अध्यायः 193

मार्कण्डेयेन युधिष्ठिरम् प्रति कलौ भविष्यल्लोकवृत्तान्तकथनम् ॥ 1 ॥ कलियुगान्ते कल्कित्वेनावतरिष्यता हरिणा दुष्टजनसंहारः ॥ 2 ॥

वैशम्पायन उवाच KK03-11-193-001
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् । KK03-11-193-001a
पुनः पप्रच्छ सामात्यो भविष्यां जगतो गतिम् ॥ KK03-11-193-001c
युधिष्ठिर उवाच KK03-11-193-002
आश्चर्यभूतं भवतः श्रुतं नो वदतांवर । KK03-11-193-002a
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ ॥ KK03-11-193-002c
अस्मिन्कलियुगे त्वस्ति पुनः कौतूहलं मम । KK03-11-193-003a
समाकुलेषु धर्मेषु किन्नु शेषं भविष्यति ॥ KK03-11-193-003c
किंवीर्या मानवास्तत्र किमाहारविहारिणः । KK03-11-193-004a
किमायुषः किंवसना भविष्यन्ति युगक्षये ॥ KK03-11-193-004c
कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् । KK03-11-193-005a
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे ॥ KK03-11-193-005c
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत । KK03-11-193-006a
रमयन्वृष्णिशार्दूलं पाण्डवांश्च महानृषिः ॥ KK03-11-193-006c
शृणु राजन्मया दृष्टं यत्पुरा श्रुतमेव च । KK03-11-193-007a
अनुभूतं च राजेन्द्र देवदेवप्रसादजम् ॥ KK03-11-193-007c
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ । KK03-11-193-008a
कलुषं कालमासाद्य कथ्यमानं निबोध मे ॥ KK03-11-193-008c
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः । KK03-11-193-009a
वृषः प्रतिष्ठितो धर्मो मनुष्ये भरतर्षभ ॥ KK03-11-193-009c
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः । KK03-11-193-010a
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते ॥ KK03-11-193-010c
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति । KK03-11-193-011a
तामसं युगमासाद्य तदा भरतसत्तम ॥ KK03-11-193-011c
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति । KK03-11-193-012a
आयुर्वीर्यं मनो बुद्धिर्बलं तेजश्च पाण्डव ॥ KK03-11-193-012c
मनुष्याणामनुयुगं ह्रसन्तीति निबोध मे । KK03-11-193-013a
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव युधिष्ठिर ॥ KK03-11-193-013c
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः । KK03-11-193-014a
सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः ॥ KK03-11-193-014c
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति । KK03-11-193-015a
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् ॥ KK03-11-193-015c
विद्याहीनानविज्ञानाल्लोभोप्यभिभविष्यति । KK03-11-193-016a
लोभमोहपरा मूढाः कामासक्ताश्च मानवाः ॥ KK03-11-193-016c
वैरबद्धा भविष्यन्ति परस्परवधैषिणः । KK03-11-193-017a
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्ते परस्परम् ॥ KK03-11-193-017c
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः । KK03-11-193-018a
अन्त्या मध्या भविष्यन्ति मध्याश्चान्त्या न संशयः ॥ KK03-11-193-018c
ईदृशो भविता लोको युगान्ते पर्युपस्थिते । KK03-11-193-019a
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः ॥ KK03-11-193-019c
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये । KK03-11-193-020a
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् ॥ KK03-11-193-020c
गोषु नष्टासु पुरुषा येऽपि नित्यं धृतव्रताः । KK03-11-193-021a
तेऽपि लोभसमायुक्ता भविष्यन्ति युगक्षये ॥ KK03-11-193-021c
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः । KK03-11-193-022a
