अध्यायः 191

मार्कण्डेयेन युधिष्ठिरादीन्प्रति कृतादियुगचतुष्टयधर्मकथनपूर्वकम् प्रलयवर्णनम् ॥ 1 ॥ तथा प्रलयजले परिप्लवता मार्कण्डेयेन वटशाखाशायिनः शिशुरूपस्य हरेरुदरान्तःप्रविश्य ब्रह्माण्डदर्शनपूर्वकम् पुनर्बहिर्निर्गमनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-11-191-001
ततः स पुनरेवाथ मार्कण्डेयं तपस्विनम् । KK03-11-191-001a
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः ॥ KK03-11-191-001c
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने । KK03-11-191-002a
न चापीह समः कश्चिदायुष्मान्दृश्यते तव ॥ KK03-11-191-002c
वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम् । KK03-11-191-003a
न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥ KK03-11-191-003c
अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते । KK03-11-191-004a
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥ KK03-11-191-004c
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे । KK03-11-191-005a
त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥ KK03-11-191-005c
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना । KK03-11-191-006a
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः ॥ KK03-11-191-006c
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः । KK03-11-191-007a
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना ॥ KK03-11-191-007c
स्वप्रमाणमथो विप्र त्वया कृतमनेकशः । KK03-11-191-008a
घोरेणाविश्य तपसा वेधसो निर्जितास्त्वया ॥ KK03-11-191-008c
नारायणाङ्कप्रख्यस्त्वं साम्परायेऽतिपठ्यसे ॥ KK03-11-191-009ac
भगवाननेकशः कृत्वा त्वया विष्णोश्च विश्वकृत् । KK03-11-191-010a
कर्णिकोद्धरणं दिव्यं ब्रह्मणः कामरूपिणः । KK03-11-191-010c
रत्नालङ्कारयोगाभ्यां दृग्भ्यां दृष्टस्त्वया पुरा ॥ KK03-11-191-010e
तस्मात्तवान्तको मृत्युर्जरा वा देहनाशिनी । KK03-11-191-011a
न त्वां विशति विप्रर्षे प्रसादात्परमेष्ठिनः ॥ KK03-11-191-011c
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः । KK03-11-191-012a
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन ॥ KK03-11-191-012c
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे । KK03-11-191-013a
नष्टे देवासुरगणे समुत्सन्नमहोरगे ॥ KK03-11-191-013c
शयानममितात्मानं पद्मे पद्मनिकेतनम् । KK03-11-191-014a
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि ॥ KK03-11-191-014c
एतत्प्रत्यक्षतः सर्वं पूर्वं वृत्तं द्विजोत्तम । KK03-11-191-015a
तस्मादिच्छाम्यहं श्रोतुं सर्वां हेत्वात्मिकां कथाम् ॥ KK03-11-191-015c
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम । KK03-11-191-016a
न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा ॥ KK03-11-191-016c
मार्कण्डेय उवाच KK03-11-191-017
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे । KK03-11-191-017a
पुरुषाय पुराणाय शाश्वतायाव्ययाय च । KK03-11-191-017c
अव्यक्ताय सुसूक्ष्माय निर्गुणाय गुणात्मने ॥ KK03-11-191-017e
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः । KK03-11-191-018a
एष कर्ता विकर्ता च भूतात्मा भूतकृत्प्रभुः ॥ KK03-11-191-018c
अचिन्त्यं महदाश्चर्यं पवित्रमिति चोच्यते । KK03-11-191-019a
अनादिनिधनं भूतं विश्वमव्ययमक्षयम् ॥ KK03-11-191-019c
एष कर्ता न क्रियते कारणं चापि पौरुषे । KK03-11-191-020a
को ह्येनं परुषं वेत्ति देवा अपि न तं पौरषे ॥ KK03-11-191-020c
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम । KK03-11-191-021a
