अध्यायः 197

मार्कण्डेयेन पाण्डवान्प्रति क्षत्रियमहिमख्यापकशिबिचरित्रकीर्तनम् ॥ 1 ॥

वैशम्पायन उवाच KK03-11-197-001
ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः ॥ KK03-11-197-001AB
कथितं ब्राह्मणमाहात्म्यं राजन्यमाहात्म्यमिदानीं शुश्रूषामह इति तानुवाच मार्कण्डेयो महर्षिः श्रूयतामिदानीं राजन्यानां माहात्म्यमिति ॥ KK03-11-197-002A
कुरूणामन्यतमः सुहोत्रो नाम राजा महर्षीनभिगम्य निवृत्य रथस्थमेव राजानमौशीनरं शिबिं ददर्शाभिमुखं तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन परस्परेण तुल्यात्मानौ विदित्वाऽन्योन्यस्य पन्थानं न ददतुस्तत्र नारदः प्रादुरासीत्किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य तिष्ठत इति ॥ KK03-11-197-002B
तावूचतुर्नारदं नैतद्भगवन्पूर्वकर्मकर्त्रादिभिर्विशिष्टस्य पन्था उपदिश्यते समर्थाय वा आवाञ्च सख्यं परस्परेणोपगतौ तच्चावधानतोऽत्युत्कृष्टमधरोत्तरं परिभ्रष्टम् ॥ KK03-11-197-003A
नारदस्त्वेवमुक्तः श्लोकत्रयमपठत् ॥ KK03-11-197-003B
क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव । KK03-11-197-004a
साधुश्चासाधवे साधुः साधवे नाप्नुयात्कथम् ॥ KK03-11-197-004c
कृतं शतगुणं कुर्यान्नास्ति देवेषु निर्णयः । KK03-11-197-005a
औशीनरः साधुशीलो भवतो वै महीपतिः ॥ KK03-11-197-005c
जयेत्कदर्यं दानेन सत्येनानृतवादिनम् । KK03-11-197-006a
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत् ॥ KK03-11-197-006c
तदुभावेव भवन्तावुदारौ य इदानीं भवद्भ्यामन्यतमः सोपसर्पतु एतद्वै निदर्शनमित्युक्त्वा तूष्णीं नारदो बभूव ॥ KK03-11-197-007A
एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः प्रशस्य प्रययौ ॥ KK03-11-197-007B
तदेतद्राज्ञो महाभाग्यमप्युक्तवान्नारदः ॥ KK03-11-197-008AB

॥ इतिश्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमाख्यापर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

3-197-3 नैतत् यत्पन्थास्त्याज्य इत्येतन्नेत्यर्थः । तत्र हेतुः पूर्वेति । पूर्वे च ते कर्मकर्त्रादयश्चेति विग्रहः । अनुमन्तृवक्तृप्रभृतय आदिशब्दार्थः । अवधानतो विचारतः । अधरेति । आवयोस्तारतम्यं नास्तीत्यर्थः ॥ 3-197-4 पूर्वार्धे खलवृत्तं नाप्नुयात्साधुत्वं वै कथं न कुर्यादित्यर्थः ॥ 3-197-8 राज्ञः शिबेः ॥