अध्यायः 195
मार्कण्डेयेन युधिष्ठिरम् प्रति ब्राह्मणमाहात्म्यप्रतिपादकमण्डूकोपाख्यानकथनारम्भः ॥ 1 ॥ इक्ष्वाकुवंशजेन परीक्षिन्नामकेन राज्ञा मृगयार्थं वनं प्रविष्टेन उदकादर्शनरूपसमयकरणेन मण्डूककन्यायाः परिणयः ॥ 2 ॥ राज्ञा समयातिलङ्घने तथा जले निमज्जनम् ॥ 3 ॥ तदन्वेषणाय राज्ञा मण्डूकहनने तापसरूपिणा मण्डूकराजेन तन्निवारणेन तस्याः स्वपुत्रीत्वकथनादिपूर्वकम् पुनस्तस्मै तस्याः प्रदानम् ॥ 4 ॥ मार्कण्डेयेन मण्डूकपुत्र्याः पुत्रयोः शलदलयोर्वृत्तकथनपूर्वकं वामदेवमुनिमाहात्म्यकथनम् ॥ 5 ॥
वैशम्पायन उवाच KK03-11-195-001
भूय एव ब्राह्मणमाहात्म्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् ॥ KK03-11-195-001AB
अथाचष्ट मार्कण्डेयोऽपूर्वमिदं श्रूयतां ब्राह्मणानां चरितम् ॥ KK03-11-195-002AB
अयोध्यायामिक्ष्वाकुकुलोद्वहः पार्थिवः परीक्षिन्नाम मृगयामगमत् ॥ KK03-11-195-003AB
स एकोऽश्वेन मृगमन्वसरत् मृगो दूरमपाहरत् ॥ KK03-11-195-004AB
अध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्चैकस्मिन्देशे नीलं गहनं वनषण्डमपश्यत् ॥ KK03-11-195-005AB
तस्याविशेषतो वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत ॥ KK03-11-195-006AB
अथाश्वस्तः स बिसमृणालमश्वायाग्रतो निक्षिप्य पुष्करिणीतीरे संविवेश ततः शयानो मधुरं गीतमशृणोत् ॥ KK03-11-195-007AB
स श्रुत्वाऽचिन्तयन्नेह मनुष्यगतिं पश्यामि कस्य खल्वयं गीतशब्द इति ॥ KK03-11-195-008AB
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च अथ सा राज्ञः समीपे पर्यक्रामत् ॥ KK03-11-195-009AB
तामब्रवीद्राजा कस्यासि भद्रे का वा त्वमिति सा प्रत्युवाच कन्याऽस्मीति तां राजोवाचार्थी त्वयाऽहमिति ॥ KK03-11-195-010AB
अथोवाच कन्या समयेनाहं शक्या त्वया लब्धुं नान्यथेति राजा तां समयमपृच्छत् मण्डूकराजस्य कः समय इति ततः कन्येदमुवाच नोदकं मे दर्शयितव्यमिति ॥ KK03-11-195-011AB
स राजा तां बाढमित्युक्त्वा तां समागम्य तया सह तत्र तस्थौ ॥ KK03-11-195-012AB
ततस्तत्रैवासीने राजनि सा सेनाऽन्वगच्छत् ॥ KK03-11-195-013AB
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत अथ पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविषादः स्वनगरमनुप्राप्य रहसि तया रममाणो न कांश्चिदपश्यत् ॥ KK03-11-195-014AB
अथ प्रधानामात्योऽभ्याशचरास्तस्य स्त्रियोऽपृच्छत् ॥ KK03-11-195-015AB
किमत्र प्रयोजनं वर्तते इत्यथाब्रुवंस्ताः स्त्रियः ॥ KK03-11-195-016AB
अपूर्वमिव पश्याम उदकं नात्र नीयत इत्यथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुपुष्पफलमूलं तस्य मध्ये मुक्ताजालमयीं पार्श्वे वापीं गूढां सुधोपलिप्तां स रहस्युपगम्य राजानमब्रवीत् ॥ KK03-11-195-017AB
वनमिदमुदारमनुदकं साध्वत्र सहैतया गम्यतामिति ॥ KK03-11-195-018AB
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत्स कदाचित्तस्मिन्कानने रम्ये तयैव स व्यवाहरदथक्षुत्तृष्णार्दितः श्रान्तोऽतिमुक्तागारमपश्यत् ॥ KK03-11-195-019AB
तत्प्रविश्य राजा सह प्रियया सुसंस्कृतां विमलां सलिलपूर्णां वापीमपश्यत् ॥ KK03-11-195-020AB
दृष्ट्वैव च तां तस्याश्च तीरे सहैव तया देव्याऽवातिष्ठत् ॥ KK03-11-195-021AB
अथ तां देवीं स राजाऽब्रवीत्साध्ववतर वापीसलिलमिति सा तद्वचः श्रुत्वाऽवतीर्य वापीं न्यमज्जन्न पुनरुदकादुदमज्जत् ॥ KK03-11-195-022AB
तां स मृगयमाणो राजा नापश्यद्वापीमथ निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास स राजा ॥ KK03-11-195-023AB
सर्वमण्डूकवधः क्रियतामिति यो मयाऽर्थी स मां मृतमण्डूकोपायनमादायोपतिष्ठेदिति ॥ KK03-11-195-024AB