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये ॥ KK03-11-193-022c
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः । KK03-11-193-023a
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये ॥ KK03-11-193-023c
श्राद्धे दैवे च पुरुषा येऽपि नित्यं धृतव्रताः । KK03-11-193-024a
तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् ॥ KK03-11-193-024c
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च । KK03-11-193-025a
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये ॥ KK03-11-193-025c
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः । KK03-11-193-026a
न यक्ष्यन्ति न होष्यन्ति हेतुवादविमोहिताः । KK03-11-193-026c
निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः ॥ KK03-11-193-026e
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः । KK03-11-193-027a
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः ॥ KK03-11-193-027c
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा । KK03-11-193-028a
'स्त्रियोऽपि पतिपुत्रादीन्वधिष्यन्ति युगक्षये' । KK03-11-193-028c
निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते ॥ KK03-11-193-028e
म्लेच्छभूतं जगत्सर्वं निष्क्रियं दानवर्जितम् । KK03-11-193-029a
भविष्यति निरानन्दमनुत्सवमथो तथा ॥ KK03-11-193-029c
प्रायशः कृपणानां हि तथा बन्धुमतामपि । KK03-11-193-030a
विधवानां च वित्तानि हरिष्यन्तीह मानवाः ॥ KK03-11-193-030c
स्वल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः । KK03-11-193-031a
तत्कथादानसन्तुष्टाः शिष्टानामपि बान्धवाः ॥ KK03-11-193-031c
परिग्रहं करिष्यति मायाचारपरिग्रहाः । KK03-11-193-032a
सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः ॥ KK03-11-193-032c
परस्परवधोयुक्ता मूर्खाः पण्डितमानिनः । KK03-11-193-033a
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः ॥ KK03-11-193-033c
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः । KK03-11-193-034a
केवलं दण्डरुचयो भविष्यन्ति युगक्षये ॥ KK03-11-193-034c
आक्रम्याक्रम्य साधूनां दारांश्चापि धनानि च । KK03-11-193-035a
भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत ॥ KK03-11-193-035c
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते । KK03-11-193-036a
स्वयङ्ग्रहा भविष्यन्ति युगान्ते समुपस्थिते ॥ KK03-11-193-036c
राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः । KK03-11-193-037a
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-037c
म्लेच्छीभूतं जगत्सर्वं भविष्यति न संशयः । KK03-11-193-038a
हस्तो हस्तं परिमुषेद्युगान्ते समुपस्थिते ॥ KK03-11-193-038c
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः । KK03-11-193-039a
स्थविरा बालमतयो बालाः स्थविरबुद्धयः ॥ KK03-11-193-039c
भीरुस्था शूरमानी शूरा भीरुविषादिनः । KK03-11-193-040a
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते ॥ KK03-11-193-040c
नैकभार्यं जगत्सर्वं लोभमोहव्यवस्थितम् । KK03-11-193-041a
अधर्मो वर्धते तत्र न तु धर्मः प्रवर्तते ॥ KK03-11-193-041c
ब्राह्मणाः क्षत्रिया वैश्या नशिष्यन्ति जनाधिप । KK03-11-193-042a
एकवर्णस्तदा लोको भविष्यति युगक्षये ॥ KK03-11-193-042c
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा । KK03-11-193-043a
भार्याश्च पतिशुश्रूषां न करिष्यन्ति सङ्क्षये ॥ KK03-11-193-043c
