अध्यायः 175

निवातकवचवधानन्तरं स्वर्गम्प्रत्यागच्छताऽर्जुनेन मध्येमार्गं हिरण्यपुरावलोकनम् ॥ 1 ॥ ततस्तद्वासिनां पौलोमानां कालकेयानाञ्च वधानन्तरम् पुनः स्वर्गम् प्रत्यागमनम् ॥ 2 ॥

KK03-09-175-001 अर्जुन उवाच
KK03-09-175-001a निवर्तमानेन मया महद्दृष्टं ततोऽपरम् ।
KK03-09-175-001c पुरं कामगमं दिव्यं पावकार्कसमप्रभम् ॥
KK03-09-175-002a रत्नद्रुममयैश्चित्रैर्भास्वरैश्च पतत्रिभिः ।
KK03-09-175-002c पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् ॥
KK03-09-175-003a गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् ।
KK03-09-175-003c सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् ॥
KK03-09-175-004a द्रुमैः पुष्पलोपेतैः सर्वरत्नमयैर्वृतम् ।
KK03-09-175-004c तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः ॥
KK03-09-175-005a असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः ।
KK03-09-175-005c चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् ॥
KK03-09-175-006a तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् ।
KK03-09-175-006c अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै ॥
KK03-09-175-007 मातलिरुवाच
KK03-09-175-007a पुलोमा नाम दैतेयी कालका च महासुरी ।
KK03-09-175-007c दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः ॥
KK03-09-175-008a तपसोन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् ।
KK03-09-175-008c अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् ॥
KK03-09-175-009a अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः ।
KK03-09-175-009c पुरं सुरमणीयं च खचरं सुकृतप्रभम् ॥
KK03-09-175-010a सर्वरत्नैः समुदितं दुर्धर्षममरैरपि ।
KK03-09-175-010c महर्षियक्षगन्धर्वपन्नगासुरराक्षसैः ॥
KK03-09-175-011a सर्वकामगुणोपेतं वीतशोकमनामयम् ।
KK03-09-175-011c ब्रह्मणो भवनाच्छ्रेष्ठं कालकेयकृतं विभो ॥
KK03-09-175-012a तदेतत्खपुरं दिव्यं चरत्यमरवर्जितम् ।
KK03-09-175-012c पौलोमाध्युषितं वीर कालकेयैश्च दानवैः ॥
KK03-09-175-013a हिरण्यपुरमित्येवं ख्यायते नगरं महत् ।
KK03-09-175-013c रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः ॥
KK03-09-175-014a त एते मुदिता राजन्नवध्याः सर्वदैवतैः ।
KK03-09-175-014c निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः ॥
KK03-09-175-015a 'सुरासुरैरवध्यानां दानवानां धनञ्जय' ।
KK03-09-175-015c मानुषान्मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा ॥
KK03-09-175-016a [एतानपि रणे पार्थ कालकेयान्दुरासदान् ।
KK03-09-175-016c वज्रास्त्रेण नयस्वाशु विनाशं सुमहाबलान्] ॥
KK03-09-175-017 अर्जुन उवाच
KK03-09-175-017a सुरासुरैरवध्यं तदहं ज्ञात्वा विशाम्पते ।
KK03-09-175-017c अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा ॥
KK03-09-175-018a त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् ।
KK03-09-175-018c न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः ॥
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् । KK03-09-175-019a
रथेन तेन दिव्येन हरियुक्तेन मातलिः ॥ KK03-09-175-019c
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः । KK03-09-175-020a
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः ॥ KK03-09-175-020c
ततो नालीकनाराचैर्भल्लैः शक्त्यृष्टितोमरैः । KK03-09-175-021a
प्रत्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः ॥ KK03-09-175-021c
तदहं शस्त्रवर्षेण महता प्रत्यवारयम् । KK03-09-175-022a
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः ॥ KK03-09-175-022c
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे । KK03-09-175-023a
तेऽन्योन्यमभिसम्मूढाः पातयन्ति स्म दानवाः ॥ KK03-09-175-023c
तेषामेवं विमूढानामन्योन्यमभिधावताम् । KK03-09-175-024a
शिरांसि विशिखैर्दीप्तैरच्छिन्दं शतसङ्घशः ॥ KK03-09-175-024c
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः । KK03-09-175-025a
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् ॥ KK03-09-175-025c
ततोऽहं शरवर्षेण महता कुरुनन्दन । KK03-09-175-026a
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् ॥ KK03-09-175-026c
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् । KK03-09-175-027a
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् ॥ KK03-09-175-027c
अन्तर्भूमौ निपतति पुनरूर्ध्वं प्रतिष्ठते । KK03-09-175-028a
पुनस्तिर्यक् प्रयात्याशु पुनरप्सु निमज्जति ॥ KK03-09-175-028c
अमरावतिसङ्काशं तत्पुरं कामगं महत् । KK03-09-175-029a
