अध्यायः 185

पाण्डवानाम् पुनः काम्यकागमनं श्रुतवता कृष्णेन सत्यभामया सह तत्रागमनम् ॥ 1 ॥ तथा नारदमार्कण्डेययोरागमनञ्च ॥ 2 ॥ मार्कण्डेयेन श्रीकृष्णचोदनया पुराणकथाकथनारम्भः ॥ 3 ॥

वैशम्पायन उवाच KK03-11-185-001
काम्यकं प्राप्य कौरव्य युधिष्ठिरपुरोगमाः । KK03-11-185-001a
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ KK03-11-185-001c
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् । KK03-11-185-002a
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ KK03-11-185-002c
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा । KK03-11-185-003a
स एष्यति महाबाहुर्वशी शौरिरुदारधीः ॥ KK03-11-185-003c
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः । KK03-11-185-004a
सदा हि दर्शनाकाङ्क्षी श्रेयोन्वेषी च वो हरिः ॥ KK03-11-185-004c
बहुवत्सरजीवी च मार्कण्डेयो महातपाः । KK03-11-185-005a
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ KK03-11-185-005c
तथैव ब्रुवतस्तस्य प्रत्यदृश्यत केशवः । KK03-11-185-006a
शैब्यसुग्रीवयुक्तेन रथेन रथिनांवरः ॥ KK03-11-185-006c
मघवानिव पौलोम्या सहितः सत्यभामया । KK03-11-185-007a
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ KK03-11-185-007c
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि । KK03-11-185-008a
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥ KK03-11-185-008c
पूजयामास धौम्यं च यमाभ्यामभिवादितः । KK03-11-185-009a
परिष्वज्य महाभागां द्रौपदीं पर्यसान्त्वयत् ॥ KK03-11-185-009c
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् । KK03-11-185-010a
पर्यष्वजत दाशार्हः पुनः पुनररिन्दमः ॥ KK03-11-185-010c
तथैव सत्यभामाऽपि द्रौपदीं परिषस्वजे । KK03-11-185-011a
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥ KK03-11-185-011c
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः । KK03-11-185-012a
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ KK03-11-185-012c
कृष्णस्तु पार्थेन समेत्य विद्वान् धनञ्जयेनासुरमर्दनेन । KK03-11-185-013a
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥ KK03-11-185-013c
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय । KK03-11-185-014a
उक्त्वा यथावत्पुनरन्वपृच्छत्तस्मिन्सुभद्रां च तथाऽभिमन्युम् ॥ KK03-11-185-014c
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः । KK03-11-185-015a
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ KK03-11-185-015c
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च । KK03-11-185-016a
उवाच राजानमभिप्रशंसन् युधिष्ठिरं तेन सहोपविश्य ॥ KK03-11-185-016c
धर्मः परः पाण्डव राज्यलाभात्तस्यादिमाहुस्तप एव राजन् । KK03-11-185-017a
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्त्वयाऽयं परश्च लोकः ॥ KK03-11-185-017c
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् । KK03-11-185-018a
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ KK03-11-185-018c
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किञ्चित्कुरुषे नरेन्द्र । KK03-11-185-019a
न चार्थलोभात्प्रजहासि धर्मं तस्मात्प्रभावादसि धर्मराजः ॥ KK03-11-185-019c
दानं च सत्यं च तपश्च राजन् क्षमा च शान्तिश्च दमो धृतिश्च । KK03-11-185-020a
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥ KK03-11-185-020c
हृतं च देशं कुरुजाङ्गलानां कृष्णां सभायामवशां च पश्यन् । KK03-11-185-021a
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥ KK03-11-185-021c
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् । KK03-11-185-022a
अद्यैव तन्निग्रहणं कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥ KK03-11-185-022c
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः । KK03-11-185-023a
दिष्ट्या समग्राऽसि धनञ्जयेन समागतेत्येवमुवाच कृष्णः ॥ KK03-11-185-023c
कृष्णे धनुर्वेदरतिप्रधानास्तवात्मजास्ते शिशवः सुशीलाः । KK03-11-185-024a
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥ KK03-11-185-024c
राज्ये नियुक्तैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च । KK03-11-185-025a
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥ KK03-11-185-025c
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः । KK03-11-185-026a
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ KK03-11-185-026c
यथा त्वमेवार्हसि तेषु वृत्तं प्रयोक्तुमार्या च यथैव कुन्ती । KK03-11-185-027a
तेष्वप्रमादेन तथा करोति तथैव भूयश्च तथा सुभद्रा ॥ KK03-11-185-027c
यथाऽनिरुद्धस्य यथाऽभिमन्योर्यथा सुनीथस्य यथैव भानोः । KK03-11-185-028a
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥ KK03-11-185-028c