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये ॥ KK03-11-191-021c
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । KK03-11-191-022a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ KK03-11-191-022c
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते । KK03-11-191-023a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् ॥ KK03-11-191-023c
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः । KK03-11-191-024a
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च तथाविधः ॥ KK03-11-191-024c
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् । KK03-11-191-025a
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् ॥ KK03-11-191-025c
सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय । KK03-11-191-026a
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् ॥ KK03-11-191-026c
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता । KK03-11-191-027a
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ॥ KK03-11-191-027c
विश्वं हि ब्रह्मभवने सर्वतः परिवर्तते । KK03-11-191-028a
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥ KK03-11-191-028c
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ । KK03-11-191-029a
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः ॥ KK03-11-191-029c
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा । KK03-11-191-030a
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते ॥ KK03-11-191-030c
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः । KK03-11-191-031a
क्षत्रधर्मेण वाऽप्यत्र वर्तयन्ति युगक्षये ॥ KK03-11-191-031c
निवृत्तयज्ञस्वाध्याया दण्डाजिनविवर्जिताः । KK03-11-191-032a
ब्राह्मणा सर्वभक्षाश्च भविष्यन्ति कलौ युगे ॥ KK03-11-191-032c
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः । KK03-11-191-033a
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् ॥ KK03-11-191-033c
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप । KK03-11-191-034a
मृषानुशासिनः पापा मृषावादपरायणाः ॥ KK03-11-191-034c
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः । KK03-11-191-035a
काम्भोजा बाह्लिकाः शूरास्तथाऽऽभीरा नरोत्तम ॥ KK03-11-191-035c
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति । KK03-11-191-036a
क्षत्रियाश्चापि वैश्याश्च विकर्मस्था नराधिप ॥ KK03-11-191-036c
अल्पायुषः स्वल्पबलाः स्वल्पवीर्यपराक्रमाः । KK03-11-191-037a
अल्पसाराल्पदेहाश्च तथा सत्याल्पभाषिणः ॥ KK03-11-191-037c
बहुशून्या जनपदा मृगव्यालावृता दिशः । KK03-11-191-038a
युगान्ते समनुप्राप्ते वृथा च ब्रह्मवादिनः ॥ KK03-11-191-038c
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः । KK03-11-191-039a
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः ॥ KK03-11-191-039c
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशाम्पते । KK03-11-191-040a
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः ॥ KK03-11-191-040c
बहुप्रजा ह्रस्वदेहा शीलाचारविवर्जिताः । KK03-11-191-041a
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ KK03-11-191-041c
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । KK03-11-191-042a
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये ॥ KK03-11-191-042c
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप । KK03-11-191-043a
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः ॥ KK03-11-191-043c
