अध्यायः 188
मार्कण्डेयेन युधिष्ठिरादीन्प्रति वैन्यस्याश्वमेधे अत्रिगौतमविवादानुवादेन ब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥
मार्कण्डेय उवाच KK03-11-188-001
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे । KK03-11-188-001a
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥ KK03-11-188-001c
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् । KK03-11-188-002a
भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ॥ KK03-11-188-002c
स विचिन्त्य महातेजा वनमेवान्वरोचयत् । KK03-11-188-003a
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ KK03-11-188-003c
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् । KK03-11-188-004a
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ KK03-11-188-004c
तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती । KK03-11-188-005a
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु ॥ KK03-11-188-005c
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् । KK03-11-188-006a
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ॥ KK03-11-188-006c
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् । KK03-11-188-007a
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥ KK03-11-188-007c
अत्रिरुवाच KK03-11-188-008
कथितो मे महाभागे गौतमेन महात्मना । KK03-11-188-008a
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ KK03-11-188-008c
किन्त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः । KK03-11-188-009a
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ KK03-11-188-009c
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् । KK03-11-188-010a
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम् ॥ KK03-11-188-010c
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव । KK03-11-188-011a
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् ॥ KK03-11-188-011c
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः । KK03-11-188-012a
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ KK03-11-188-012c
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः । KK03-11-188-013a
राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः । KK03-11-188-013c
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ KK03-11-188-014a
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः ॥ KK03-11-188-014c
गौतम उवाच KK03-11-188-015
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता । KK03-11-188-015a
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः ॥ KK03-11-188-015c
वैशम्पायन उवाच KK03-11-188-016
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत । KK03-11-188-016a
अयमेव विधाता च तथैवेन्द्रः प्रजापतिः । KK03-11-188-016c
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ KK03-11-188-016e
गौतम उवाच KK03-11-188-017
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे । KK03-11-188-017a
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि ॥ KK03-11-188-017c
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम् । KK03-11-188-018a
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ KK03-11-188-018c
वैशम्पायन उवाच KK03-11-188-019
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ । KK03-11-188-019a
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ KK03-11-188-019c
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि । KK03-11-188-020a
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ ॥ KK03-11-188-020c
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् । KK03-11-188-021a
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ KK03-11-188-021c
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् । KK03-11-188-022a
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः । KK03-11-188-022c
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान् ॥ KK03-11-188-022e
'ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि' । KK03-11-188-023a
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् ॥ KK03-11-188-023c
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै । KK03-11-188-024a
'पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः' ॥ KK03-11-188-024c
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः । KK03-11-188-025a
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ KK03-11-188-025c
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह । KK03-11-188-026a
संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ KK03-11-188-026c
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च । KK03-11-188-027a
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥ KK03-11-188-027c
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः । KK03-11-188-028a
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ KK03-11-188-028c
पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः । KK03-11-188-029a
स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते । KK03-11-188-029c
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ॥ KK03-11-188-029e
अधर्मादृषयो भीता बलं क्षत्रे समादधन् । KK03-11-188-030a
'तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम्' ॥ KK03-11-188-030c
आदित्यो दिवि देवेषु तमो नुदति तेजसा । KK03-11-188-031a
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम् ॥ KK03-11-188-031c
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् । KK03-11-188-032a
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम् ॥ KK03-11-188-032c
मार्कण्डेय उवाच KK03-11-188-033
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः । KK03-11-188-033a
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ KK03-11-188-033c
यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः । KK03-11-188-034a
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च ॥ KK03-11-188-034c
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च । KK03-11-188-035a
दासीसहस्रं श्यामानां सुवस्त्राणामलङ्कृतम् ॥ KK03-11-188-035c
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश । KK03-11-188-036a
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे ॥ KK03-11-188-036c
तदत्रिर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः । KK03-11-188-037a
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः ॥ KK03-11-188-037c
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् । KK03-11-188-038a
ततः समभिसन्धाय वनमेवान्वपद्यत ॥ KK03-11-188-038c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥
3-188-2 सोऽत्रिरर्थं भूयो नानुरुध्यत् अत्यन्तमर्थार्थी न बभूव । कुतः । धर्मव्यक्तिर्धर्मस्य फलद्वाराऽभिव्यक्तिः । फलव्यक्त्या हि धर्मो नश्यत्यतस्तद्रक्षणार्थं नैच्छदित्यर्थः ॥ 3-188-3 वनं गन्तुमिति शेषः ॥ 3-188-4 निरुपद्रवमक्षयं मोक्षाख्यम् ॥ 3-188-5 धर्ममेवानुतन्वतीति झ. पाठः । धर्मं यज्ञादिकम् अनुतन्वती विस्तारयन्ती । हेतौ शतृप्रत्ययः । धर्मार्थे धनमेवार्जयस्वेत्युवाचेत्यर्थः ॥ 3-188-8 राजप्रतिग्रहे दोषं जानन्नत्रिस्तत्र विघ्नमुपन्यस्यति कथित इत्यादिना ॥ 3-188-9 व्यवसामि उद्यमं करोमि ॥ 3-188-11 एवं जानन्नपि स्नेहदोषात्तत्कर्तुं प्रतिजानीते गमिष्यामीति ॥ 3-188-13 धन्यो धनार्हः ईश ईशिता नियन्ता । प्रथमः हिरण्यगर्भइव अग्रजः । नृपः मनुष्याणां रक्षकः ॥ 3-188-15 अत्र परलोकमेव बहुमन्वानो गौतम आह मैवमिति ॥ 3-188-16 तत्रेन्द्र इवात्र राजैव महेन्द्र इति वित्तार्थी अत्रिः परपक्षं दूषयति अथेति ॥ 3-188-19 दर्शने दृष्टिपथे ॥ 3-188-21 प्रत्यषेधयत् इति ध. पाठः ॥ 3-188-22 नौ आवयोः । संशयः विवादः ॥ 3-188-27 प्रथितः प्रथाङ्गतः । धर्मः धर्मस्थापकः । शक्रः रक्षिता । शुक्रः नीतिवित् । धाता अतएव जनकः । बृहस्पतिः हितोपदेष्टा ॥ 3-188-29 अभिया मुदित इति झ. पाठः । पुरायोनिः धर्मप्रवर्तकत्वेन प्रथमं कारणम् । युधाजित् सङ्ग्रामे जयकर्तृत्वेनोपद्रवनाशकः । अभियाः अभितो यातियामिकवद्रक्षणार्थमित्यभियाः । मुदितः भवः ईश्वरः । स्वर्णेता स्वर्गं प्रति गमयिता । सहजित् सद्यो जयशीलः । बभ्रुर्विष्णुः ॥