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णां परन्तप ॥ KK03-09-175-029c
ततोऽहं शरजालेन दिव्यास्त्रनुदितेन च । KK03-09-175-030a
व्यगृह्णां सह दैतेयैस्तत्पुरं पुरुषर्षभ ॥ KK03-09-175-030c
विक्षत चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः । KK03-09-175-031a
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् ॥ KK03-09-175-031c
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः । KK03-09-175-032a
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः ॥ KK03-09-175-032c
ततो मातलिरारुह्य पुरस्तान्निपतन्निव । KK03-09-175-033a
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा ॥ KK03-09-175-033c
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् । KK03-09-175-034a
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत । KK03-09-175-034c
तान्यहं निशितैर्बाणैर्व्यधमं गार्ध्रराजितैः ॥ KK03-09-175-035a
ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः । KK03-09-175-035c
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य तत् ॥ KK03-09-175-036a
ततोऽहमानुपूर्व्येण दिव्यान्यस्त्राण्ययोजयम् ॥ KK03-09-175-036c
ततस्तानि सहस्राणि रथिनां चित्रयोधिनाम् । KK03-09-175-037a
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्छनकैरिव ॥ KK03-09-175-037c
रथमार्गान्विचित्रांस्ते विचरन्तो महाबलाः । KK03-09-175-038a
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः ॥ KK03-09-175-038c
विचित्रमुकुटापीडा विचित्रकवचध्वजाः । KK03-09-175-039a
विचित्राभरणाश्चैव मम प्रीतिकराऽभवन् ॥ KK03-09-175-039c
अहं तुशरवर्षैस्तानस्त्रप्रचुदितै रणे । KK03-09-175-040a
नाशक्रुवं पीडयितुं ते तु मां प्रत्यपीडयन् ॥ KK03-09-175-040c
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि । KK03-09-175-041a
व्यथितोस्मि महायुद्धे भयं चागान्महन्मम ॥ KK03-09-175-041c
'ततोहं परमायत्तो मातलिं परिपृष्टवान् ॥ KK03-09-175-042ac
किमेते मम बाणौघैर्दिव्यास्त्रप्रतिमन्त्रितैः । KK03-09-175-043a
न वध्यन्ते महाघोरैस्तत्त्वमाख्याहि पृच्छतः ॥ KK03-09-175-043c
स मामुवाच पर्याप्तस्त्वमेषां भरतर्षभ । KK03-09-175-044a
तानुद्दिश्याथ मर्माणि प्रतिघातं तदाचर ॥ KK03-09-175-044c
एतच्छ्रुत्वा तु राजेन्द्र सम्प्रहृष्टस्तमूचिवान् । KK03-09-175-045a
निवर्तय रथं शीघ्रं पश्य चैतान्निपातितान् ॥ KK03-09-175-045c
एवमुक्तो रथं तत्र मातलिः पर्यवर्तयत् ॥ KK03-09-175-046ac
ततो मत्वा रणे भग्नं दानवाः प्रतिहर्षिताः । KK03-09-175-047a
विचुक्रुशुर्महाराज स्वरेण महता मुहुः ॥ KK03-09-175-047c
अभग्नः कैश्चिदप्येष पाण्डवो रणमूर्धनि । KK03-09-175-048a
अस्माभिः समरे भग्न इत्येवं सङ्घशस्तदा ॥ KK03-09-175-048c
ततोहं देवदेवाय रुद्रायाव्यक्तमूर्तये । KK03-09-175-049a
प्रयतः प्रणतो भूत्वा नमस्कृत्य महात्मने' । KK03-09-175-049c
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रम् समयोजयम् ॥ KK03-09-175-049e
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् । KK03-09-175-050a
'महत्पाशुपतं दिव्यं सर्वलोकनमस्कृतम्' ॥ KK03-09-175-050c
'ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् । KK03-09-175-051a
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् । KK03-09-175-051c
लेलिहानैर्महानागैः कृतचिह्नममित्रहन् ॥ KK03-09-175-051e
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् । KK03-09-175-052a
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ ॥ KK03-09-175-052c
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे । KK03-09-175-053a
मुक्तवान्दानवेन्द्राणां पराभावाय भारत ॥ KK03-09-175-053c
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः । KK03-09-175-054a
मृगाणामथ सिंहानां व्याघ्राणां च विशाम्पते ॥ KK03-09-175-054c
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् । KK03-09-175-055a
शरभाणां गजानां च वानराणां च सङ्घशः । KK03-09-175-055c
ऋषभाणां वराहाणां मार्जाराणां तथैव च ॥ KK03-09-175-055e
सालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः । KK03-09-175-056a
गृध्राणां गरुडानां च चमराणां तथैव च ॥ KK03-09-175-056c
देवानां च ऋषीणां च गन्धर्वाणां च सर्वशः । KK03-09-175-057a
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् ॥ KK03-09-175-057c
गुह्यकानां च सङ्ग्रामे नैर्ऋतानां तथैव च । KK03-09-175-058a
झषाणां गजवक्त्राणामुलूकानां तथैव च ॥ KK03-09-175-058c
मीनवाजिसरूपाणां नानाशस्त्रासिपाणिनाम् । KK03-09-175-059a
तथैव यातुधानानां गदामुद्गरधारिणाम् ॥ KK03-09-175-059c