ब्रह्मवध्यानुलिप्तानां तथा मिथ्याभिशंसिनाम् । KK03-11-191-044a
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः ॥ KK03-11-191-044c
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः । KK03-11-191-045a
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः ॥ KK03-11-191-045c
करभारभयाद्भीता गृहस्थाः परिमोषकाः । KK03-11-191-046a
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपभुञ्जते ॥ KK03-11-191-046c
मिथ्या च नखरोमाणि धारयन्ति तदा द्विजाः । KK03-11-191-047a
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः ॥ KK03-11-191-047c
आश्रमेषु वृथाचारः पानपा गुरुतल्पगाः । KK03-11-191-048a
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् ॥ KK03-11-191-048c
'पारलौकिककार्येषु प्रमत्ता भृशनास्तिकाः' । KK03-11-191-049a
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः । KK03-11-191-049c
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये ॥ KK03-11-191-049e
यथर्तुवर्षी भगवान्न तथा पाकशासनः । KK03-11-191-050a
न चापि सर्वबीजानि सम्यग्रोहन्ति भारत ॥ KK03-11-191-050c
फलं धर्मस्य राजेन्द्र सर्वत्र परिहीयते । KK03-11-191-051a
हिंसाभिरामश्च जनस्तथा सम्पद्यतेऽशुचिः । KK03-11-191-051c
अधर्मफलमत्यर्थं तदा भवति चानघ ॥ KK03-11-191-051e
तदा च पृथिवीपाल यो भवेद्धर्मसंयुतः । KK03-11-191-052a
अल्पायुः स हि मन्तव्यो न हि धर्मोस्ति कश्चन ॥ KK03-11-191-052c
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः । KK03-11-191-053a
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत ॥ KK03-11-191-053c
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः । KK03-11-191-054a
धर्मस्य बलहानिः स्यादधर्मश्च बलायते ॥ KK03-11-191-054c
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तथा । KK03-11-191-055a
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये ॥ KK03-11-191-055c
नगराणां विहारेषु विधर्माणो युगक्षये । KK03-11-191-056a
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत ॥ KK03-11-191-056c
सञ्चयेन तथाऽल्पेन भवन्त्याढ्यमदान्विताः । KK03-11-191-057a
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः ॥ KK03-11-191-057c
हर्तुं व्यवसिता राजन्पापाचारसमन्विताः । KK03-11-191-058a
नैतदस्तीति मनुजा वर्तन्ते निरपत्रपाः ॥ KK03-11-191-058c
पुरुषादानि सत्वानि पक्षिणोऽथ मृगास्तथा । KK03-11-191-059a
नगराणां विहारेषु चैत्येष्वपि च शेरते ॥ KK03-11-191-059c
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप । KK03-11-191-060a
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते ॥ KK03-11-191-060c
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा । KK03-11-191-061a
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते ॥ KK03-11-191-061c
क्षीणायुषो महाराज तरुणा वृद्धशीलिनः । KK03-11-191-062a
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते ॥ KK03-11-191-062c
विपरीतास्तदा नार्यो वञ्चयित्वाऽर्हतः पतीन् । KK03-11-191-063a
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च ॥ KK03-11-191-063c
वीरपत्न्यस्तथा नार्यः संश्रयन्ति नरान्नृप । KK03-11-191-064a
भर्तारमपि जीवन्तमन्यान्व्यभिचरन्त्युत ॥ KK03-11-191-064c
तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये । KK03-11-191-065a
अनावृष्टिर्महाराज जायते बहुवार्षिकी ॥ KK03-11-191-065c
ततस्तान्यल्पसाराणि सत्वानि क्षुधितानि वै । KK03-11-191-066a
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते ॥ KK03-11-191-066c