ये यवान्ना जनपदा गोधूमान्नास्तथैव च । KK03-11-193-044a
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-044c
स्वैराहाराश्च पुरुषा योषितश्च विशाम्पते । KK03-11-193-045a
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-045c
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर । KK03-11-193-046a
श्राद्धे न देवान्न पितॄंस्तर्पयिष्यन्ति मानवाः ॥ KK03-11-193-046c
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः । KK03-11-193-047a
तमोग्रस्तस्तदा लोको भविष्यति जनाधिप ॥ KK03-11-193-047c
परमायुश्च भविता तदा वर्षाणि षोडश । KK03-11-193-048a
ततः प्राणान्विमोक्ष्यन्ति युगान्ते समुपस्थिते ॥ KK03-11-193-048c
पञ्चमे वाऽथ षष्ठे वा वर्षे कन्या प्रसूयते । KK03-11-193-049a
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा ॥ KK03-11-193-049c
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति । KK03-11-193-050a
युगान्ते राजशार्दूल न तोषमुपयास्यति ॥ KK03-11-193-050c
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति । KK03-11-193-051a
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये ॥ KK03-11-193-051c
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । KK03-11-193-052a
केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये ॥ KK03-11-193-052c
म्लेच्छाचाराः सर्वमभक्षा दारुणा सर्वकर्मसु । KK03-11-193-053a
भाविनः पश्चिमे काले मनुष्या नात्र संशयः ॥ KK03-11-193-053c
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् । KK03-11-193-054a
युगान्ते भरतश्रेष्ठ वित्तलोभात्करिष्यति ॥ KK03-11-193-054c
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा । KK03-11-193-055a
आत्मच्छन्देन वर्तन्ते युगान्ते समुपस्थिते ॥ KK03-11-193-055c
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशंसिनः । KK03-11-193-056a
भवितारो जनाः सर्वे सम्प्राप्ते तु युगक्षये ॥ KK03-11-193-056c
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः । KK03-11-193-057a
भविता संशयो लोके जीवितस्य हि देहिनाम् ॥ KK03-11-193-057c
तथा लोभाभिभूताश्च भविष्यन्ति नरा नृप । KK03-11-193-058a
ब्राह्मणांश्च हनिष्यन्ति ब्राह्मणस्वोपभोगिनः ॥ KK03-11-193-058c
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः । KK03-11-193-059a
त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् ॥ KK03-11-193-059c
जीवितान्तकराः क्रूरा रौद्राः प्राणिविहिंसकाः । KK03-11-193-060a
यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् ॥ KK03-11-193-060c
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च । KK03-11-193-061a
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह ॥ KK03-11-193-061c
दस्युभिः पीडिता राजन्काका इव द्विजोत्तमाः । KK03-11-193-062a
कुराजभिश्च सततं करभारप्रपीडिताः ॥ KK03-11-193-062c
धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये । KK03-11-193-063a
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः ॥ KK03-11-193-063c
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः । KK03-11-193-064a
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः ॥ KK03-11-193-064c
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः । KK03-11-193-065a
एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः । KK03-11-193-065c
शूद्राश्च प्रभविष्यन्ति न द्विजा युगसङ्क्षये ॥ KK03-11-193-065e
आश्रमेषुमहर्षीणां ब्राह्मणावसथेषु च । KK03-11-193-066a