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तदा । KK03-09-175-060a
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते ॥ KK03-09-175-060c
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः । KK03-09-175-061a
अनेकरूपसंयुक्तैर्मांसमेदोवसास्थिभिः ॥ KK03-09-175-061c
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः । KK03-09-175-062a
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः ॥ KK03-09-175-062c
अद्रिसारमयैश्चान्यैर्बाणैरपि निबर्हणैः । KK03-09-175-063a
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत ॥ KK03-09-175-063c
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् । KK03-09-175-064a
दृष्ट्वाऽहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे ॥ KK03-09-175-064c
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् । KK03-09-175-065a
निशाम्य परमं हर्षमगमद्देवसारथिः ॥ KK03-09-175-065c
तदसह्यं कृतं कर्म देवैरपि दुरासदम् । KK03-09-175-066a
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः ॥ KK03-09-175-066c
उचाच वचनं चेदं प्रीयमाणः कृताञ्जलिः । KK03-09-175-067a
'हतांस्तान्दानवान्दृष्ट्वा मया सङ्ख्ये सहस्रशः ॥ KK03-09-175-067c
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया । KK03-09-175-068a
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः । KK03-09-175-068c
'ध्रुवं धनञ्जय प्रीतस्त्वयि शक्रः पुरार्दन' ॥ KK03-09-175-068e
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् । KK03-09-175-069a
त्वया विमथितं वीर स्ववीर्यतपसो बलात् ॥ KK03-09-175-069c
अर्जुन उवाच KK03-09-175-070
विध्वस्ते खपुरे तस्मिन्दानवेषु हतेषु च । KK03-09-175-070a
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः ॥ KK03-09-175-070c
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः । KK03-09-175-071a
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले ॥ KK03-09-175-071c
रुदत्यो दीनकण्ठ्यस्तु निनदन्त्यो हतेश्वराः । KK03-09-175-072a
उरांसि पाणिभिर्घ्नन्त्यो विस्रस्तस्रग्विभूषणाः ॥ KK03-09-175-072c
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् । KK03-09-175-073a
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् ॥ KK03-09-175-073c
गन्धर्वनगराकारं हृतनागमिव ह्रदम् । KK03-09-175-074a
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् ॥ KK03-09-175-074c
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् । KK03-09-175-075a
देवराजस्य भवनं कृतकर्माणमाहवात् ॥ KK03-09-175-075c
हिरण्यपुरमुत्सृज्य निहत्य च महासुरान् । KK03-09-175-076a
निवातकवचांश्चैव ततोऽहं शक्रमागमम् ॥ KK03-09-175-076c
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् । KK03-09-175-077a
सर्वं विश्रावयामास यथाभूतं महाद्युते ॥ KK03-09-175-077c
हिरण्यपुरघातं च मायानां च निवारणम् । KK03-09-175-078a
निवातकवचानां च वधं सङ्ख्ये महौजसाम् । KK03-09-175-078c
'कालकेयवधं चैव अद्भुतं रोमहर्षणम्' ॥ KK03-09-175-078e
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरन्दरः । KK03-09-175-079a
मरुद्भिः सहितः श्रीमान्साधुसाध्वित्यथाब्रवीत् । KK03-09-175-079c
'परिष्वज्य च मां प्रेम्णा मूर्ध्नि चाघ्राय सस्मितम्' ॥ KK03-09-175-079e
ततो मां देवराजो वै समाश्वास्य पुनः पुनः । KK03-09-175-080a
अब्रवीद्विबुधैः सार्धमिदं समधुरं वचः ॥ KK03-09-175-080c
अतिदेवासुरं कर्म कृतमेव त्वया रणे । KK03-09-175-081a
गुर्वर्थश्च कृतः पार्थ महाशत्रून्घ्नता मम ॥ KK03-09-175-081c
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय । KK03-09-175-082a
असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् ॥ KK03-09-175-082c
अविषह्यो रणे हि त्वं देवदानवराक्षसैः । KK03-09-175-083a
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः ॥ KK03-09-175-083c
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् । KK03-09-175-084a
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः ॥ KK03-09-175-084c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि पञ्चसप्तत्यधिकशततमोऽध्यायः ॥ 175 ॥

3-175-12 खपुरं खचरत्वात् ॥ 3-175-18 न वध्या इति न अपितु वध्या एव ॥ 3-175-33 आरुह्य गगनमुत्पत्य । अवातरत् अवतीर्णः ॥ 3-175-34 पर्यवर्तन्त परिवार्य अवर्तन्त । गार्ध्रराजितैः गृध्रपत्रशोभितैः ॥ 3-175-35 युद्धे निमित्ते सति सन्न्यवर्तन्त । इमे वयमिति शेषः । युद्धेन जेतुमिति शेषः ॥ 3-175-61 मांसमेदोवसास्थिभिः संयुक्तैरिति शेषः ॥ 3-175-63 निबर्हणैर्नाशकरैः ॥ 3-175-65 निशाम्य दृष्ट्वा ॥