अध्यायः 184
वर्षाशरद्वर्णनम् ॥ 1 ॥ युधिष्ठिरादिभिर्द्वैतवनात्पुनः काम्यकवनप्रवेशः ॥ 2 ॥
वैशम्पायन उवाच KK03-11-184-001
निदाघान्तकरः कालः सर्वभूतसुखावहः । KK03-11-184-001a
तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ॥ KK03-11-184-001c
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः । KK03-11-184-002a
प्रववर्षुर्दिवारात्रमसिताः सततं तदा ॥ KK03-11-184-002c
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः । KK03-11-184-003a
अपेतार्कप्रभाजालाः सविद्युन्मण्डलप्रभाः ॥ KK03-11-184-003c
विरूढशष्पा धरणी मत्तदंशसरीसृपा । KK03-11-184-004a
बभूव पयसा सिक्ता शान्तधूमरजोगणा ॥ KK03-11-184-004c
न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते । KK03-11-184-005a
समं वा विषमं वाऽपि नद्यो वा स्थावराणि वा ॥ KK03-11-184-005c
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः । KK03-11-184-006a
सिन्धवः शोभयाञ्चक्रुः काननानि तपात्यये ॥ KK03-11-184-006c
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः । KK03-11-184-007a
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ॥ KK03-11-184-007c
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह । KK03-11-184-008a
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः ॥ KK03-11-184-008c
तदा बहुविधाकारा प्रावृण्मेघानुनादिता । KK03-11-184-009a
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ॥ KK03-11-184-009c
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदिताऽभवत् । KK03-11-184-010a
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ॥ KK03-11-184-010c
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभवत् । KK03-11-184-011a
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ॥ KK03-11-184-011c
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः । KK03-11-184-012a
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ॥ KK03-11-184-012c
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः । KK03-11-184-013a
नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः ॥ KK03-11-184-013c
आकाशसङ्काशजलां तीरवानीरसङ्कुलाम् । KK03-11-184-014a
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् ॥ KK03-11-184-014c
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् । KK03-11-184-015a
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ॥ KK03-11-184-015c
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी । KK03-11-184-016a
तत्रैव वसतामासीत्कार्तिकी जनमेजय ॥ KK03-11-184-016c
पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः । KK03-11-184-017a
तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ॥ KK03-11-184-017c
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः । KK03-11-184-018a
सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ॥ KK03-11-184-018c
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरशीत्यधिकशततमोऽध्यायः ॥ 184 ॥
3-184-2 असिताः कृष्णवर्णाः ॥ 3-184-3 तपात्यये वर्षासु निकेता इव मण्डपीभूता इत्यर्थः ॥ 3-184-5 समवस्तृते आच्छादिते । स्थावराणि भूतलादीनि ॥ 3-184-6 आशुगाः तीव्रवेगाः । सिन्धवः नद्यः ॥ 3-184-8 स्तोककाश्चाकाः । दुर्दराः मण्डूकाः ॥ 3-184-9 मरुधन्वसु गिरेः शुष्कस्थानेषु ॥ 3-184-10 रूढकक्षाणि बहुतृणानि वनानि प्रस्थशब्दोदितानि सानूनि च यस्यां सा तथा ॥ 3-184-16 कार्तिकी कृत्तिकायुक्ता पौर्णमासी ॥ 3-184-17 योगं युज्यते रथादाविति व्युत्पत्त्या वाहनादिकं समूहुः आरोपितभारं कृतवन्तः ॥