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप । KK03-11-191-067a
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च ॥ KK03-11-191-067c
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत । KK03-11-191-068a
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ ॥ KK03-11-191-068c
ततः संवर्तको वह्निर्वायुना सह भारत । KK03-11-191-069a
लोकमाविशते पूर्वमादित्यैरुपशोषितम् ॥ KK03-11-191-069c
ततः स पृथिवीं भित्त्वा प्रविश्य च रसातलम् । KK03-11-191-070a
देवदानवयक्षाणां भयं जनयते महत् ॥ KK03-11-191-070c
निरदहन्नागलोकं च यच्च किञ्चित्क्षिताविह । KK03-11-191-071a
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् ॥ KK03-11-191-071c
ततो योजनविंशानां सहस्राणि शतानि च । KK03-11-191-072a
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः ॥ KK03-11-191-072c
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् । KK03-11-191-073a
ततो दहति दीप्तः स सर्वमेव जगद्विभुः ॥ KK03-11-191-073c
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः । KK03-11-191-074a
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः ॥ KK03-11-191-074c
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । KK03-11-191-075a
केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः ॥ KK03-11-191-075c
केचिद्धारिद्रसङ्काशाः कारण्डवनिभास्तथा । KK03-11-191-076a
केचित्कमलपत्राभाः केचिद्धिङ्गुलसप्रभाः ॥ KK03-11-191-076c
केचित्पुरवराकाराः केचिद्गजकुलोपमाः । KK03-11-191-077a
केचिदञ्जनसङ्काशाः केचिन्मकरसन्निभाः ॥ KK03-11-191-077c
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः । KK03-11-191-078a
घोररूपा महाराज घोरस्वननिनादिताः ॥ KK03-11-191-078c
ततो जलधराः सर्वं व्याप्नुवनति नभस्तलम् । KK03-11-191-079a
'गर्जन्तः पृथिवीपाल पृथिवीधरसन्निभाः' ॥ KK03-11-191-079c
तैरियं पृथिवी सर्वा सपर्वतवनाकरा । KK03-11-191-080a
आपूर्यते महाराज सलिलौघपरिप्लुता ॥ KK03-11-191-080c
ततस्ते जलदा घोरा राविणः पुरुषर्षभ । KK03-11-191-081a
पर्वतान्प्लावयन्त्याशु चोदिताः परमेष्ठिना ॥ KK03-11-191-081c
वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् । KK03-11-191-082a
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् ॥ KK03-11-191-082c
ततो द्वादशवर्षाणि पयोदास्त उपप्लवे । KK03-11-191-083a
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना ॥ KK03-11-191-083c
ततः समुद्रः स्वां वेलामतिक्रामति भारत । KK03-11-191-084a
पर्वताश्च विदीर्यन्ते मही चापि विदीर्यते ॥ KK03-11-191-084c
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् । KK03-11-191-085a
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः ॥ KK03-11-191-085c
कततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप । KK03-11-191-086a
आदिः पद्मालयो देवः पीत्वा स्वपिति भारत ॥ KK03-11-191-086c
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । KK03-11-191-087a
नष्टे देवासुरगणे यक्षराक्षसवर्जिते ॥ KK03-11-191-087c
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे । KK03-11-191-088a
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमातुरः ॥ KK03-11-191-088c
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम । KK03-11-191-089a
अपश्यन्सर्वभूतानि वैक्लव्यमगमं ततः ॥ KK03-11-191-089c
ततः सुदीर्घं गत्वाऽहं प्लवमानो धराधिप । KK03-11-191-090a
श्रान्तः क्वचिन्न शरणं लब्धवानस्म्यतन्द्रितः ॥ KK03-11-191-090c
ततः कदाचित्पश्यामि तस्मिन्सलिलसन्निधौ । KK03-11-191-091a
