अध्यायः 177

अर्जुनेन युधिष्ठिराय दिव्यास्त्रप्रदर्शनन् ॥ 1 ॥ अस्रतेजसा जगत्क्षोभे सति इन्द्रचोदनया नरादेनार्जुनम्प्रत्यस्त्रप्रदर्शनप्रतिषेधनम् ॥ 2 ॥

वैशम्पायन उवाच KK03-09-177-001
तस्यां रात्र्यां व्यतीतायां धर्मराजो युधिष्ठिरः । KK03-09-177-001a
उत्थायावश्यकार्याणि कृतवान्भ्रातृभिः सह ॥ KK03-09-177-001c
ततः सञ्चोदयामास सोऽर्जुनं मातृनन्दनम् । KK03-09-177-002a
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया ॥ KK03-09-177-002c
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः । KK03-09-177-003a
अस्त्राणि तानि दिव्यानि दर्शयामास भारत ॥ KK03-09-177-003c
यथान्यायं महातेजाः शौचं परममास्थितः । KK03-09-177-004a
'नमस्कृत्य त्रिनेत्राय वासवाय च पाण्डवः' ॥ KK03-09-177-004c
गिरिकूबरपादाक्षं शुभवेणु त्रिवेणुमत् । KK03-09-177-005a
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः ॥ KK03-09-177-005c
दिव्येन संवृतस्तेन कवचेन सुवर्चसा । KK03-09-177-006a
धनुरादाय गाण्डीवं देवदत्तं स वारिजम् ॥ KK03-09-177-006c
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः । KK03-09-177-007a
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे ॥ KK03-09-177-007c
अथ प्रयोक्ष्यमाणेषु दिव्येष्वस्त्रेषु तेषु वै । KK03-09-177-008a
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा ॥ KK03-09-177-008c
क्षुभिताः सरितश्चैव तथैव च महोदधिः । KK03-09-177-009a
शैलाश्चापि व्यदीर्यन्त न ववौ च समीरणः ॥ KK03-09-177-009c
न बभासे सहस्रांशुर्न जज्वाल च पावकः । KK03-09-177-010a
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन ॥ KK03-09-177-010c
अन्तर्भूमिगता ये च प्राणिनो जनमेजय । KK03-09-177-011a
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् ॥ KK03-09-177-011c
वेपमानाः प्राञ्जलयस्ते सर्वे विकृताननाः । KK03-09-177-012a
दह्यमानास्तदाऽस्त्रैस्ते याचन्ति स्म धनञ्जयम् ॥ KK03-09-177-012c
ततो ब्रह्मर्षयश्चैव सिद्धा ये च महर्षयः । KK03-09-177-013a
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे ॥ KK03-09-177-013c
देवर्षयश्च प्रवरास्तथैव च दिवौकसः । KK03-09-177-014a
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः । KK03-09-177-014c
खेचराणि च भूतानि सर्वाण्येवावतस्थिरे ॥ KK03-09-177-014e
ततः पितामहश्चैव लोकपालाश्च सर्वशः । KK03-09-177-015a
भगवांश्च महादेवः सगणोऽभ्याययौ तदा ॥ KK03-09-177-015c
ततो वायुर्महाराज दिव्यैर्माल्यैः समन्वितः । KK03-09-177-016a
अभितः पाण्डवं चित्रैरवचक्रे समन्ततः ॥ KK03-09-177-016c
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः । KK03-09-177-017a
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः ॥ KK03-09-177-017c
तस्मिंश्च तादृशे काले नारदश्चोदितः सुरैः । KK03-09-177-018a
आगम्याह वचः पार्थं श्रवणीयमिदं नृप ॥ KK03-09-177-018c
अर्जुनार्जुन मा युङ्क्ष दिव्यान्यस्त्राणि भारत । KK03-09-177-019a
नैतानि निरधिष्ठाने प्रयुज्यन्ते कथञ्चन ॥ KK03-09-177-019c
अधिष्ठाने न वाऽनार्तः प्रयुञ्जीत कदाचन । KK03-09-177-020a
प्रयोगेषु महान्दोषो ह्यस्त्राणां कुरुनन्दन ॥ KK03-09-177-020c
एतानि रक्ष्यमाणानि धनञ्जय यथागमम् । KK03-09-177-021a
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः ॥ KK03-09-177-021c
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव । KK03-09-177-022a
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् ॥ KK03-09-177-022c
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे । KK03-09-177-023a
योज्यमानानि पार्थेन द्विषतामवमर्दने ॥ KK03-09-177-023c
वैशम्पायन उवाच KK03-09-177-024
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् । KK03-09-177-024a
जग्मुरन्ये च ये तत्र रसमाजग्मुर्नरर्षभ ॥ KK03-09-177-024c
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः । KK03-09-177-025a
तस्मिननेव वने हृष्टास्त ऊषुः सह कृष्णया ॥ KK03-09-177-025c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥

3-177-2 मातृनन्दनं मातुः सुखकरम् ॥ 3-177-5 गिरयएव कूबरादयस्तद्वन्तम् । कूबरो यस्मिन् युगं ध्रियते तद्दारु । पादौ चक्रे । अक्षः तयोः सन्धानं दारु । शुभाः वेणव इव वेणवो यस्मिन् तत् शुभवेणु त्रिवेणु अक्षकूबरयोः सन्धानार्थं त्रिशिखं दारु तद्वन्तम् । सुपां सुलुगिति द्वितीयाया आर्षो लुक् । रथपदे वा क्लीबत्वं ध्येयम् । पृथिवीमेव पार्थिवं मानसं भूमिरूपं रथम् ॥ 3-177-6 वारिजं शङ्खम् । देवदत्तं नामतः ॥ 3-177-7 दर्शनाय दर्शयितुम् ॥ 3-177-19 निरधिष्ठाने लक्ष्याभावे सति ॥ 3-177-20 अधिष्ठानेपि वा अनार्तः न प्रयुञ्जीत ॥