अध्यायः 190
मार्कण्डेयेन युधिष्ठिरादीन्प्रति मत्स्यरूपिणो हरेर्वैवस्वतमनोश्च चरितप्रतिपादकमत्स्योपाख्यानकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-11-190-001
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह । KK03-11-190-001a
कथयस्वेति चरितं मनोर्वैवस्वतस्य च ॥ KK03-11-190-001c
मार्कण्डेय उवाच KK03-11-190-002
विवस्वतः सुतो राजन्महर्षिः सुप्रतापवान् । KK03-11-190-002a
बभूव नरशार्दूल प्रजापतिसमद्युतिः ॥ KK03-11-190-002c
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः । KK03-11-190-003a
अतिचक्राम पितरं मनुः स्वं च पितामहम् ॥ KK03-11-190-003c
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः । KK03-11-190-004a
एकपादस्थितस्तीव्रं चकार सुमहत्तपः ॥ KK03-11-190-004c
अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् । KK03-11-190-005a
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा ॥ KK03-11-190-005c
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् । KK03-11-190-006a
चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् ॥ KK03-11-190-006c
भगवन्क्षुद्रमत्स्योस्मि बलवद्भ्यो भयं मम । KK03-11-190-007a
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत ॥ KK03-11-190-007c
दुर्बलं बलवन्तो हि मत्स्या मत्स्यं विशेषतः । KK03-11-190-008a
भक्षयन्ति सदा वृत्तिर्विहिता नः सनातनी ॥ KK03-11-190-008c
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः । KK03-11-190-009a
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव ॥ KK03-11-190-009c
स मत्स्यवचनं श्रुत्वा कृपयाऽभिपरिप्लुतः । KK03-11-190-010a
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् ॥ KK03-11-190-010c
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः । KK03-11-190-011a
अलिञ्जरे प्राक्षिपत्तं चन्द्रांशुसदृशप्रभम् ॥ KK03-11-190-011c
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः । KK03-11-190-012a
पुत्रवत्स्वीकरोत्तस्मै मनुर्भावं विशेषतः ॥ KK03-11-190-012c
अथ कालेन महता स मत्स्यः सुमहानभूत् । KK03-11-190-013a
अलिञ्जरजले चैव नासौ समभवत्किल ॥ KK03-11-190-013c
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत । KK03-11-190-014a
भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय ॥ KK03-11-190-014c
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मनुः । KK03-11-190-015a
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा ॥ KK03-11-190-015c
तत्रतं प्राक्षिपच्चापि मनुः परपुरञ्जय । KK03-11-190-016a
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् ॥ KK03-11-190-016c
द्वियोजनायता वापी विस्तृता चापि योजनम् । KK03-11-190-017a
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन ॥ KK03-11-190-017c
विचेष्टितुं च कौन्तेय मत्स्यो वाप्यां विशाम्पते । KK03-11-190-018a
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत ॥ KK03-11-190-018c
नय मां भगवन्साधो समुद्रमहिषीं प्रियाम् । KK03-11-190-019a
गङ्गां नात्रापि शक्तोस्मि वस्तुं मतिमतांवर ॥ KK03-11-190-019c
निदेशे हि मया तुभ्यं स्थातव्यमनसूयता । KK03-11-190-020a
वृद्धिर्हि परमा प्राप्ता त्वत्कृते हि मयाऽनघ ॥ KK03-11-190-020c
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी । KK03-11-190-021a
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदेव च ॥ KK03-11-190-021c
स तत्र ववृधे मत्स्यः कञ्चित्कालमरिन्दम । KK03-11-190-022a
गतः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् ॥ KK03-11-190-022c
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो । KK03-11-190-023a
समुद्रं नय मामाशु प्रसीद भगवन्निति ॥ KK03-11-190-023c
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् । KK03-11-190-024a
समुद्रमनयत्पार्थ तत्र चैनमवासृजत् ॥ KK03-11-190-024c
सुमहानपि मत्स्यस्तु स मनोर्नयतस्तदा । KK03-11-190-025a
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै ॥ KK03-11-190-025c
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा । KK03-11-190-026a
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् ॥ KK03-11-190-026c
भगवन्हि कृता रक्षा त्वया सर्वा विशेषतः । KK03-11-190-027a
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम ॥ KK03-11-190-027c
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् । KK03-11-190-028a
सर्वमेव महाभाग प्रलयं वै गमिष्यति ॥ KK03-11-190-028c
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः । KK03-11-190-029a
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् ॥ KK03-11-190-029c
त्रसानां स्तावराणां च यच्चेङ्गं यच्च नेङ्गति । KK03-11-190-030a
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः ॥ KK03-11-190-030c