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविवेश ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् ॥ KK03-11-195-025AB
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छदुपेत्य चैनमुवाच ॥ KK03-11-195-026AB
मा राजन्क्रोधवशं गमः प्रसादं कुरु नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति श्लोकौ चात्र भवतः ॥ KK03-11-195-027AB
मा मण्डूकाञ्जिघांसीस्त्वं कोपं सन्धारयाच्युत । KK03-11-195-028a
प्रक्षिपन्ति वधाद्भेका जनानां परिजानताम् ॥ KK03-11-195-028c
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे । KK03-11-195-029a
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते ॥ KK03-11-195-029c
तमेवंवादिनमिष्टजनवियोगशोकपरीतात्मा राजाऽथोवाच ॥ KK03-11-195-030AB
न हि क्षम्यते तन्मया हनिष्याम्येतानेतैर्दुरात्मभिः प्रिया मे भक्षिता सर्वथैव मे वध्या मण्डूका नार्हसि विद्वन्मामुपरोद्धुमिति ॥ KK03-11-195-031AB
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच प्रसीद राजन्नहमायुर्नाम मण्डूकराजो मम सा दुहिता सुशोभना नाम तस्या हि दौःशील्यमेतद्बहवस्तया राजानो विप्रलब्धपूर्वा इति ॥ KK03-11-195-032AB
तमब्रवीद्राजा या सा तव दुहिता तया समर्थी सा मे दीयतामिति ॥ KK03-11-195-033AB
अथैनां राज्ञे पिताऽदादब्रवीच्चैनामेनं राजानं शुश्रूषस्वेति ॥ KK03-11-195-034AB
स एवमुक्त्वा दुहितरं क्रुद्धः शशाप यस्मात्त्वया राजानो विप्रलब्धा बहवस्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यानृतिकत्वात्तवेति ॥ KK03-11-195-035AB
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पसन्दिग्धया वाचा प्रणिपत्याभिपूज्य मण्डूकराजमब्रवीदनुगृहीतोस्मीति ॥ KK03-11-195-036AB
स च मण्डूकराजो दुहितरमनुज्ञाप्य यथागतमगच्छत् ॥ KK03-11-195-037AB
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम ॥ KK03-11-195-038AB
अथ कदाचिच्छलो मृगयामनुचरन्मृगमासाद्य रथेनान्वधावत् ॥ KK03-11-195-039AB
सूतं चोवाच शीघ्रं मां वाहयस्वेति स तथोक्तः सूतो राजानमब्रवीत् ॥ KK03-11-195-040AB
न क्रियतामनुबन्धो नैष शक्यस्त्वया मृगोऽयं ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति ततोऽब्रवीद्राजा सूतमाचक्ष्व मे वाम्यौ वाजिनौ त्वा पृच्छामीति ॥ KK03-11-195-041A
स एवमुक्तो राजभयभीतः सूतो वामदेवशापभयभीतश्चास्योपाचख्यौ ॥ KK03-11-195-041B
वामदेवस्याश्वौ वाम्यौ मनोजवाविति ॥ KK03-11-195-041C
अथैनमेवं ब्रुवाणमब्रवीद्राजा वामदेवाश्रमं प्रयाहीति स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् ॥ KK03-11-195-042AB
भगवन्मृगो मे विद्धः पलायते सम्भावयितुमर्हसि वाम्यौ दातुमिति तमब्रवीदृषिर्ददानि ते वाम्यौ कृतकार्येण भवता ममैव वाम्यौ निर्यातयितव्यौ क्षिप्रमिति स च तावश्वौ प्रतिगृह्यानुज्ञाप्य ऋषिं प्रायाद्वाजियुक्तेन रथेन मृगं प्रति गच्छंश्चाब्रवीत्सूतमश्वरत्नद्वयमावयोर्योग्यं नैतौ प्रतिदेयौ वामदेवायेत्युक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् ॥ KK03-11-195-043AB
अथर्षिश्चिन्तयामास तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते न मे वाम्यौ प्रतिनिर्यातयत्यहो कष्टमिति ॥ KK03-11-195-044AB
स मनसा विचिन्त्य मासि पूर्णे शिष्यमब्रवीत् ॥ KK03-11-195-045AB
गच्छात्रेय राजानं ब्रूहि यदि पर्याप्तं निर्यातयोगाध्यायवाम्याविति स गत्वैवं तं राजानमब्रवीत्तं राजा प्रत्युवाच राज्ञामेतद्वाहनमनर्हा ब्राह्मणा रत्नानामेवंविधानां न किञ्चित् ब्राह्मणानामश्वैः कार्यं साधु गम्यतामिति ॥ KK03-11-195-046AB
स गत्वैतदुपाध्यायायाचष्ट तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमचोदयन्न चाददद्राजा ॥ KK03-11-195-047AB
