अध्यायः 183
स्वप्रश्नस्योत्तरदानतुष्टेनाजगररूपिणा नहुषेण युधिष्ठिरम् प्रति स्वस्याजगरभावसम्भवहेतुकथनपूर्वकम् भीमं विमुच्य पुनः स्वर्गम् प्रति गमनम् ॥ 1 ॥
युधिष्ठिर उवाच KK03-10-183-001
भवानेतादृशो लोके वेदवेदाङ्गपारगः । KK03-10-183-001a
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा ॥ KK03-10-183-001a
सर्प उवाच KK03-10-183-002
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत । KK03-10-183-002a
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम ॥ KK03-10-183-002c
युधिष्ठिर उवाच KK03-10-183-003
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते । KK03-10-183-003a
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् ॥ KK03-10-183-003c
सर्प उवाच KK03-10-183-004
दानं च सत्यं तत्त्वं वा अहिंसा प्रियमेव च । KK03-10-183-004a
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् ॥ KK03-10-183-004c
क्वचिद्दानप्रयोगाद्धि सत्यमेव विशिष्यते । KK03-10-183-005a
सत्यवाक्याच्च राजेन्द्र क्वचिद्दानं विशिष्यते ॥ KK03-10-183-005c
एवमेव महेष्वास प्रियवाक्यान्महीपते । KK03-10-183-006a
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते ॥ KK03-10-183-006c
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् । KK03-10-183-007a
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् ॥ KK03-10-183-007c
युधिष्ठिर उवाच KK03-10-183-008
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् । KK03-10-183-008a
अशरीरस्य दृश्येत प्रब्रूहि विषयांश्च मे ॥ KK03-10-183-008c
सर्प उवाच KK03-10-183-009
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः । KK03-10-183-009a
मानुषं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा ॥ KK03-10-183-009c
तत्र वै मानुषाल्लोकाद्दानादिभिरनादिभिः । KK03-10-183-010a
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते ॥ KK03-10-183-010c
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् । KK03-10-183-011a
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते ॥ KK03-10-183-011c
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः । KK03-10-183-012a
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते ॥ KK03-10-183-012c
तिर्यग्योन्याः पृथग्भावो मनुष्यार्थे विधीयते । KK03-10-183-013a
गवादिभ्यस्तथाऽश्वेभ्यो देवत्वमपि दृश्यते ॥ KK03-10-183-013c
सोयमेता गतीस्तात जन्तुश्चरति कार्यवान् । KK03-10-183-014a
निम्ने महति चात्मानमवस्थाप्य च वै नृप ॥ KK03-10-183-014c
जातो जातश्च बलवान्भुङ्क्ते नाम्नाऽथ देहवान् । KK03-10-183-015a
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः ॥ KK03-10-183-015c
युधिष्ठिर उवाच KK03-10-183-016
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः । KK03-10-183-016a
तस्याधिष्ठानमव्यग्रो ब्रूहि सर्प यथातथम् ॥ KK03-10-183-016c
किं न गृह्णासि विषयान्युगपत्त्वं महामते । KK03-10-183-017a
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम ॥ KK03-10-183-017c
सर्प उवाच KK03-10-183-018
तदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् । KK03-10-183-018a
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि ॥ KK03-10-183-018c
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ । KK03-10-183-019a
तस्य भोगाधिकरणे करणानि निबोध मे ॥ KK03-10-183-019c
मनसा तात पर्येति क्रमशो विषयानिमान् । KK03-10-183-020a
विषयायतनत्वेन भूतात्मा क्षेत्रविष्ठितः ॥ KK03-10-183-020c
तत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते । KK03-10-183-021a
तस्माद्युगपदत्रास्य ग्रहणं नोपपद्यते ॥ KK03-10-183-021c
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः । KK03-10-183-022a
बुद्धिं द्रव्येषु सृजति विविधेषु परावराम् ॥ KK03-10-183-022c
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः । KK03-10-183-023a
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः ॥ KK03-10-183-023c
युधिष्ठिर उवाच KK03-10-183-024
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् । KK03-10-183-024a
एतदध्यात्मविदुषां परं कार्यं विधीयते ॥ KK03-10-183-024c
सर्प उवाच KK03-10-183-025
बुद्धिरात्मानुगाऽतीव उत्पातेन विधीयते । KK03-10-183-025a
तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत् ॥ KK03-10-183-025c
बुद्धिरुत्पद्यते कार्यान्मनस्तूत्पन्नमेव हि । KK03-10-183-026a