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते ॥ KK03-11-191-091c
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप । KK03-11-191-092a
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते ॥ KK03-11-191-092c
उपविष्टं महाराज पद्मेन्दुसदृशाननम् । KK03-11-191-093a
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत ॥ KK03-11-191-093c
ततो मे पृथिवीपाल विस्मयः सुमहाभूत् । KK03-11-191-094a
कथं त्वयं शिशुः शेते लोके नाशमुपागते ॥ KK03-11-191-094c
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये । KK03-11-191-095a
भूतं भव्यं भविष्यं च जानन्नपि नराधिप ॥ KK03-11-191-095c
अतसीपुष्पवर्णाभिः श्रीवत्सकृतभूषणः । KK03-11-191-096a
साक्षाल्लक्ष्म्या इवावास स तदा प्रतिभाति मे ॥ KK03-11-191-096c
ततो मामब्रवीद्बालः स पद्मनिभलोचनः । KK03-11-191-097a
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् ॥ KK03-11-191-097c
जानामि त्वां परिश्रान्तं तात विश्रामकाङ्क्षिणम् । KK03-11-191-098a
मार्कण्डेय महासत्वं यावदिच्छसि भार्गव ॥ KK03-11-191-098c
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम । KK03-11-191-099a
आस्स्वेह विहितो वासः प्रसादस्ते कृतो मया ॥ KK03-11-191-099c
ततो बालेन तेनैव मुक्तस्यासीत्तदा मम । KK03-11-191-100a
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत ॥ KK03-11-191-100c
ततो बालेन तेनास्यं सहसा विवृतं कृतम् । KK03-11-191-101a
तस्याहमवशो वक्त्रे दैवयोगात्प्रवेशितः ॥ KK03-11-191-101c
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप । KK03-11-191-102a
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् ॥ KK03-11-191-102c
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् । KK03-11-191-103a
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् ॥ KK03-11-191-103c
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि । KK03-11-191-104a
वस्वोकसारां नलिनीं नर्मदां चैव भारत ॥ KK03-11-191-104c
नदीं ताम्रां च वेणां च पुण्यतोयां शुभावहाम् । KK03-11-191-105a
सुवेणां कृष्णवेणां च इरामां च महानदीम् ॥ KK03-11-191-105c
वितस्तां च महाराज कावेरीं च महानदीम् । KK03-11-191-106a
'तुङ्गभद्रां कृष्णवेणीं कमलां च महानदीम्' । KK03-11-191-106c
शोणं च पुरुषव्याघ्र विशल्यां किम्पुनामपि ॥ KK03-11-191-106e
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम । KK03-11-191-107a
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः ॥ KK03-11-191-107c
ततः समुद्रं पश्यामि यादोगणनिषेवितम् । KK03-11-191-108a
रत्नाकरममित्रघ्न पयसोनिधिमुत्तमम् ॥ KK03-11-191-108c
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् । KK03-11-191-109a
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभम् ॥ KK03-11-191-109c
पश्यामि च महीं राजन्काननैरुपशोभिताम् । KK03-11-191-110a
'सपर्वतवनद्वीपां निम्नगाशतसङ्कुलाम् ॥ KK03-11-191-110c
यजन्ते हि ततो राजन्ब्राह्मणा बहुभिर्मखैः । KK03-11-191-111a
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जनैः ॥ KK03-11-191-111c
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप । KK03-11-191-112a
शुश्रूषायां च निरता द्विजानां वृषलास्तथा ॥ KK03-11-191-112c
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः । KK03-11-191-113a
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् ॥ KK03-11-191-113c
निषधं चापि पश्यामि श्वेतं च रजतान्वितम् । KK03-11-191-114a
पश्यामि च महीपाल पर्वतं गन्धमादनम् ॥ KK03-11-191-114c
