अध्यायः 182

युधिष्ठिराजगरयोः संवादः ॥ 1 ॥

वैशम्पायन उवाच KK03-10-182-001
युधिष्ठिरस्तमासाद्य सर्पभोगेन वेष्टितम् । KK03-10-182-001a
दयितं भ्रातरं धीमानिदं वचनमब्रवीत् ॥ KK03-10-182-001c
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् । KK03-10-182-002a
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः ॥ KK03-10-182-002c
स धर्मराजमालक्ष्य भ्राता भ्रतरमग्रजम् । KK03-10-182-003a
कथयामास तत्सर्वं ग्रहणादिविचेष्टितम् ॥ KK03-10-182-003c
[अयमार्य महासत्वो भक्षार्थं मां गृहीतवान् । KK03-10-182-004a
नहुषो नाम राजर्षिः प्राणवानिव संस्थितः ॥ KK03-10-182-004c
युधिष्ठिर उवाच KK03-10-182-005
मुच्यतामयमायुष्मन्भ्राता मेऽमितविक्रमः । KK03-10-182-005a
वयमाहारमन्यं ते दास्यामः क्षुन्निवारणम् ॥ KK03-10-182-005c
सर्प उवाच KK03-10-182-006
आहारो राजपुत्रोऽयं मया प्राप्तो मुखागतः । KK03-10-182-006a
गम्यतां नेह स्थातव्यं श्वो भवानपि मे भवेत् ॥ KK03-10-182-006c
व्रतमेतन्महाबाहो विषयं मम यो व्रजेत् । KK03-10-182-007a
स मे भक्षो भवेत्तात त्वं चापि विषये मम ॥ KK03-10-182-007c
चिरेणाद्य मयाऽऽहारः प्राप्तोऽयमनुजस्तव । KK03-10-182-008a
नाहमेनं विमोक्ष्यामि न चान्यमभिकाङ्क्षये ॥] KK03-10-182-008c
युधिष्ठिर उवाच KK03-10-182-009
देवो वा यदि वा दैत्य उरगो वा भवान्यदि । KK03-10-182-009a
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः ॥ KK03-10-182-009c
किमर्थं च त्वया ग्रस्तो भीमसेनो भुजङ्गम । KK03-10-182-010a
किमाहृत्यविदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम । KK03-10-182-010c
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् ॥ KK03-10-182-010e
सर्प उवाच KK03-10-182-011
नहुषो नाम राजाऽहमासं पूर्वस्तवानघ । KK03-10-182-011a
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप ॥ KK03-10-182-011c
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च । KK03-10-182-012a
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तोऽहं विक्रमेण च ॥ KK03-10-182-012c
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा । KK03-10-182-013a
सहस्रं हि द्विजातीनामुवाह शिबिकां मम ॥ KK03-10-182-013c
ऐश्वर्यमदमत्तोऽहमवमत्य ततो द्विजान् । KK03-10-182-014a
इमामगस्त्येन दशामानीत इति मे स्मृतिः ॥ KK03-10-182-014c
न तु मामजहात्प्रज्ञा यावदन्वेति पाण्डवः । KK03-10-182-015a
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः ॥ KK03-10-182-015c
षष्ठे काले मयाऽऽहारः प्राप्तोऽयमनुजस्तव । KK03-10-182-016a
नाहमेनं विमोक्ष्यामि न चान्यदपि कामये ॥ KK03-10-182-016c
प्रश्नानुच्चारितानद्य व्याहरिष्यसि चेन्मम । KK03-10-182-017a
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् ॥ KK03-10-182-017c
युधिष्ठिर उवाच KK03-10-182-018
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः । KK03-10-182-018a
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम ॥ KK03-10-182-018c
वेद्यं च ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् । KK03-10-182-019a
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः ॥ KK03-10-182-019c
सर्प उवाच KK03-10-182-020
ब्राह्मणः को भवेद्राजन्वेद्यं किञ्च युधिष्ठिर । KK03-10-182-020a
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिनोमि ते ॥ KK03-10-182-020c
युधिष्ठिर उवाच KK03-10-182-021
सत्यं दानं क्षमा शीलमानृशंस्यं तपो घृणा । KK03-10-182-021a
दृश्यन्ते यत्रनागेन्द्रस ब्राह्म ण इति स्मृतः ॥ KK03-10-182-021c
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् । KK03-10-182-022a
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् ॥ KK03-10-182-022c
सर्प उवाच KK03-10-182-023
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव हि । KK03-10-182-023a
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर ॥ KK03-10-182-023c
वेद्यं यच्चात्र निर्दुःखमसुखं च नराधिप । KK03-10-182-024a
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये ॥ KK03-10-182-024c
युधिष्ठिर उवाच KK03-10-182-025
शूद्रे तु यद्भवेल्लक्ष्म द्विजे तच्च न विद्यते । KK03-10-182-025a
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः ॥ KK03-10-182-025c
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः । KK03-10-182-026a
तत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् ॥ KK03-10-182-026c
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति च । KK03-10-182-027a
ताभ्यां हीनमतोऽन्यत्र पदं नास्तीति चेदपि ॥ KK03-10-182-027c
एवमेतन्मतं सर्प ताभ्यां हीनं तु विद्यते । KK03-10-182-028a
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता ॥ KK03-10-182-028c
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् । KK03-10-182-029a
एषा मम मतिः सर्प यथा वा मन्यते भवान् ॥ KK03-10-182-029c
सर्प उवाच KK03-10-182-030
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः । KK03-10-182-030a
वृथा जातिस्तदायुष्मन्कृतिर्यावन्न विद्यते ॥ KK03-10-182-030c
युधिष्ठिर उवाच KK03-10-182-031
जातिरत्र महासर्प मनुष्यत्वे महामते । KK03-10-182-031a
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः ॥ KK03-10-182-031c
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः । KK03-10-182-032a
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् ॥ KK03-10-182-032c
इदमार्षं प्रमाणं च ये यजामह इत्यपि । KK03-10-182-033a
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः ॥ KK03-10-182-033c
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । KK03-10-182-034a
'तथोपनयनं प्रोक्तं द्विजातीनां यथाक्रमम्' । KK03-10-182-034c
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ KK03-10-182-034e
वृत्त्या शूद्रसमो ह्येष यावद्वेदेन जायते । KK03-10-182-035a
तस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् ॥ KK03-10-182-035c
कृतकृत्याः सर्ववर्णा यदि वृत्तं न पश्यति । KK03-10-182-036a
सङ्करस्त्वत्र नागेन्द्र बलवान्प्रसमीक्षितः ॥ KK03-10-182-036c
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते । KK03-10-182-037a
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ KK03-10-182-037c
सर्प उवाच KK03-10-182-038
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर । KK03-10-182-038a
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् ॥ KK03-10-182-038c

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

3-182-4 प्राणवान्वायुभक्षः सर्पइव नतु सर्पः ॥ 3-182-28 ताभ्यां हीनं न विद्यते इति झ. पाठः ॥ 3-182-29 हीनं नास्ति पदं क्वचित् इति झ. पाठः ॥ 3-182-33 प्रधानं तदिष्टं चेति कर्मधारयः ॥ 3-182-34 नाभिवर्धनान्नालच्छेदनात् ॥ 3-182-36 यदि वृत्तं न विद्यते इति झ. पाठः । यदि वृत्तं न नश्यति इति ख. पाठः । यदि वृत्तं न दूष्यते इति ध. पाठः ॥