अध्यायः 194
मार्कण्डेयेन युधिष्ठिरम् प्रति कृतयुगवृत्तान्तकथनपूर्वकम् धर्माचरणचोदना ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-194-001
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् । KK03-11-194-001a
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ॥ KK03-11-194-001c
स्थापयित्वा च मर्यादाः स्वयम्भुविहिताः शुभाः । KK03-11-194-002a
पुनः पुण्ययशःकर्म जरया संश्रयिष्यति ॥ KK03-11-194-002c
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः । KK03-11-194-003a
विप्रैश्चोरक्षये चैव कृते क्षेमं भविष्यति ॥ KK03-11-194-003c
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च । KK03-11-194-004a
स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च ॥ KK03-11-194-004c
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् । KK03-11-194-005a
कल्की चरिष्यति महीं सदा दस्युवधे रतः ॥ KK03-11-194-005c
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः । KK03-11-194-006a
विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् ॥ KK03-11-194-006c
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत । KK03-11-194-007a
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा ॥ KK03-11-194-007c
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा । KK03-11-194-008a
पुष्करिण्यश्च विविधा देवतायतनानि च ॥ KK03-11-194-008c
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे । KK03-11-194-009a
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ॥ KK03-11-194-009c
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा । KK03-11-194-010a
जायन्ति सर्वभूतानि शुध्यमानानि चैव हि ॥ KK03-11-194-010c
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति । KK03-11-194-011a
नरा दानेषु निरता व्रतेषु नियमेषु च ॥ KK03-11-194-011c
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः । KK03-11-194-012a
पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् ॥ KK03-11-194-012c
व्यवहाररता वैश्या भविष्यन्ति कृते युगे । KK03-11-194-013a
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ॥ KK03-11-194-013c
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च । KK03-11-194-014a
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ॥ KK03-11-194-014c
पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः । KK03-11-194-015a
सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव ॥ KK03-11-194-015c
एतत्ते सर्वमाख्यातमतीतानागतं मया । KK03-11-194-016a
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् ॥ KK03-11-194-016c
एवं संसारमार्गा मे बहुशश्चिरजीविनः । KK03-11-194-017a
दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि ॥ KK03-11-194-017c
इदं चैवापरं भूयः सह भ्रातृभिरच्युत । KK03-11-194-018a
धर्मसंशयमोक्षार्थं निबोध वचनं मम ॥ KK03-11-194-018c
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतांवर । KK03-11-194-019a
धर्मात्मा हि सुखं राजन्प्रेत्य चेह च नन्दति ॥ KK03-11-194-019c
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन । KK03-11-194-020a
ब्राह्मणः कुपितो हन्यादपि लोकान्प्रतिज्ञया ॥ KK03-11-194-020c
वैशम्पायन उवाच KK03-11-194-021
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः । KK03-11-194-021a
उवाच वचनं धीमान्परमं परमद्युतिः ॥ KK03-11-194-021c
'एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम । KK03-11-194-022a
कथं चायं जितो लोको रक्षितव्यो भविष्यति' ॥ KK03-11-194-022c
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने । KK03-11-194-023a
कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः ॥ KK03-11-194-023c
मार्कण्डेय उवाच KK03-11-194-024
दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः । KK03-11-194-024a
अपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः ॥ KK03-11-194-024c
चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर । KK03-11-194-025a
प्रमादाद्यत्कृतं तेऽभूत्सम्यग्ज्ञानेन तज्जय ॥ KK03-11-194-025c
अलं ते मानमाश्रित्य सततं प्रियवाग्भव । KK03-11-194-026a
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ॥ KK03-11-194-026c
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः । KK03-11-194-027a
न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि ॥ KK03-11-194-027c
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः । KK03-11-194-028a
प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः ॥ KK03-11-194-028c
एष कालो महाबाहो अपि सर्वदिवौकसाम् । KK03-11-194-029a
मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः ॥ KK03-11-194-029c
मा च तेऽत्र विशङ्का भूद्यन्मयोक्तं तवानघ । KK03-11-194-030a
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ॥ KK03-11-194-030c
जातोसि प्रथिते वंशे कुरूणां भरतर्षभ । KK03-11-194-031a
कर्मणा मनसा वाचा सर्वमेतत्समाचर ॥ KK03-11-194-031c
युधिष्ठिर उवाच KK03-11-194-032
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् । KK03-11-194-032a
तथा करिष्ये यत्नेन भवतः शासनं विभो ॥ KK03-11-194-032c
न मे लोभोस्ति विप्रेन्द्र न भयं न च मत्सरः । KK03-11-194-033a
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ॥ KK03-11-194-033c
वैशम्पायन उवाच KK03-11-194-034
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः । KK03-11-194-034a
संहृष्टः पाण्डवा राजन्सहिता शार्ङ्गधन्वना ॥ KK03-11-194-034c
विप्रर्षभाश्च ते सर्वे ये तत्रासन्समागताः । KK03-11-194-035a
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः । KK03-11-194-035c
विस्मिता समपद्यन्त पुराणस्य निवेदनात् ॥ KK03-11-194-035e
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ॥ 194 ॥
3-194-1 कल्पयिष्यति दास्यति ॥ 3-194-2 वनं पुण्ययशः कर्मारमणीयं प्रवेक्ष्यति. इति झ. पाठः ॥ 3-194-3 विप्रैर्हेतुभिः कृतेयुगे ॥ 3-194-4 कृष्णाजिनानि ब्रह्मचारिपरिधेयानि । तेन सर्वाणि ब्राह्मणकर्माणि लक्ष्यन्ते शक्तीरित्यादिना राजधर्माः । स्थापयान् ब्रह्मक्षत्रयोर्धर्मव्यवस्थाञ्चक्रे इतिभावः ॥ 3-194-10 प्रयन्ति सर्वबीजानि रोप्यमाणानि चैव हेति झ. पाठः । तत्र प्रयन्ति नश्यन्ति । बीजानि संस्काराः रोप्यमाणानि क्रियमाणैः कर्मभिर्दृढं सम्पाद्यमानान्यपि ज्ञानबलान्नश्यन्तीत्यर्थः ॥ 3-194-25 सम्यग्दानेन इति झ. पाठः ॥ 3-194-34 तस्य मार्कण्डेयस्य धीमत इति झ. पाठः ॥