वामदेव उवाच KK03-11-195-048
प्रपच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमाभ्यामशक्यम् । KK03-11-195-048a
मा त्वा वधीद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानः ॥ KK03-11-195-048c
राजोवाच KK03-11-195-049
अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव । KK03-11-195-049a
ताभ्यां याहि त्वं यत्र कामो महर्षे च्छन्दांसि वै त्वादृशं संवहन्ति ॥ KK03-11-195-049c
वामदवे उवाच KK03-11-195-050
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति । KK03-11-195-050a
अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन् ॥ KK03-11-195-050c
राजोवाच KK03-11-195-051
चत्वारस्त्वां वा गर्दभाः संवहन्तु श्रेष्ठाश्वतर्यो हरयो वातरंहाः । KK03-11-195-051a
तैस्त्वं याहि रक्षत्रियस्यैष वाहो ममैव वाम्यौ न तवैतौ हि विद्धि ॥ KK03-11-195-051c
वामदेव उवाच KK03-11-195-052
घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन्यदिहाजीवमानः । KK03-11-195-052a
अयस्मया घोररूपा महान्तश्चत्वारो वा यातुधानाः सुरौद्राः । KK03-11-195-052c
मया प्रयुक्तास्त्वद्वधमीप्समाना वहन्तु त्वां शितशूलाश्चतुर्धा ॥ KK03-11-195-052e
राजोवाच KK03-11-195-053
ये त्वां विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा । KK03-11-195-053a
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः ॥ KK03-11-195-053c
[वामदेव उवाच KK03-11-195-054
ममैतौ वाम्यौ प्रतिगृह्य राजन् पुनर्ददानीति प्रपद्य मे त्वम् । KK03-11-195-054a
प्रयच्छ शीघ्रं मम वाम्यौ त्वमश्वौ यद्यात्मानं जीवितुं ते क्षमं स्यात् ॥ KK03-11-195-054c
राजोवाच KK03-11-195-055
न ब्राह्मणेभ्यो मृगया प्रसूता न त्वाऽनुशास्म्यद्यप्रभृति ह्यसत्यम् । KK03-11-195-055a
तवैवाज्ञां सम्प्रणिधाय सर्वां तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥] KK03-11-195-055c
वामदेव उवाच KK03-11-195-056
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा । KK03-11-195-056a
यस्त्वेवं ब्रह्म तपसाऽन्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः ॥ KK03-11-195-056c
मार्कण्डेय उवाच KK03-11-195-058
एवमुक्ते वामदेवेन राजन् समुत्तस्थू राक्षसा घोररूपाः । KK03-11-195-057a
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् ॥ KK03-11-195-057c
इक्ष्वाकवो वा यदि मां त्यजेयुर्ये ते विधेया भुवि चान्ये महीपाः । KK03-11-195-058a
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति ॥ KK03-11-195-058c
एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाशु महीं क्षितीशः । KK03-11-195-059a
ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन् ॥ KK03-11-195-059c
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः । KK03-11-195-060a
दलं राजानं ब्राह्मणानां हि देयमेवं राजन्सर्वधर्मेषु दृष्टम् ॥ KK03-11-195-060c
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ । KK03-11-195-061a
एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात् ॥ KK03-11-195-061c
एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहरसङ्गृहीतम् । KK03-11-195-062a
येन विद्धो वामदेवः शयीत सन्दश्यमानः श्वभिरार्तरूपः ॥ KK03-11-195-062c
वामदेव उवाच KK03-11-195-063
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र । KK03-11-195-063a
एतं जहि त्वं मद्वचनात्प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः ॥ KK03-11-195-063c
मार्कण्डेय उवाच KK03-11-195-064
एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान । KK03-11-195-064a
