अध्यायः 180
वने मृगयार्थमटतो भीमस्य महताऽजगरेण ग्रहणम् ॥ 1 ॥
KK03-10-180-001 जनमेजय उवाच
KK03-10-180-001a कथं नागायुतप्राणो भीमो भीमपराक्रमः ।
KK03-10-180-001c भयमाहारयत्तीव्रं तस्मादजगरान्मुने ॥
KK03-10-180-002a पौलस्त्यं धनदं युद्धे य आह्वयति दर्पितः ।
KK03-10-180-002c नलिन्यां कदनं कृत्वा निहन्ता यक्षरक्षसाम् ॥
KK03-10-180-003a तं शंससि भयाविष्टमापन्नमरिसूदनम् ।
KK03-10-180-003c एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ॥
KK03-10-180-004 वैशम्पायन उवाच
KK03-10-180-004a बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् ।
KK03-10-180-004c प्राप्तानामाश्रमं राजन्राजर्षेर्वृषपर्वणः ॥
KK03-10-180-005a यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः ।
KK03-10-180-005c ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् ॥
KK03-10-180-006a स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा ।
KK03-10-180-006c देवर्षिसिद्धचरितानप्सरोगणसेवितान् ॥
KK03-10-180-007a चकोरैरुपचक्रैशच पक्षिभिर्जीवजीवकैः ।
KK03-10-180-007c कोकिलैर्भृङ्गराजैश्च तत्र तत्र निनादितान् ॥
KK03-10-180-008a नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः ।
KK03-10-180-008c उपेतान्बहुलच्छायैर्मनोनयननन्दनैः ॥
KK03-10-180-009a स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसन्निभैः ।
KK03-10-180-009c सलिलैर्हिमसङ्काशैर्हंसकारण्डवायुतैः ॥
KK03-10-180-010a वनानि देवदारूणां मेघानामिव वागुराः ।
KK03-10-180-010c हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि ॥
KK03-10-180-011a मृगयां परिधावन्स समेषु मरुधन्वसु ।
KK03-10-180-011c विध्यन्मृगाञ्शरैः शुद्धैश्चचार स महाबलः ॥
KK03-10-180-012a भीमसेनस्तु विख्यातो महान्तं दंष्ट्रिणं बलात् ।
KK03-10-180-012c निघ्नन्नागशतप्राणो वने तस्मिन्महाबलः ॥
KK03-10-180-013a मृगाणां सवराहाणां महिषाणां महाभुजः ।
KK03-10-180-013c विनिघ्नंस्तत्रतत्रैव भीमो भीमपराक्रमः ॥
KK03-10-180-014a स मातङ्गशतप्राणो मनुष्यशतवारणः ।
KK03-10-180-014c सिंहशार्दूलविक्रान्तो वने तस्मिन्महाबलः ॥
KK03-10-180-015a वृक्षानुत्पाटयामास तरसा वै बभञ्ज च ।
KK03-10-180-015c पृथिव्याश्च प्रदेशान्वै नादयंस्तु वनानि च ॥
KK03-10-180-016a पर्वताग्राणि वै मृद्नन्नादयानश्च विज्वरः ।
KK03-10-180-016c प्रक्षिपन्पादपांश्चापि नादेनापूरयन्महीम् ॥
KK03-10-180-017a वेगेन न्यपतद्भीमो निर्भयश्च पुनः पुनः ।
KK03-10-180-017c आस्फोटयन्क्ष्वेडयंश्च तलतालांश्च वादयन् ।
KK03-10-180-017e चिरसम्बद्धदर्पस्तु भीमसेनो वने तदा ॥
KK03-10-180-018a गजेनद्राश्च महासत्वा मृगेन्द्राश्च महाबलाः ।
भीमसेनस्य नादेन व्यमुञ्चन्त गुहा भयात् ॥ KK03-10-180-018c
क्वचित्प्रधावंस्तिष्ठंश्च क्वचिच्चोपविशंस्तथा । KK03-10-180-019a
मृगप्रेप्सुर्महारौद्रे वने चरति निर्भयः ॥ KK03-10-180-019c
स तत्र मनुजव्याघ्रो वने वनचरोपमः । KK03-10-180-020a
पद्भ्यामभिसमापेदे भीमसेनो महाबलः ॥ KK03-10-180-020c
स प्रविष्टो महारण्ये नादान्नदति चाद्भुतान् । KK03-10-180-021a
त्रासयन्सर्वभूतानि महासत्वपराक्रमः ॥ KK03-10-180-021c
ततो भीमस्य शब्देन भीताः सर्पा गुहाशयाः । KK03-10-180-022a
अतिक्रान्तास्तु वेगेन जगामानुसृतः शनैः । KK03-10-180-022c
ततोऽमरवरप्रख्यो भीमसेनो महाबलः ॥ KK03-10-180-022e
स ददर्श महाकायं भुजङ्गं रोमहर्षणम् । KK03-10-180-023a
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् ॥ KK03-10-180-023c
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः । KK03-10-180-024a
चित्राङ्गमङ्गजैश्चित्रैर्हरिद्रासदृशच्छविम् ॥ KK03-10-180-024c
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता । KK03-10-180-025a
दीप्ताक्षेणातिताम्रेण लिहानं सृक्विणी मुहुः ॥ KK03-10-180-025c
त्रासनं सर्वभूतानां कालान्तकयमोपमम् । KK03-10-180-026a
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् ॥ KK03-10-180-026c
स भीमं सहसाऽभ्येत्य पृदाकुः क्षुधितो भृशम् । KK03-10-180-027a
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् ॥ KK03-10-180-027c
तेन संस्पृष्टगात्रस्य भीमसेनस्य वै तदा । KK03-10-180-028a
सञ्ज्ञा मुमोह सहसा वरदानेन तस्य हि ॥ KK03-10-180-028c
दशनागसहस्राणि धारयन्ति हि यद्बलम् । KK03-10-180-029a
तद्बलं भीमसेनस्य भुजयोरसमं परैः ॥ KK03-10-180-029c
स तेजस्वी तथा तेन भुजगेन वशीकृतः । KK03-10-180-030a
विम्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् ॥ KK03-10-180-030c
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः । KK03-10-180-031a
गृहीतो व्यजहात्सत्वं वरदानविमोहितः ॥ KK03-10-180-031c
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे । KK03-10-180-032a
न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् ॥ KK03-10-180-032c
इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अशीत्यधिकशततमोऽध्यायः ॥ 180 ॥
3-180-10 तुङ्गं कालीयकं च काष्ठविशेषौ ॥ 3-180-11 मरुधन्वसु गिरेर्निर्जलप्रदेशेषु । मरुर्ना गिरिधन्वनोरिति मेदिनी ॥ 3-180-24 पर्वतस्याभोगः विस्तीर्णता तत्परिमाणं वर्ष्म शरीरं यस्य तम् ॥ 3-180-27 पृदाकुः सर्पः ॥ 3-180-31 सत्वं बुद्धिम् ॥