अध्यायः 187
मार्कण्डेयेन युधिष्ठिरादीन्प्रति मृतस्य पुनरुज्जीवनशक्त्यादिरूपब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-11-187-001
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा । KK03-11-187-001a
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् ॥ KK03-11-187-001c
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः । KK03-11-187-002a
उवाच सुमहातेजाः सर्वशास्त्रविशारदः ॥ KK03-11-187-002c
हेहयानां कुलकरो राजा परपुरञ्जयः । KK03-11-187-003a
कुमारो रूपसम्पन्नो मृगयां व्यचरद्बली ॥ KK03-11-187-003c
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते । KK03-11-187-004a
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके ॥ KK03-11-187-004c
स तेन हिंसितोऽरण्ये मन्यमानेन वै मृगम् । KK03-11-187-005a
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः ॥ KK03-11-187-005c
जगाम हेहयानां वै सकाशं प्रथितात्मनाम् । KK03-11-187-006a
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते ॥ KK03-11-187-006c
तेषां च तद्यथावृत्तं कथयामास वै तदा । KK03-11-187-007a
'स कुमारो महीपालो हेहयानां महीभृताम्' ॥ KK03-11-187-007c
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् । KK03-11-187-008a
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः ॥ KK03-11-187-008c
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः । KK03-11-187-009a
जग्मुश्चारिष्टनाम्नोऽथ तार्क्ष्यस्याश्रममञ्जसा ॥ KK03-11-187-009c
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् । KK03-11-187-010a
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् ॥ KK03-11-187-010c
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने । KK03-11-187-011a
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः ॥ KK03-11-187-011c
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः । KK03-11-187-012a
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् ॥ KK03-11-187-012c
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् । KK03-11-187-013a
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः ॥ KK03-11-187-013c
अन्वेषमाणाः सव्रीडाः सुप्तवद्गतमानसाः । KK03-11-187-014a
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः ॥ KK03-11-187-014c
स्यादयं ब्राह्मणः सोऽथ युष्माभिर्यो विनाशितः । KK03-11-187-015a
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः ॥ KK03-11-187-015c
ते च दृष्ट्वैव तमृषिं विस्मयं परमं गताः । KK03-11-187-016a
महदाश्चर्यमिति वै ते ब्रुवाणा महीपते ॥ KK03-11-187-016c
मृतो ह्ययमितो दृष्टः कथं जीवितमाप्तवान् । KK03-11-187-017a
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः । KK03-11-187-017c
श्रोतुमिच्छामहे विप्र यदि श्रोतव्यमित्युत ॥ KK03-11-187-017e
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः । KK03-11-187-018a
कारणं च प्रवक्ष्यामि हेतुयोगं समासतः । KK03-11-187-018c
'मृत्युः प्रभवते येन नास्माकं नृपसत्तमाः ॥ KK03-11-187-018e
शुद्धाचारादनलसाः साध्योपासनतत्पराः । KK03-11-187-019a
शुद्धान्नाः शुद्धसदना ब्रह्मचर्यव्रतान्विताः' ॥ KK03-11-187-019c
सत्यमेवाभिजानीमो नानृते कुर्महे मनः । KK03-11-187-020a
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः ॥ KK03-11-187-020c
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे । KK03-11-187-021a
तेषां हि चरितं ब्रूमस्तस्मान्मृत्युभयं न नः ॥ KK03-11-187-021c
अतिथीनन्नपानेन भृत्यानत्यशनेन च । KK03-11-187-022a
सम्भोज्य शेषमश्नीमस्तस्मान्मृत्युभयं न नः ॥ KK03-11-187-022c
क्षान्ता दान्ताः क्षमाशीलास्तीर्थदानपरायणाः । KK03-11-187-023a
पुण्यदेशनिवासाच्च तस्मान्मृत्युभयं न नः । KK03-11-187-023c
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः ॥ KK03-11-187-023e
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः । KK03-11-187-024a
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः ॥ KK03-11-187-024c
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् । KK03-11-187-025a
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ ॥ KK03-11-187-025c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥ 187 ॥
3-187-4 उत्तरासङ्गः प्रावरणम् ॥ 3-187-9 जग्मुश्चारिष्टनेम्नोऽथ इति झ. पाठः । अरिष्टनेमिशब्द इकारान्तोऽप्यत्र मन्नन्तोऽपि ज्ञेयः ॥ 3-187-14 तार्क्ष्यः तृक्षस्य कश्यपस्यापत्यम् ॥ 3-187-21 नैषां दुश्चरितं ब्रूमः इति झ. पाठः ॥ 3-187-23 तेजस्विनां योगसिद्धानां देशः सामीप्यम् । तत्सङ्गादित्यर्थः ॥