अध्यायः 176
अर्जुनेन युधिष्ठिरम् प्रति इन्द्रेण स्वस्मै सानुग्रहं कवचकिरीटादिदानकथनम् ॥ 1 ॥ तथा युधिष्ठिरेण दिव्यास्त्रप्रदर्शनचोदनायां श्वःप्रदर्शनप्रतिज्ञानम् ॥ 2 ॥
अर्जुन उवाच KK03-09-176-001
ततो मामतिविश्वस्तं संरूढशरविक्षतम् । KK03-09-176-001a
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् ॥ KK03-09-176-001c
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत । KK03-09-176-002a
न त्वाऽभिभवितुं शक्तो मानुषो भुवि कश्चन ॥ KK03-09-176-002c
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः । KK03-09-176-003a
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् ॥ KK03-09-176-003c
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः । KK03-09-176-004a
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् ॥ KK03-09-176-004c
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् । KK03-09-176-005a
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह ॥ KK03-09-176-005c
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च । KK03-09-176-006a
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च ॥ KK03-09-176-006c
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप । KK03-09-176-007a
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह ॥ KK03-09-176-007c
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह । KK03-09-176-008a
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते ॥ KK03-09-176-008c
एवमिन्द्रस्य भवने पञ्चवर्षाणि भारत । KK03-09-176-009a
उषितानि मया राजन्स्मरता द्यूतजं कलिम् ॥ KK03-09-176-009c
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् । KK03-09-176-010a
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि ॥ KK03-09-176-010c
युधिष्ठिर उवाच KK03-09-176-011
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत । KK03-09-176-011a
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः ॥ KK03-09-176-011c
दिष्ट्या च भगवन्स्थाणुर्देव्या सह परन्तपः । KK03-09-176-012a
साक्षाद्दृष्टः स्वयुद्धेन तोषितश्च त्वयाऽनघ ॥ KK03-09-176-012c
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ । KK03-09-176-013a
दिष्ट्या वर्धामहे पार्थ दिष्ट्याऽसि पुनरागतः ॥ KK03-09-176-013c
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् ।' KK03-09-176-014a
पश्यामि भूमिं कौन्तेय त्वया मे प्रतिपादिताम्' । KK03-09-176-014c
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् ॥ KK03-09-176-014e
इच्छामि तानि चास्त्राणि द्रष्टुं दिव्यानि भारत । KK03-09-176-015a
यैस्तथा वीर्यवन्तस्ते निवातकवचा हताः ॥ KK03-09-176-015c
अर्जुन उवाच KK03-09-176-016
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः । KK03-09-176-016a
निवातकवचा घोरा यैर्मया विनिपातिताः ॥ KK03-09-176-016c
वैशम्पायन उवाच KK03-09-176-017
एवमागमनं तत्र कथयित्वा धनञ्जयः । KK03-09-176-017a
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह ॥ KK03-09-176-017c
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥
3-176-1 अतिविश्वस्तम् अति अत्यन्तं विश्वस्तं शत्रून् जेष्यतीति विश्वासो यस्मिंस्तम् । संरूढा देहे निमग्नाः शरास्तैर्विक्षतम् ॥ 3-176-2 त्वा त्वाम् ॥