अध्यायः 196

मार्कण्डेयेन सुखदुःखनिरूपकबकशक्रसंवादानुवादः ॥ 1 ॥

वैशम्पायन उवाच KK03-11-196-001
मार्कण्डेयमृषयो ब्राह्मणा युधिष्ठिरश्च । KK03-11-196-001a
पर्यपृच्छन्नृषिः केन दीर्घायुरासीद्बकः ॥ KK03-11-196-001c
मार्कण्डेयस्तु तान्सर्वान्प्रत्युवाच महातपाः । KK03-11-196-002a
दीर्घायुश्च बको राजन्नृषिर्नात्र विचारणा ॥ KK03-11-196-002c
एतच्छ्रुत्वा तु कौन्तेयो भ्रातृभिः सह भारत । KK03-11-196-003a
मार्कण्डेयं पर्यपृच्छद्धर्मराजो युधिष्ठिरः ॥ KK03-11-196-003c
बकदाल्भ्यौ महात्मानौ श्रूयेते चिरजीविनौ । KK03-11-196-004a
सखायौ देवराजस्य तावृषी लोकसम्मतौ ॥ KK03-11-196-004c
एतदिच्छामि भगवन्बकशक्रसमागमम् । KK03-11-196-005a
सुखदुःखसमायुक्तं तत्त्वेन कथितं त्वया ॥ KK03-11-196-005c
मार्कण्डेय उवाच KK03-11-196-006
वृत्ते देवासुरे राजन्सङ्ग्रामे रोमहर्षणे । KK03-11-196-006a
त्रयाणामपि लोकानामिन्द्रो लोकाधिपोऽभवत् ॥ KK03-11-196-006c
सम्यग्वर्षति पर्जन्ये सस्यसम्पद उत्तमाः । KK03-11-196-007a
निरामयाः सुधर्मिष्ठाः प्रजा धर्मपरायणाः । KK03-11-196-007c
मुदितश्च जनः सर्वः स्वधर्मेषु व्यवस्थितः ॥ KK03-11-196-007e
ताः प्रजा मुदिताः सर्वा दृष्ट्वा बलनिषूदनः । KK03-11-196-008a
ततस्तु मुदितो राजन्देवराजः शतक्रतुः ॥ KK03-11-196-008c
ऐरावतं समास्थाय अपश्यन्मुदिताः प्रजाः । KK03-11-196-009a
आश्रमांश्च विचित्रांश्च नदीश्च विविधाः शुभाः ॥ KK03-11-196-009c
नगराणि समृद्धानि घेटाञ्जनपदांस्तथा । KK03-11-196-010a
प्रजापालनदक्षांश्च नरेन्द्रान्धर्मचारिणः ॥ KK03-11-196-010c
उदपानं प्रपा वापी तटाकानि सरांसि च । KK03-11-196-011a
नानाब्रह्मसमाचारैः सेवितानि द्विजोत्तमैः ॥ KK03-11-196-011c
ततोऽवतीर्य रम्यायां पृथ्व्यां राजञ्छतक्रतुः । KK03-11-196-012a
तत्र रम्ये शिवे देशे बहुवृक्षसमाकुले ॥ KK03-11-196-012c
पूर्वस्यां दिशि रम्यायां समुद्राभ्याशतो नृप । KK03-11-196-013a
तत्राश्रमपदं रम्यं मृगद्विजनिषेवितम् । KK03-11-196-013c
तत्राश्रमपदे रम्ये बकं पश्यति देवराट् ॥ KK03-11-196-013e
बकस्तु दृष्ट्वा देवेन्द्रं दृढं प्रीतमनाऽभवत् । KK03-11-196-014a
पाद्यासनार्थदानेन फलमूलैरथार्चयत् ॥ KK03-11-196-014c
सुखोपविष्टो वरदस्ततस्तु बलसूदनः । KK03-11-196-015a
ततः प्रश्नं बकं देवं उवाच त्रिदशेश्वरः ॥ KK03-11-196-015c
शतं वर्षसहस्राणि मुने जातस्य तेऽनघ । KK03-11-196-016a
समाख्याहि मम ब्रह्मन्किं दुःखं चिरजीविनाम् ॥ KK03-11-196-016c
बक उवाच KK03-11-196-017
अप्रियैः सह संवासः प्रियैश्चापि विनाभवः । KK03-11-196-017a
असद्भिः सम्प्रयोगश्च तद्दुःखं चिरजीविनाम् ॥ KK03-11-196-017c
पुत्रदारविनाशोऽत्र ज्ञातीनां सुहृदामपि । KK03-11-196-018a
परेष्वायत्तता कृच्छ्रं किन्नु दुःखतरं ततः ॥ KK03-11-196-018c
नान्यद्दुःखतरं किञ्चिल्लोकेषु प्रतिभाति मे । KK03-11-196-019a