देवस्थानेषु चैत्येषु नागानामालयेषु च ॥ KK03-11-193-066c
एडूकचिह्ना पृथिवी न देवगृहभूषिता । KK03-11-193-067a
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् ॥ KK03-11-193-067c
दा रौद्रा धर्महीना मांसादाः पानपास्तथा । KK03-11-193-068a
भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् ॥ KK03-11-193-068c
पुष्पं पुष्पे यदा राजन्फले वा फलमाश्रितम् । KK03-11-193-069a
प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् ॥ KK03-11-193-069c
अकालवर्षी पर्जन्यो भविष्यति गते युगे । KK03-11-193-070a
अक्रमेण मनुष्याणां भविष्यन्ति तदा क्रियाः ॥ KK03-11-193-070c
विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह । KK03-11-193-071a
मही म्लेच्छजनाकीर्णा भविष्यति ततोऽचिरात् ॥ KK03-11-193-071c
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश । KK03-11-193-072a
'अन्यायवर्तिनश्चापि भविष्यन्ति नराधिपाः' ॥ KK03-11-193-072c
निर्विशेषा जनपदास्तथा विष्टिकरार्दिताः । KK03-11-193-073a
आश्रमानुपलप्स्यन्ति फलमूलोपजीविनः ॥ KK03-11-193-073c
एवं पर्याकुले लोके मर्यादा न भविष्यति । KK03-11-193-074a
'ब्राह्मणाः क्षत्रिया वैश्याः परित्यक्ष्यन्ति सत्क्रियाम्' KK03-11-193-074c
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः ॥ KK03-11-193-074e
आचार्योपनिधिश्चैव भर्त्स्यते तदनन्तरम् । KK03-11-193-075a
अर्थयुक्त्या प्रवात्स्यन्ति मित्रसम्बन्धिबान्धवाः ॥ KK03-11-193-075c
अभावः सर्वभूतानां युगान्ते सम्भविष्यति । KK03-11-193-076a
दिशः प्रज्वलिताः सर्वा नक्षत्राण्यप्रभाणि च ॥ KK03-11-193-076c
प्रधूपितानि ज्योतींषि वाताः पर्याकुलास्तथा । KK03-11-193-077a
उल्कापाताश्च बहवो महाभयनिदर्शकाः ॥ KK03-11-193-077c
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति । KK03-11-193-078a
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः । KK03-11-193-078c
कबन्धान्तर्हितो भानुरुदयास्तमने तदा ॥ KK03-11-193-078e
अकालवर्षी भगवान्भविष्यति सहस्रदृक् । KK03-11-193-079a
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-079c
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः । KK03-11-193-080a
भर्तॄणां वचने चैव न स्थास्यन्ति ततः स्त्रियः ॥ KK03-11-193-080c
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये । KK03-11-193-081a
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः ॥ KK03-11-193-081c
अपर्वणि महाराज सूर्यं राहुरुपैष्यति । KK03-11-193-082a
युगान्ते हुतभुक्वापि सर्वतः प्रज्वलिष्यति ॥ KK03-11-193-082c
पानीयं भोजनं चापि याचमानास्तदाऽध्वगाः । KK03-11-193-083a
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते ॥ KK03-11-193-083c
निर्घातवायसा नागाः शकुनाः समृगद्विजाः । KK03-11-193-084a
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-084c
मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा । KK03-11-193-085a
जनं परिजनं चापि युगान्ते पर्युपस्थिते ॥ KK03-11-193-085c
अथ देशान्दिशश्चापि पत्तनान्यापणानि च । KK03-11-193-086a
क्रमशः सल्ँलयिष्यन्ति युगान्ते पर्युपस्थिते ॥ KK03-11-193-086c
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः । KK03-11-193-087a
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति ॥ KK03-11-193-087c
'भोवादिनस्तथा शूद्रा ब्राह्मणाः प्राकृतप्रियाः । KK03-11-193-088a
पाषण्डजनसङ्कीर्णा भविष्यन्ति युगक्षये' ॥ KK03-11-193-088c
