अध्यायः 186

मार्कण्डेयेन युधिष्ठिरादीन्प्रति प्राणिनां सुकृतदुष्कृतफलभोगादिप्रकारनिरूपणम् ॥ 1 ॥

वैशम्पायन उवाच KK03-11-186-001
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् । KK03-11-186-001a
कथासञ्जननार्थाय चोदयामास पाण्डवः ॥ KK03-11-186-001c
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् । KK03-11-186-002a
राजर्षीणां च सर्वेषां चरितज्ञः पुरातनः ॥ KK03-11-186-002c
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् । KK03-11-186-003a
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः ॥ KK03-11-186-003c
भ्रमत्येव हि मे बुद्धिर्दृष्ट्वाऽऽत्मानं सुखाच्च्युतम् । KK03-11-186-004a
धार्तराष्ट्रांश्च दुर्वृत्तानृद्ध्यतः प्रेक्ष्य सर्वशः ॥ KK03-11-186-004c
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य वा । KK03-11-186-005a
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः ॥ KK03-11-186-005c
अथवा सुखदुःखेषु नृणां ब्रह्मविदांवर । KK03-11-186-006a
इह वा कृतमन्वेति परदेहेऽथवा पुनः ॥ KK03-11-186-006c
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः । KK03-11-186-007a
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम ॥ KK03-11-186-007c
ऐहलौकिकमेवैतदुताहो पारलौकिकम् । KK03-11-186-008a
क्व वा कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव ॥ KK03-11-186-008c
मार्कण्डेय उवाच KK03-11-186-009
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतांवर । KK03-11-186-009a
विदितं वेदितव्यं ते स्थित्यर्थं त्वं तु पृच्छसि ॥ KK03-11-186-009c
अत्र ते कथयिष्यामि तदिहैकमनाः शृणु । KK03-11-186-010a
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते ॥ KK03-11-186-010c
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् । KK03-11-186-011a
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः ॥ KK03-11-186-011c
अमोघफलसङ्कल्पाः सुव्रताः सत्यवादिनः । KK03-11-186-012a
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुसत्तम ॥ KK03-11-186-012c
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् । KK03-11-186-013a
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः ॥ KK03-11-186-013c
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः । KK03-11-186-014a
अल्पबाधा निरातङ्काः सिद्धार्था निरुपद्रवाः ॥ KK03-11-186-014c
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् । KK03-11-186-015a
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः ॥ KK03-11-186-015c
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । KK03-11-186-016a
ततः कालान्तरे तस्मिन्पृथिवीतलचारिणः ॥ KK03-11-186-016c
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः । KK03-11-186-017a
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः ॥ KK03-11-186-017c
अशुभैः कर्मभिः पापास्तिर्यङ्निरयगामिनः । KK03-11-186-018a
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः ॥ KK03-11-186-018c
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः । KK03-11-186-019a
'काङ्क्षिणः सर्वकामानां नास्तिका भिन्नसेतवः' ॥ KK03-11-186-019c
सर्वाभिशङ्किनश्चैव संवृत्ताः क्लेशदायिनः । KK03-11-186-020a
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः ॥ KK03-11-186-020c
दौष्कुल्या व्याधिबहुला दुरात्मानोऽभितापिनः । KK03-11-186-021a
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः । KK03-11-186-021c
नाथन्तः सर्वकामानां नास्तिका भिन्नचेतसः ॥ KK03-11-186-021e
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः । KK03-11-186-022a
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति ॥ KK03-11-186-022c
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् । KK03-11-186-023a
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु ॥ KK03-11-186-023c
अयमादिशरीरेण देवसृष्टेन मानवः । KK03-11-186-024a
शुभानामशुभानां च कुरुते सञ्चयं महत् ॥ KK03-11-186-024c
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् । KK03-11-186-025a
सम्भवत्येव युगपद्योनौ नास्त्यन्तराऽभवः ॥ KK03-11-186-025c
तत्रास्य स्वकृतं कर्म च्छायेवानुगतं सदा । KK03-11-186-026a
फलत्यथ सुखार्हो वा दुःखार्हो वाऽथ जायते ॥ KK03-11-186-026c
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः । KK03-11-186-027a
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः ॥ KK03-11-186-027c
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर । KK03-11-186-028a
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् ॥ KK03-11-186-028c
मनुष्यास्तप्ततपसः सर्वागमपरायणाः । KK03-11-186-029a
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः ॥ KK03-11-186-029c
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः । KK03-11-186-030a
शुचियोन्यन्तरगताः प्रायशः शुभलक्षणाः ॥ KK03-11-186-030c
जितेनद्रियत्वाद्वशिनः सत्कृत्यान्मन्दरागिणः । KK03-11-186-031a
अल्पाबाधपरित्रासा भवन्ति निरुपद्रवाः ॥ KK03-11-186-031c
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः । KK03-11-186-032a
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः ॥ KK03-11-186-032c
ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः । KK03-11-186-033a
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् । KK03-11-186-033c
'कृत्वा शुभानि कर्माणि ज्ञानेन भरतर्षभ' ॥ KK03-11-186-033e
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः । KK03-11-186-034a
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्याविचारणा ॥ KK03-11-186-034c
इमामत्रोपमां चापि निबोध वदतांवर । KK03-11-186-035a
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर ॥ KK03-11-186-035c
इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह । KK03-11-186-036a
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह ॥ KK03-11-186-036c
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः । KK03-11-186-037a
तेषामयं शत्रुवरघ्नलोको नासौ सदा ग्राम्यसुखे रतानाम् ॥ KK03-11-186-037c
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् । KK03-11-186-038a
जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ नायमरिघ्नलोकः ॥ KK03-11-186-038c
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले । KK03-11-186-039a
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः ॥ KK03-11-186-039c
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते । KK03-11-186-040a
न चापिगच्छन्ति शुभान्यभाग्यास्तेषामयं चैव परश्च नास्ति ॥ KK03-11-186-040c
सर्वे भवन्तस्त्वतिवीर्यसत्वा दिव्यौजसः संहननोपपन्नाः । KK03-11-186-041a
लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः ॥ KK03-11-186-041c
कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः । KK03-11-186-042a
देवानृषीन्प्रेतगतांश्च सर्वान्सन्तर्पयित्वा विधिना परेण ॥ KK03-11-186-042c
स्वर्गं परं पुण्यकृतां निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः । KK03-11-186-043a
माभूद्विशङ्का तव कौरवेन्द्र दृष्ट्वाऽऽत्मनः क्लेशमिमं सुखार्थम् ॥ KK03-11-186-043c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

3-186-4 ऋध्यतः समृद्धियुतान् ॥ 3-186-9 स्थित्यर्थं लोकरक्षार्थम् । वेदितव्यं ते स्मृत्यर्थमनुपृच्छसीति ध. पाठः ॥ 3-186-17 माया कूटकार्षापणादिः व्याजं दम्भः तदेवोपजीवन्ति नतु धर्मम् । ते मायाव्याजोपजीविनः ॥ 3-186-21 नाथन्तः प्रार्थयमानाः । कामानां कामान् ॥ 3-186-23 अनुनयं सिद्धान्तम् ॥ 3-186-24 शरीरेण मानवो विधिसंयुतः इति क. पाठः ॥ 3-186-38 जितेन्द्रियाः प्राणिवधे निवृत्ताः इति झ. पाठः ॥ 3-186-40 प्रजने पुत्रोत्पादने ॥