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् । KK03-11-191-115a
पश्यामि च महाराज मेरुं कनकपर्वतम् ॥ KK03-11-191-115c
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् । KK03-11-191-116a
मलयं चापि पश्यामि पारियात्रं च पर्वतम् ॥ KK03-11-191-116c
एते चान्ये च बहवो यावन्तः पृथिवीधराः । KK03-11-191-117a
तस्योदरे मया दृष्टाः सर्वे रत्नविभूषिताः ॥ KK03-11-191-117c
सिंहान्व्याघ्रान्वराहांश्च पश्यामि मनुजाधिप । KK03-11-191-118a
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते । KK03-11-191-118c
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा ॥ KK03-11-191-118e
कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः । KK03-11-191-119a
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणानहम् ॥ KK03-11-191-119c
साध्यान्रुद्रांस्तथाऽऽदित्यान्गुह्यकान्पितरस्तथा । KK03-11-191-120a
सर्पान्नागान्सुपर्णांश्च वसूनप्यश्विनावपि ॥ KK03-11-191-120c
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते । KK03-11-191-121a
दैत्यदानवसङ्घांश्च नागांश्च मनुजाधिप ॥ KK03-11-191-121c
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः । KK03-11-191-122a
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् ॥ KK03-11-191-122c
सर्वं पश्याम्यहं राजंस्तस्य कुक्षौ महात्मनः । KK03-11-191-123a
त्वरमाणः फलाहारः कृत्स्नं जगदिदं विभो ॥ KK03-11-191-123c
अन्तःशरीरे तस्याहं वर्षाणामधिकं शतम् । KK03-11-191-124a
न च पश्यामि यस्याहं देहस्यान्तं कदाचन ॥ KK03-11-191-124c
सततं धावमानश्च चिन्तयानो विशाम्पते । KK03-11-191-125a
'भ्रमंस्तत्र महीपाल यदा वर्षगणान्बहून्' । KK03-11-191-125c
आसादयामि नैवान्तं तस्य राजन्महात्मनः ॥ KK03-11-191-125e
ततस्तमेव शरणं गतोस्मि विधिवत्तदा । KK03-11-191-126a
वरेण्यं वरदं देवं मनसा कर्मणैव च ॥ KK03-11-191-126c
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः । KK03-11-191-127a
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम ॥ KK03-11-191-127c
ततस्तस्यैव शाखायां न्यग्रोधस्य विशाम्पते । KK03-11-191-128a
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् ॥ KK03-11-191-128c
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् । KK03-11-191-129a
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् ॥ KK03-11-191-129c
ततो मामब्रवीद्बालः स प्रीतः प्रहसन्निव । KK03-11-191-130a
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः ॥ KK03-11-191-130c
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम । KK03-11-191-131a
उषितस्त्वं परिश्रान्तो मार्कण्डेय ब्रवीहि मे ॥ KK03-11-191-131c
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा । KK03-11-191-132a
मायानिर्मुक्तमात्मनमपश्यं लब्धचेतसम् ॥ KK03-11-191-132c
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ । KK03-11-191-133a
सुजातौ मृदुरक्ताभिरङ्गुलीभिर्विराजितौ ॥ KK03-11-191-133c
प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ । KK03-11-191-134a
दृष्ट्वाऽपरिमितं तस्य प्रभावममितौजसः ॥ KK03-11-191-134c
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य ह । KK03-11-191-135a
दृष्टो मया स भूतात्मा देवः कमललोचनः ॥ KK03-11-191-135c
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रवम् । KK03-11-191-136a
ज्ञातुमिच्छामि देव त्वां मायां चैतां तवोत्तमाम् ॥ KK03-11-191-136c
आस्येनानुप्रविष्टोऽहं शरीरे भगवंस्तव । KK03-11-191-137a
दृष्टवानखिलाल्ँलोकान्समस्तान्जठरे हि ते ॥ KK03-11-191-137c