नौश्च कारयितव्या ते दृढा युक्तवटारका । KK03-11-190-031a
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने ॥ KK03-11-190-031c
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा । KK03-11-190-032a
तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः ॥ KK03-11-190-032c
नौस्थश्च मां प्रतीक्षेथास्ततो मुनिजनप्रिय । KK03-11-190-033a
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस ॥ KK03-11-190-033c
एवमेतत्त्वया कार्यमापृष्टोसि व्रजाम्यहम् । KK03-11-190-034a
ता न शक्या महत्यो वै आपस्तर्तुं मया विना । KK03-11-190-034c
नातिशङ्क्यमिदं चापि वचनं मे त्वया विभो ॥ KK03-11-190-034e
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत । KK03-11-190-035a
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् ॥ KK03-11-190-035c
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह । KK03-11-190-036a
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा । KK03-11-190-036c
नौकया शुभया वीर महोर्मिणमरिन्दम ॥ KK03-11-190-036e
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते । KK03-11-190-037a
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय । KK03-11-190-037c
शृङ्गी तत्राजगागाशु तदा भरतसत्तम ॥ KK03-11-190-037e
तं दृष्ट्वा मनुजव्याघ्र मनुर्मत्स्यं जलार्णवे । KK03-11-190-038a
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् ॥ KK03-11-190-038c
वटारकमयं पाशमथ मत्स्यस्य मूर्धनि । KK03-11-190-039a
मनुर्मनुजशार्दूल तस्य शृङ्गे न्यवेशयत् ॥ KK03-11-190-039c
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय । KK03-11-190-040a
वेगेन महता नावं प्राकर्षल्लवणाम्भसि ॥ KK03-11-190-040c
स ततार तया नावा समुद्रं मनुजेश्वर । KK03-11-190-041a
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा ॥ KK03-11-190-041c
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ । KK03-11-190-042a
घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय ॥ KK03-11-190-042c
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे । KK03-11-190-043a
सर्वं सलिलमेवासीत्खं द्यौश्च नरपुङ्गव ॥ KK03-11-190-043c
एवम्भूते तदा लोके सङ्कुले भरतर्षभ । KK03-11-190-044a
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यस्तथैव च ॥ KK03-11-190-044c
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः । KK03-11-190-045a
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये ॥ KK03-11-190-045c
ततो हिमवतः शृङ्गं यत्परं भरतर्षभ । KK03-11-190-046a
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन ॥ KK03-11-190-046c
अथाब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः । KK03-11-190-047a
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् ॥ KK03-11-190-047c
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ । KK03-11-190-048a
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा ॥ KK03-11-190-048c
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् । KK03-11-190-049a
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ ॥ KK03-11-190-049c
अथाब्रवीदनिमिषस्तानृषीन्सहितस्तदा । KK03-11-190-050a
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते । KK03-11-190-050c
मत्स्यरूपेण यूयं च मयाऽस्मान्मोक्षिता भयात् ॥ KK03-11-190-050e
मनुना च प्रजाः सर्वाः सदेवासुरमानुषाः । KK03-11-190-051a
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति ॥ KK03-11-190-051c
तपसा चापि तीव्रेण प्रतिभाऽस्य भविष्यति । KK03-11-190-052a
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति । KK03-11-190-052c
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः ॥ KK03-11-190-052e
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् । KK03-11-190-053a
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः ॥ KK03-11-190-053c
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे । KK03-11-190-054a
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ ॥ KK03-11-190-054c
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् । KK03-11-190-055a
आख्यानमिदमाख्यातं सर्वपापहरं मया ॥ KK03-11-190-055c
य इदं शृणुयान्नित्यं मनोश्चरितमादितः । KK03-11-190-056a
स सुखी सर्वपूर्णार्थः सर्वलोकमियान्नरः ॥ KK03-11-190-056c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि नवत्यधिकशततमोऽध्यायः ॥ 190 ॥
3-190-6 चीरिणीनदीविशेषः ॥ 3-190-11 अलिञ्जरे मणिकाख्यपात्रे ॥ 3-190-13 न समभवत्स्थूलत्वेन न ममावित्यर्थः ॥ 3-190-30 त्रसानां जङ्गमानाम् । इङ्गं चलनशीलं वृक्षादि । नेङ्गति पाषाणादि । कालोऽन्तः ॥ 3-190-31 वटारका रज्जुः ॥ 3-190-32 यथोक्तानि द्विजैः पुरा इति झ. पाठः ॥ 3-190-41 सच तांस्तारयन्नावा इति झ. पाठः ॥