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तत्र वाक्यं बभाषे ॥ KK03-11-195-064c
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य । KK03-11-195-065a
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः ॥ KK03-11-195-065c
वामदेव उवाच KK03-11-195-066
यत्त्वमेनं सायकं घोररूपं विषेण दिग्धं मम सन्दधासि । KK03-11-195-066a
न त्वेतं त्वं शरवर्षं विमोक्तुं सन्धातुं वा शक्ष्यसे मानवेन्द्र ॥ KK03-11-195-066c
राजोवाच KK03-11-195-067
इक्ष्वाकवः पश्त मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् । KK03-11-195-067a
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः ॥ KK03-11-195-067c
वामदेव उवाच KK03-11-195-068
संस्पृश्यैनां महीषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् । KK03-11-195-068a
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे ॥ KK03-11-195-068c
यथा युक्ता वामदेवाहमेनं दिनेदिने सन्दिशन्ती नृशंसम् । KK03-11-195-069a
ब्राह्मणेभ्यो मृगयती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् ॥ KK03-11-195-069c
वामदेव उवाच KK03-11-195-070
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते । KK03-11-195-070a
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये ॥ KK03-11-195-070c
राजपुत्र्युवाच KK03-11-195-071
वरं वृणे भगवंस्त्वेवमेष विमुच्यतां किल्विषादद्य भर्ता । KK03-11-195-071a
शिवेन जीवामि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य ॥ KK03-11-195-071c
मार्कण्डेय उवाच KK03-11-195-072
श्रुत्वा वच सः मुनी राजपुत्र्यास्तथाऽस्त्विति प्राह कुरुप्रवीर । KK03-11-195-072a
ततः स राजा मुदितो बभूव वाम्यौ चास्मै प्रददौ सम्प्रणम्य ॥ KK03-11-195-072c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चनवत्यधिकशततमोऽध्यायः ॥ 195 ॥
3-195-7 आश्वस्त इति छेदः ॥ 3-195-16 प्रयोजनं कर्तव्यम् ॥ 3-195-19 अतिमुक्तागारं वासन्तीगृहम् ॥ 3-195-28 प्रक्षीयते धनोद्रेको जनानामविजानताम् इति झ. पाठः । धनोद्रेकः श्रीतपसोरुत्कर्षः ॥ 3-195-29 प्रतिजानीहि निश्चयं कुरु । प्राप्य प्रापय्य मृत्युम् । क्रोधं स्त्रीशोकजम् । अलं कृत्वा मा करु ॥ 3-195-35 ब्रह्मण्यं ब्राह्मणहितं तेन रहितानि अब्रह्मण्यानि ॥ 3-195-41 वाम्यौ वामदेवीयौ रथे युक्तौ अश्वौ अश्वतरौ ॥ 3-195-44 पत्रं वाहनम् ॥ 3-195-48 अन्तरे भेदे ॥ 3-195-51 वाहो वाहनम् ॥ 3-195-52 यदेतत् ब्राह्मणस्य स्वम् आजीवमान उपजीवमानोसि एतदिह घोरमनिष्टपाकं व्रतं कर्म आहुरित्यन्वयः । वहन्तु चतुर्दिक्षु प्रापयन्तु चतुर्धाकृत्वेति शेषः ॥ 3-195-53 त्वां मां हन्तुमुद्युक्तं ते मदीयास्त्वामेव पातयन्त्वित्यर्थः ॥ 3-195-55 असत्यं मिथ्यावादिनमपि त्वा त्वां नानुशास्मि न दण्डयामि । अद्यप्रभृति तवाज्ञामिति सम्बन्धः । तवापराधान् क्षमिष्ये आज्ञया च वर्तिष्ये इति वरद्वयं ज्ञेयम् ॥ 3-195-56 अनुयोगः शासनम् । अदण्ड्या ब्राह्मणा इत्यर्थः । ब्रह्म ब्राह्मणजातिम् । यो ब्राह्मणसेवी स जीवत्यन्यो नश्यतीत्यर्थः । वरद्वयमपि निरर्थकमिति भावः ॥ 3-195-58 ब्रह्मन्दलो वा विधेया मे यदि चेमे विशोपि इति झ. पाठः । दलः कनिष्ठो भ्राता । रविधेया आज्ञाकारिणः ॥ 3-195-59 निपातितं मृतम् ॥ 3-195-63 एतं जहि तव सायकस्त्वत्पुत्रमेव हिंसिष्यति नतु मामित्यर्थः ॥ 3-195-67 एवमुक्त्वा वामदेवेन स्तम्भितहस्तपादो राजोवाच इक्ष्वाकव इति ॥ 3-195-68 संस्पृश्य हत्वा । एनसो ब्रह्महत्याध्यवसायजात्पापात् ॥ 3-195-69 एनं नृशंसं भर्तारं दिनेदिने सूनृतानि कल्याणकराणि वाक्यानि सन्दिशन्तीति सम्बन्धः । ब्रह्मणेभ्यो मृगयती ब्राह्मणान् सेवितुमिच्छन्ती ॥