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने । KK03-11-185-029a
सम्यग्विनेता विनयेदतन्द्रीस्तांश्चाभिमन्युं च सदा कुमारान् ॥ KK03-11-185-029c
स चापि सम्यक्प्रणिधाय शिक्षां शस्त्राणि चैषां विधिवत्प्रदाय । KK03-11-185-030a
तवात्मजानां च तथाऽभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥ KK03-11-185-030c
यथा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि । KK03-11-185-031a
एकैकमेषामनुयान्ति यत्र रथाश्च यानानि च दन्तिनश्च ॥ KK03-11-185-031c
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च । KK03-11-185-032a
एते निदेशं तव पालयन्तस्तिष्ठन्तु यत्रेच्छसि तत्र राजन् ॥ KK03-11-185-032c
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् । KK03-11-185-033a
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥ KK03-11-185-033c
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः । KK03-11-185-034a
स सानुबन्धः ससुहद्गणश्च भौमस्य सौभाधिपतेश्च मार्गम् ॥ KK03-11-185-034c
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् । KK03-11-185-035a
दाशार्हयोधैस्तु हतारियोधं प्रतीक्षतां नागपुरं प्रभग्नम् ॥ KK03-11-185-035c
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम् । KK03-11-185-036a
ततः समृद्धिप्रभवं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥ KK03-11-185-036c
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन । KK03-11-185-037a
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥ KK03-11-185-037c
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः । KK03-11-185-038a
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोस्ति ॥ KK03-11-185-038c
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु । KK03-11-185-039a
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥ KK03-11-185-039c
एषैव बुद्धिर्जुषतां सदा त्वां सत्ये स्थिताः केशव पाण्डवेयाः । KK03-11-185-040a
सदानधर्माः सजलाः सदाराः सबान्धवास्त्वच्छरणा हि पार्थाः ॥ KK03-11-185-040c
वैशम्पायन उवाच KK03-11-185-041
तथा वदति वार्ष्णेये धर्मराजे च भारत । KK03-11-185-041a
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् । KK03-11-185-041c
प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ KK03-11-185-041e
अजरश्चामरंश्चैव रूपौदार्यगुणान्वितः । KK03-11-185-042a
व्यदृश्यत तथा युक्तो यथा स्यात्पञ्चविंशकः ॥ KK03-11-185-042c
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् । KK03-11-185-043a
उपातिष्ठन्त ते सर्वे पाण्डवाः सहयादवाः ॥ KK03-11-185-043c
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् । KK03-11-185-044a
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ KK03-11-185-044c
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः । KK03-11-185-045a
द्रौपदी सत्यभामा च तथाऽहं परमं वचः ॥ KK03-11-185-045c
पुरावृत्ताः कथाः पुण्याः सदाचारान्सनातनान् । KK03-11-185-046a
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय प्रचक्ष्व नः ॥ KK03-11-185-046c
वैशम्पायन उवाच KK03-11-185-047
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः । KK03-11-185-047a
आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ KK03-11-185-047c
तमप्यथ महात्मानं सर्वे ते पुरुषर्षभाः । KK03-11-185-048a
पाद्यार्ध्याभ्यां यथान्यायमुपतस्थुर्मनीषिणः ॥ KK03-11-185-048c
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् । KK03-11-185-049a
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ KK03-11-185-049c
उवाच चैनं कालज्ञं स्मयन्निव सनारदः । KK03-11-185-050a
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ KK03-11-185-050c
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः । KK03-11-185-051a
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥ KK03-11-185-051c
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः । KK03-11-185-052a
मध्यन्दिने यथादित्यं प्रेक्षन्तस्ते महामुनिम् ॥ KK03-11-185-052c

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः ॥ 185 ॥

3-185-13 भूतपतिः रुद्रः । गुहेन कार्त्तिकेयेन ॥ 3-185-19 कोपो न कश्चित्परुषो नरेन्द्रेति ध. पाठः ॥ 3-185-20 एषा दानादिरूपा सदारतिः नित्यं प्रीतिविषयः ॥ 3-185-21 राज्ये निविष्टः कुरुजाङ्गलानां कृष्णां सभायां सभवानपश्यदिति ध. पाठः ॥ 3-185-26 आनर्तं द्वारकादेशम् ॥ 3-185-28 विनेता शिक्षयिता रौक्मिणेयः प्रद्युम्नः ॥ 3-185-33 मधूनां माथुराणाम् । हलायुधः प्रग्रहणो नियन्ता यस्याः सा सेना । यत्ता सन्नद्धा ॥ 3-185-34 भौमस्य नरकासुरस्य सौभाधिपतेः साल्वस्य । सात्वस्य सौभाधिपतेश्च मार्गमिति ख. पाठः ॥ 3-185-42 पञ्चविंशकः वर्षैरिति शेषः ॥ 3-185-47 अवलोककः अवलोकनार्थी ॥