अध्यायः 179
गन्धमादनादवतीर्णैः पाण्डवैः क्रमेण कैलासवृषपर्वसुबाह्वादिनिवासगमनपूर्वकं पुनर्द्वैतदनमेत्य सरस्वतीतीरे सुखविहरणम् ॥ 1 ॥
वैशम्पायन उवाच KK03-10-179-001
नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च । KK03-10-179-001a
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् ॥ KK03-10-179-001c
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव । KK03-10-179-002a
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् ॥ KK03-10-179-002c
समुच्छ्रयान्पर्वतसन्निरोधान् गोष्ठान्हरीणां गिरिगह्वराणि । KK03-10-179-003a
बहुप्रकाराणि समीक्ष्यवीराः स्थलानि निम्नानि च तत्र तत्र ॥ KK03-10-179-003c
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि । KK03-10-179-004a
आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनाः खड्गधरा नराग्र्याः ॥ KK03-10-179-004c
वनानि रम्याणि नदीः सरांसि गुहा गिरीणां गिरिगह्वराणि KK03-10-179-005a
एते निवासाः सततं बभूवुर्निशामुखं प्राप्य नरर्षभाणाम् ॥ KK03-10-179-005c
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् । KK03-10-179-006a
आसेदुरत्यर्थमनोरमं ते तमाश्रमाग्र्यं वृषपर्वणस्तु ॥ KK03-10-179-006c
समेत्य राज्ञा वृषपर्वणा ते प्रत्यर्चितास्तेन च वीतमोहाः । KK03-10-179-007a
शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते ॥ KK03-10-179-007c
सुखोषितास्तस्य त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे । KK03-10-179-008a
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् ॥ KK03-10-179-008c
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगताः समग्राः । KK03-10-179-009a
कुबेरकान्तां नलिनीं विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम् ॥ KK03-10-179-009c
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रधानाः । KK03-10-179-010a
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतमला यथैव ॥ KK03-10-179-010c
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः । KK03-10-179-011a
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः ॥ KK03-10-179-011c
चीनांस्तुषारान्दरदांश्च सर्वान् देशान्कुलिन्दस्य च भूरिरम्यान् । KK03-10-179-012a
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः ॥ KK03-10-179-012c
श्रुत्वा च तान्पार्थिव पुत्रपौत्रान्प्राप्तान्सुबाहुर्विषये समग्रान् । KK03-10-179-013a
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ KK03-10-179-013c
समेत्य राज्ञा तु सुबाहुना ते सुतैर्विशोकप्रमुखैश्च सर्वे । KK03-10-179-014a
सहेन्द्रसेनैः परिचारकैश्च पौरोगवैर्ये च महानसस्थाः ॥ KK03-10-179-014c
सुखोषितास्तत्र त एकरात्रं सूतान्समादाय रथांश्च सर्वान् । KK03-10-179-015a
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ KK03-10-179-015c
तस्मिन्गिरौ प्रस्रवणोपपन्नहिमोत्तरीयारुणपाण्डुसानौ । KK03-10-179-016a
विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः ॥ KK03-10-179-016c
वराहनानामृगपक्षिजुष्टं महावनं चैत्ररथप्रकाशम् । KK03-10-179-017a
शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः ॥ KK03-10-179-017c
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम् । KK03-10-179-018a
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा ॥ KK03-10-179-018c
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः । KK03-10-179-019a
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् ॥ KK03-10-179-019c
ते द्वादशं वर्षमथोपयान्तं वने विहर्तुं कुरवः प्रतीताः । KK03-10-179-020a
तस्माद्वनाच्चैत्ररथप्रकाशाच्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ KK03-10-179-020c
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः । KK03-10-179-021a
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः ॥ KK03-10-179-021c
समीक्ष्य तान्द्वैतवने निविष्टान्निवासिनस्तत्र ततोऽभिजग्मुः । KK03-10-179-022a
तपोदमाचारसमाधियुक्तास्तृणोदपात्रावरणाश्मकुट्टाः ॥ KK03-10-179-022c
प्लक्षाक्षरौहीतकवेतसाश्च तथा बदर्यः खदिराः शिरीषाः । KK03-10-179-023a
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः ॥ KK03-10-179-023c
तां यक्षगन्धर्वमहर्षिकान्तामावासभूतामिव देवतानाम् । KK03-10-179-024a
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः ॥ KK03-10-179-024c
इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः ॥ 179 ॥
3-179-1 नगोत्तमं गन्धमादनं जहतां त्यजताम् ॥ 3-179-2 कुबेरस्य कान्तं प्रियम् ॥ 3-179-3 समुच्छ्रयान् उच्चैस्त्वानि । सन्निरोधान् सङ्कीर्णत्वानि । गोष्ठान् स्थानानि । हरीणां सिंहानाम् ॥ 3-179-4 अनेकपाः द्विपाः ॥ 3-179-5 गुहा अल्पप्रमाणा दरी । गह्वरं महती दरी ॥ 3-179-9 नलिनीं सरसीम् ॥ 3-179-10 नन्दनमिन्द्रवनम् ॥ 3-179-14 पौरोगवैः पुरोगामिभिः पटगृहादिसामग्रीवाहैः ॥ 3-179-15 यामुनं यमुनोद्गमम् ॥ 3-179-16 पुंसि यथा श्वेतमुत्तरीयं श्वेतारुणमुष्णीषं च तद्वत् गिरौ प्रस्रवणानि अरुणपाण्डुसानूनि च भान्तीत्युत्प्रेक्षा । विशाखयूपं स्थानविशेषः ॥ 3-179-17 शिवेन पार्थाः इति झ. पाठः ॥ 3-179-19 द्वीपो द्वीपवदाश्रयः । ग्राहेण सर्वेण ॥ 3-179-22 तृणोदपात्रावरणाः आसनार्थं तृणेन पाद्यार्थम् उदकपात्रेण च आवृण्वन्ति ते तथाभूताः । अश्मकुट्टाः वानप्रस्था दन्तोलूखलिका एव सन्तो जरया नष्टदन्ता अश्मकुट्टा भवन्ति ॥ 3-179-23 बभूवुः शोभावन्त इति शेषः ॥