तव देव शरीरस्था देवदानवराक्षसाः । KK03-11-191-138a
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् ॥ KK03-11-191-138c
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते । KK03-11-191-139a
द्रुतमन्तःशरीरे ते सततं परिवर्तिनः ॥ KK03-11-191-139c
निर्गतोऽहमकामस्तु इच्छया ते महाप्रभो । KK03-11-191-140a
यतिष्ये पुण्डरीकाक्ष ज्ञातुं त्वाऽहमनिन्दितम् ॥ KK03-11-191-140c
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते । KK03-11-191-141a
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥ KK03-11-191-141c
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ । KK03-11-191-142a
कियन्तं च त्वया कालमिह स्थेयमरिन्दम ॥ KK03-11-191-142c
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया । KK03-11-191-143a
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् । KK03-11-191-143c
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥ KK03-11-191-143e
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः । KK03-11-191-144a
सान्त्वयन्मामिदं वाक्यमुवाच वदतांवरः ॥ KK03-11-191-144c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकनवत्यधिकशततमोऽध्यायः ॥ 191 ॥

3-191-4 अनन्तरिक्षे लोके इति झ. पाठः ॥ 3-191-6 चतुर्विधानि जरायुजाण्डजस्वेदजोद्भिज्जानि ॥ 3-191-9 नारायणास्य अङ्कः स्थानं समीपं वा । तत्र प्रख्यः प्रख्यातः भगवद्भक्तेषूत्तमः । साम्पराये परलोके अतिपठ्यसे अत्यन्तं स्तूयसे । लोकैरिति शेषः ॥ 3-191-10 विष्णोर्ब्रह्मणः उपलब्धिस्थानत्वेन सम्बन्धिकर्णिकोद्धरणं कृत्वा योगकलया हृदयपुण्डरीकमुद्घाट्येत्यर्थः । त्वया दृग्भ्यां भगवाननेकशोऽनेकवारं दृष्ट इत्यन्वयः । रत्नानि तत्तज्जात्युत्कृष्टवस्तूनि तेषाम् अलङ्कारो निवारणक्रिया । परं वैराग्यमिति यावत् । योगः अभियोगोऽभ्यासः । वैराग्याभ्यासाभ्यामित्यर्थः ॥ 3-191-11 तव त्वां न विशतीत्यपकृष्यते ॥ 3-191-12 शेषम् अवशिष्टम् । पञ्चमहाभूतप्रलये सतीत्यर्थः ॥ 3-191-15 एतत्सर्वं त्वया दृष्टमिति शेषः ॥ 3-191-17 स्वयम्भुवे अजन्मने । पुरुषाय पूर्णाय । पुराणाय नित्यैकरूपाय । शाश्वताय अनादये । अव्ययाय नित्याय ॥ 3-191-20 यद्येष पुरुषो वेद चेदा अपि इति झ. पाठः ॥ 3-191-22 तावच्छती चतुःशती । सन्ध्या पूर्वस्मिन् युगे उत्तरयुगधर्माणामुपसर्जनतया सङ्क्रमः । सन्ध्यांशस्तूत्तरस्मिन् पूर्वयुगधर्माणाम् । तथाविध उत्तरप्रकारस्त्रिशतीमितोयमेव पूर्वयुगापेक्षया सन्ध्यांश उत्तरयुगापेक्षया सन्ध्येति चोच्यते । तथाच कृतत्रेतयोः सन्ध्यासन्ध्यांशौ सप्तशती । त्रेताद्वापरयोः पञ्चशती । द्वापारकल्योस्त्रिशती । कलिकृतयोस्तु पञ्चशतीति विज्ञेयम् । एवञ्च कृतस्यादौ चतुःशती कल्यपेक्षया सन्ध्यांशोपि कृतापेक्षया सन्ध्या । एवं सर्वत्र । तेन सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणं भवति ॥ 3-191-31 तथा शूद्रधनार्जकाः इति थ. पाठः ॥ 3-191-37 सत्येऽल्पं सत्याल्पम् । सत्यवादोऽत्यन्तमल्प इत्यर्तः ॥ 3-191-38 वृथा अनुभवाभावात् ॥ 3-191-41 मुखेभगाः प्रथमं मुखेनैव भगकार्यं कृत्वा पुरुषस्य काममुद्दीपयन्त्यः । अत्यन्तं रतार्तत्वात् ॥ 3-191-42 अट्टमन्नं शिवो वेदो ब्राह्मणाश्च चतुष्पथाः । केशो भगं समाख्यातं शूलं तद्विक्रयं विदुरिति पूर्वेषां व्याख्यासङ्क्षेपः ॥ 3-191-45 मिथ्याधर्मः कपटधर्मः सएव ध्वजइव ख्यात्यर्थं ज्ञाप्यो येषां ते तथा चञ्चूर्यन्ते पीड्यन्ते । दिशः दिक्स्थाः जनाः ॥ 3-191-48 पानपाः मद्यपाः ॥ 3-191-56 नगराणां नगरस्थानाम् ॥ 3-191-57 आढ्योहमिति मदः आढ्यमदः ॥ 3-191-59 पुरुषादानि वृकव्याघ्रादीनि चैत्येष देवतास्थानेषु ॥ 3-191-63 अर्हतः योग्यान् ॥ 3-191-86 ततस्तं सलिलं घोरम् इति क. ध. पाठः ॥