां गवाम् ॥ * - एतदाद्यध्यायत्रयं षोडशगद्याधिकं झ. पुस्तकएव दृश्यते नेतरकोशेषु ।