बुद्धेर्गुणविधानेन मनस्तद्गुणवद्भवेत् ॥ KK03-10-183-026c
एतद्विशेषणं तात मनो बुद्ध्योर्मयेरितम् । KK03-10-183-027a
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यसे स्वयम् ॥ KK03-10-183-027c
युधिष्ठिर उवाच KK03-10-183-028
अहो बुद्धिमतांश्रेष्ठ शुभा बुद्धिरियं तव । KK03-10-183-028a
विदितं वेदितव्यं ते कस्मान्नहुष पृच्छसि ॥ KK03-10-183-028c
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् । KK03-10-183-029a
एवमद्भुतकर्माणमिति मे संशयो महान् ॥ KK03-10-183-029c
सर्प उवाच KK03-10-183-030
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् । KK03-10-183-030a
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम ॥ KK03-10-183-030c
सोहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर । KK03-10-183-031a
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् ॥ KK03-10-183-031c
कृतं कार्यं महाराज त्वया मम परन्तप । KK03-10-183-032a
क्षीणः शाप सुकृच्छ्रो मे त्वया सम्भाष्य साधुना ॥ KK03-10-183-032c
अहं हि दिवि दिव्येन विमानेन चरन्पुरा । KK03-10-183-033a
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् ॥ KK03-10-183-033c
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसपन्नगाः । KK03-10-183-034a
वरं मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः ॥ KK03-10-183-034c
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते । KK03-10-183-035a
तस्य तेजो हराम्याशु तद्धि दृष्टेर्बलं मम ॥ KK03-10-183-035c
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम । KK03-10-183-036a
स मामपनयो राजन्भ्रंशयामास वै श्रियः ॥ KK03-10-183-036c
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो महामुनिः । KK03-10-183-037a
अगस्त्येन ततोस्म्युक्तो ध्वंस सर्पेति वै रुषा ॥ KK03-10-183-037c
ततस्तस्माद्विमानाग्र्यात्प्रच्युतश्च्युतलक्षणः । KK03-10-183-038a
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् ॥ KK03-10-183-038c
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति । KK03-10-183-039a
प्रमादात्सम्प्रमूढस्य भगवन्क्षन्तुमर्हसि ॥ KK03-10-183-039c
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः । KK03-10-183-040a
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति ॥ KK03-10-183-040c
अभिमानस्य वै तस्य बलस्य च नराधिप । KK03-10-183-041a
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि ॥ KK03-10-183-041c
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् । KK03-10-183-042a
ब्रह्म च ब्राह्मणत्वं च येन त्वाऽहमचूचुदम् ॥ KK03-10-183-042c
सत्यं दमस्तपो योगमहिंसा ज्ञाननित्यता । KK03-10-183-043a
साधकानि सतां पुंसां न जातिर्न कुलं नृप ॥ KK03-10-183-043c
अरिष्ट एष ते भ्राता मुक्तो भीमो महाभुज । KK03-10-183-044a
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः ॥ KK03-10-183-044c
'स चायं पुरुषव्याघ्र कालः पुण्य उपागतः । KK03-10-183-045a
तदस्मात्कारणात्पार्थ कार्यं तन्मे महत्कृतम्' ॥ KK03-10-183-045c
वैशम्पायन उवाच KK03-10-183-046
'ततस्तस्मिन्मुहूर्ते तु विमानं कामगामि वै । KK03-10-183-046a
अवपातेन महता तत्रावाप तदुत्तमम्' ॥ KK03-10-183-046c
इत्युक्त्वाऽऽजगरं देहं मुक्त्वा स नहुषो नृपः । KK03-10-183-047a
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह ॥ KK03-10-183-047c
युधिष्ठिरोपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः । KK03-10-183-048a
धौम्येन सहितः श्रीमानाश्रमं पुनरागमत् ॥ KK03-10-183-048c
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् । KK03-10-183-049a
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः ॥ KK03-10-183-049c
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः । KK03-10-183-050a
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी ॥ KK03-10-183-050c
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया । KK03-10-183-051a
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् ॥ KK03-10-183-051c
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् । KK03-10-183-052a
हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः ॥ KK03-10-183-052c
इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि त्र्यशीत्यधिकशततमोऽध्यायः ॥ 183 ॥
3-183-4 गुरुलाघवं गौरवं लाघवं चेत्यर्थः ॥ करान्मम प्रयच्छन्तीति झ. पाठः ॥34॥ अभिमानस्य घोरस्य पापस्य च इति झ. पाठः ॥41॥