अध्यायः 181

अजगरेण भीमम्प्रति स्वस्याजगरत्वप्रापककारणाभिधानम् ॥ 1 ॥ दुर्निमित्तदर्शनाद्दुर्मनायमानेन युधिष्ठिरेण भीममार्गानुसरणेनाजगरगृहीतभीमस्य दर्शनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-10-181-001
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः । KK03-10-181-001a
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ KK03-10-181-001c
उवाच च महासर्पं कामया ब्रूहि पन्नग । KK03-10-181-002a
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥ KK03-10-181-002c
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः । KK03-10-181-003a
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ KK03-10-181-003c
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा । KK03-10-181-004a
समागताश्च बहुशो निहताश्च मया युधि ॥ KK03-10-181-004c
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः । KK03-10-181-005a
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥ KK03-10-181-005c
किन्नु विद्याबलं किन्नु वरदानमथो तव । KK03-10-181-006a
उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया ॥ KK03-10-181-006c
अनित्यो विक्रमो नॄणामिति मे धीयते मतिः । KK03-10-181-007a
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ KK03-10-181-007c
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् । KK03-10-181-008a
भोगेन महता गृह्य समन्तात्पर्यवेष्टयत् ॥ KK03-10-181-008c
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा । KK03-10-181-009a
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ KK03-10-181-009c
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज । KK03-10-181-010a
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां ॥ KK03-10-181-010c
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिन्दम । KK03-10-181-011a
तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम ॥ KK03-10-181-011c
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्महर्षिणा । KK03-10-181-012a
शापस्यान्तं परिप्रेप्सुः सर्वस्य कथयामि तत् ॥ KK03-10-181-012c
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः । KK03-10-181-013a
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः ॥ KK03-10-181-013c
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च । KK03-10-181-014a
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ KK03-10-181-014c
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् । KK03-10-181-015a
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ KK03-10-181-015c
न हि मे मुच्यते कश्चित्कथञ्चित्प्रग्रहं गतः । KK03-10-181-016a
गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम ॥ KK03-10-181-016c
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता । KK03-10-181-017a
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ KK03-10-181-017c
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् । KK03-10-181-018a
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ KK03-10-181-018c
'यस्त्वया वेष्टितो राजन्मोहमेति महाबलः' । KK03-10-181-019a
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ KK03-10-181-019c
ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः । KK03-10-181-020a
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ KK03-10-181-020c
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित् । KK03-10-181-021a
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ KK03-10-181-021c
गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः । KK03-10-181-022a
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ KK03-10-181-022c
इतिचाप्यहमश्रौषं वचस्तेषां दयावताम् । KK03-10-181-023a
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ KK03-10-181-023c
सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ । KK03-10-181-024a
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते ॥ KK03-10-181-024c
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् । KK03-10-181-025a
न ते कुप्ये महासर्प नात्मने द्विजसत्तम ॥ KK03-10-181-025c
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः । KK03-10-181-026a
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः ॥ KK03-10-181-026c
दैवं पुरुषकारेण को वञ्चयितुमर्हति । KK03-10-181-027a
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ KK03-10-181-027c
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् । KK03-10-181-028a
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् ॥ KK03-10-181-028c
किन्तु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम् । KK03-10-181-029a
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ KK03-10-181-029c
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः । KK03-10-181-030a
मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः ॥ KK03-10-181-030c
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः । KK03-10-181-031a
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ KK03-10-181-031c
अथवा नार्जुनो धीमान्विषादमुपयास्यति । KK03-10-181-032a
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ KK03-10-181-032c
समर्थः स महाबाहुरेकाह्ना सुमहाबलः । KK03-10-181-033a
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥ KK03-10-181-033c
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् । KK03-10-181-034a
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥ KK03-10-181-034c
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् । KK03-10-181-035a
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ KK03-10-181-035c
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम । KK03-10-181-036a
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥ KK03-10-181-036c
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ । KK03-10-181-037a
मद्वाहुबलसङ्गुप्तौ नित्यं पुरुषमानिनौ ॥ KK03-10-181-037c
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ । KK03-10-181-038a
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥ KK03-10-181-038c
एवंविधं बहु तदा विललाप वृकोदरः । KK03-10-181-039a
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ KK03-10-181-039c
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्थचेतनः । KK03-10-181-040a
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ KK03-10-181-040c
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता । KK03-10-181-041a
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ KK03-10-181-041c
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना । KK03-10-181-042a
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा ॥ KK03-10-181-042c
प्रववौ चानिलो रूक्षश्चण्डः शर्करकर्षणः । KK03-10-181-043a
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ KK03-10-181-043c
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति । KK03-10-181-044a
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥ KK03-10-181-044c
हृदयं चरणश्चापि वामोऽस्य परितप्यति । KK03-10-181-045a
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत ॥ KK03-10-181-045c
धर्मराजोपि मेधावी शङ्कमानो महद्भयम् । KK03-10-181-046a
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥ KK03-10-181-046c
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम् । KK03-10-181-047a
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ KK03-10-181-047c
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् । KK03-10-181-048a
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥ KK03-10-181-048c
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः । KK03-10-181-049a
मृगयामास कौन्तेयो भीमसेनं महावने ॥ KK03-10-181-049c
स प्राचीं दिशमास्थाय महतो गजयूथपान् । KK03-10-181-050a
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ KK03-10-181-050c
ततो मृगसहस्राणि मृगेन्द्राणां शतानि च । KK03-10-181-051a
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः ॥ KK03-10-181-051c
धावतस्तस्य वीरस्य मृगार्थं वातरंहसः । KK03-10-181-052a
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि ॥ KK03-10-181-052c
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे । KK03-10-181-053a
[रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसङ्कुले ॥ KK03-10-181-053c
ईरिणे निर्जले देशे कण्टकिद्रुमसङ्कुले । KK03-10-181-054a
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे ।] KK03-10-181-054c
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥ KK03-10-181-054e

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

3-181-2 कामया इच्छातः ॥ 3-181-8 भोगेन देहेन ॥ 3-181-15 उपयोक्ष्यामि भक्षितुगिच्छामि । विधानं दैवम् ॥ 3-181-16 षष्ठे कालेऽष्टधा विभक्तस्याह्नो भागे ॥ 3-181-20 स्मार्तं स्मृतिविषयम् । पुराणं चिरकालीनमपि स्मरामीत्यर्थः ॥ 3-181-21 विभागविदात्मानात्मविवेकवित् ॥ 3-181-26 कदाचिदभावी सामर्थ्यहीनः कदाचित् भावी सामर्थ्यवान् अवश्यं भवति ॥ 3-181-31 परुषोक्तिभिरिति शेषः ॥ 3-181-42 वर्तिका पक्षिविशेषः ॥ 3-181-44 दक्षिणो भुज स्फुरतीति भविष्यतोऽनिष्टप्रशमनस्य लिङ्गम् ॥ 3-181-45 विकारः स्फुरणम् ॥ 3-181-50 यूथपान्पतितान्ददर्शेत्यन्वयः ॥ 3-181-54 ईरिणे ऊषरे । क्षुपाः ह्रस्ववृक्षाः ॥