अर्थैर्विहीनः पुरुषः एरैः सम्परिभूयते ॥ KK03-11-196-019c
अकुलानां कुले भावं कुलीनानां कुलक्षयम् । KK03-11-196-020a
संयोगं विप्रयोगं च पश्यन्ति चिरजीविनः ॥ KK03-11-196-020c
अपि प्रत्यक्षमेवैतत्तव देव शतक्रतो । KK03-11-196-021a
अकुलानां समृद्धानां कथं कुलविपर्ययः ॥ KK03-11-196-021c
देवदानवगन्धर्वमनुष्योरगराक्षसाः । KK03-11-196-022a
प्राप्नुवन्ति विपर्यासं किन्नु दुःखतरं ततः ॥ KK03-11-196-022c
कुले जाताश्च क्लिश्यन्ते दौष्कुलेयवशानुगाः । KK03-11-196-023a
आढ्यैर्दरिद्राऽवमताः किन्नु दुःखतरं ततः ॥ KK03-11-196-023c
लोके वैधर्म्यमेतत्तु दृश्ते बहुविस्तरम् । KK03-11-196-024a
हीनज्ञानाश्च हृष्यन्ते क्लिश्यन्ते प्राज्ञकोविदाः । KK03-11-196-024c
बहुदुःखपरिक्लेशं मानुष्यमिह दृश्यते ॥ KK03-11-196-024e
इन्द्र उवाच KK03-11-196-025
पुनरेव महाभाग देवर्षिगणसेवित । KK03-11-196-025a
समाख्याहि मम ब्रह्मन्किं सुखं चिरजीविनाम् ॥ KK03-11-196-025c
बक उवाच KK03-11-196-026
अष्टमे द्वादशे वाऽपि शाकं यः पचते गृहे । KK03-11-196-026a
कुमित्राण्यनपाश्रित्य किं वै सुखतरं ततः ॥ KK03-11-196-026c
यत्राहानि न गण्यन्ते नैनमाहुर्महाशनम् । KK03-11-196-027a
अपि शाकं पचानस्य सुखं वै मघवन्गृहे ॥ KK03-11-196-027c
आर्जितं स्वेन वीर्येण नाप्यपाश्रित्य कञ्चन । KK03-11-196-028a
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥ KK03-11-196-028c
परस्य तु गृहे भोक्तुः परिभूतस्य नित्यशः । KK03-11-196-029a
सुमृष्टमपि न श्रेयो विकल्पोऽयमतः सताम् ॥ KK03-11-196-029c
श्ववद्धि लोलुपो यस्तु परान्नं भोक्तुमिच्छति । KK03-11-196-030a
धिगस्तु तस्य तद्भुक्तं कृपणस्य दुरात्मनः ॥ KK03-11-196-030c
यो दत्त्वाऽतिथिभृत्येभ्यः पितृभ्यश्च द्विजोत्तमः । KK03-11-196-031a
शिष्टान्यन्नानि यो भुङ्क्ते किं वै सुखतरं ततः ॥ KK03-11-196-031c
अतो मृष्टतरं नान्यत्पूतं किञ्चित्च्छतक्रतो । KK03-11-196-032a
दत्त्वा यस्त्वतिथिभ्योऽन्नं भुङ्क्ते तेनैव नित्यशः ॥ KK03-11-196-032c
यावतो ह्यन्धसः पिण्डानश्नाति सततं द्विजः । KK03-11-196-033a
तावतां गोसहस्राणां फलं प्राप्नोति दायकः । KK03-11-196-033c
यदेनो यौवनकृतं तत्सर्वं नश्यते ध्रुवम् ॥ KK03-11-196-03e
सदक्षिणस्य भुक्तस्य द्विजस्य तु करे गतम् । KK03-11-196-034a
यद्वारि वारिणा सिञ्चेत्तद्ध्येनस्तरते क्षणात् ॥ KK03-11-196-034c
एताश्चान्याश्च वै बह्वीः कथयित्वा कथाः शुभाः । KK03-11-196-035a
बकेन सह देवेन्द्र आपृच्छ्य त्रिदिवं गतः ॥ KK03-11-196-035c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

3-196-1 ऋषिर्बकः किल भवतो दीर्घायुरासीच्चेति ध. पाठः ॥ 3-196-12 यज्ञोत्सववतीं रम्यां पृथ्वीं राजञ्शतक्रतुरिति ध. पाठः ॥ 3-196-21 आकुलानां समृद्धानां कथं कालविपर्ययः इति ध. पाठः ॥ 3-196-34 द्विजस्य तु करे हुतमिति ध. पाठः ॥