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये । KK03-11-193-089a
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति ॥ KK03-11-193-089c
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये । KK03-11-193-090a
भविष्यति पुनर्दैवमनुकूलं यदृच्छया ॥ KK03-11-193-090c
यदा सूर्यश्च चन्द्रश्च तथा तिष्यबृहस्पती । KK03-11-193-091a
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् ॥ KK03-11-193-091c
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च । KK03-11-193-092a
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः । KK03-11-193-092c
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् ॥ KK03-11-193-092e
कल्की विष्णुयशा नाम द्विजः कालप्रचोदितः । KK03-11-193-093a
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः ॥ KK03-11-193-093c
सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे । KK03-11-193-094a
'महात्मा वृत्तसम्पन्नः प्रजानां हितकृन्नृप' ॥ KK03-11-193-094c
मनसा तस्य सर्वाणि वाहनान्यायुधानि च । KK03-11-193-095a
उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च ॥ KK03-11-193-095c
स धर्मविजयी राजा चक्रवर्ती भविष्यति । KK03-11-193-096a
सचेमं सङ्कुलं लोकं प्रसादमुपनेष्यति ॥ KK03-11-193-096c
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः । KK03-11-193-097a
सङ्क्षेपको हि सर्वस्य युगस्य परिवर्तकः ॥ KK03-11-193-097c
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः । KK03-11-193-098a
उत्सादयिष्यति तदा सर्वम्लेच्छगणान्द्विजः ॥ KK03-11-193-098c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि त्रिनवत्यधिकशततमोऽध्यायः ॥

3-193-3 शेषं जगद्भविष्यति उत्कर्षं प्राप्स्यति ॥ 3-193-5 काष्ठाम् अवधिम् । कृतं कृतयुगम् ॥ 3-193-8 कलुषं कलिम् ॥ 3-193-9 निर्व्याजश्छद्महीनः । उपाधिवर्जितः लोभादिहीनः । वृषइव चतुष्पात् ॥ 3-193-10 अर्धेनाधर्मेण ॥ 3-193-14 धर्मवैतंसिकाः धर्मजालिकाः धर्मजालं विस्तार्य लोकान्वञ्चयन्तीत्यर्थः ॥ 3-193-18 अन्त्या इति । चाण्डालाः क्षत्रियादिकर्म क्षत्रियादयश्चाण्डालकर्म करिष्यन्तीत्यर्थः ॥ 3-193-19 शाणी शणसूत्रजा प्रवराशाटीति ख. पाठः ॥ 3-193-26 निम्नेषु हीनेषु कर्मसु ॥ 3-193-32 पापाचारपरिग्रहा इति ध. पाठः ॥ 3-193-37 परार्थान्परधनानि ॥ 3-193-38 हस्तो हस्तं परिमुषेद्धस्तवदेकोदरजोपि भ्राता भ्रातरं वञ्चयेदेव ॥ 3-193-41 एकाहार्यं युगं सर्वमिति झ. पाठः । एकहार्यं एकविधमेव मांसशाकादिकमाहारमर्हतीति तथा । भक्ष्याभक्ष्यविभागो नास्तीत्यर्थः ॥ 3-193-42 एकवर्णः वर्णविभागनाशनात् ॥ 3-193-43 न रक्षति पिता पुत्रमिति ध. पाठः ॥ 3-193-45 स्वैराचारश्चेति झ. पाठः ॥ 3-193-49 प्रजास्यन्ति प्रजाः जनयिष्यन्ति ॥ 3-193-55 ज्ञानानि ज्ञेयस्वरूपाणि ॥ 3-193-56 श्चान्योन्यमभिशङ्किता इति ध. पाठः ॥ 3-193-57 सङ्क्षयो लोक इजि ध. पाठः ॥ 3-193-59 वृषलार्दिताः शूद्रपीडिताः ॥ 3-193-60 सङ्क्षेप्स्यते नाशं गमिष्यति ॥ 3-193-62 काका इव सर्वतः शङ्किनः नीचवृत्त्युपजीविनो वा ॥ 3-193-65 एडूकान् अस्थ्यङ्कितनानि कुड्यानि । जालूकान्पूजयिष्यन्तीति क. ध. पाठः ॥ 3-193-73 निर्विशेषाः तुल्याचारवेषाः । विष्टिकराः भृतिमदत्त्वा कारयन्ति ते ॥ 3-193-75 आचार्योपि अपनिधिः निर्धनः भर्त्स्यते धिक्क्रियते । अर्थयुक्त्या धनयोगेन नतु स्नेहेन धर्मेण वा ॥ 3-193-78 कबन्धान्तर्हितः राह्वन्तर्हितः ॥ 3-193-91 यदेति । गुरुसूर्यचन्द्राः यदा युगपत्पुष्यनक्षत्रमेष्यन्ति तदा कृतयुगप्रवृत्तिरितित्यर्थः ॥ 3-193-94 सम्भूतः शम्बलग्नामे इति ध. पाठः ॥