अध्यायः 174
अर्जुनेन निवातकवचवधानन्तरम् पुनः स्वर्गम्प्रति प्रस्तानम् ॥ 1 ॥
अर्जुन उवाच KK03-09-174-001
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया । KK03-09-174-001a
अदृश्यनास्त्रवीर्येण तानप्यहमयोधयम् ॥ KK03-09-174-001c
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः । KK03-09-174-002a
अच्छिन्दन्नुत्तमाङ्गानि यत्रयत्र स्म तेऽभवन् ॥ KK03-09-174-002c
ततो निवातकवचा वध्यमाना मया युधि । KK03-09-174-003a
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः ॥ KK03-09-174-003c
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने । KK03-09-174-004a
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः ॥ KK03-09-174-004c
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च । KK03-09-174-005a
शतशः स्म प्रदृश्यन्ते गात्राणि कवचानि च ॥ KK03-09-174-005c
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् । KK03-09-174-006a
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः ॥ KK03-09-174-006c
ततो निवातकवचा व्योम सञ्छाद्य केवलम् । KK03-09-174-007a
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् ॥ KK03-09-174-007c
अन्तर्भूमिगताश्चान्ये हयानां चरणानथ । KK03-09-174-008a
व्यगृह्णन्दानवा घोरा रथचक्रे च भारत ॥ KK03-09-174-008c
विनिगृह्य हयांश्चान्ये रथं च मम युध्यतः । KK03-09-174-009a
सर्वतो मामविध्यन्त सरथं धरणीधरैः ॥ KK03-09-174-009c
पर्वतैरुपचीयद्भिः पतद्भिश्च तथाऽपरैः । KK03-09-174-010a
स देशो यत्र वर्तामि गुहेव समपद्यत ॥ KK03-09-174-010c
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः । KK03-09-174-011a
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् ॥ KK03-09-174-011c
लक्षयित्वा च मां भीतमिदं वचनमब्रवीत् । KK03-09-174-012a
आर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय ॥ KK03-09-174-012c
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् । KK03-09-174-013a
देवराजस्य दयितं वज्रमस्त्रं नराधिप ॥ KK03-09-174-013c
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च । KK03-09-174-014a
अमुञ्चं वज्रसंस्पर्शानायतान्निशिताञ्शरान् ॥ KK03-09-174-014c
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् । KK03-09-174-015a
ते वज्रचोदिता बाणा वज्रभूताः समाविशन् ॥ KK03-09-174-015c
ते वज्रवेगविहता दानवाः पर्वतोपमाः । KK03-09-174-016a
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले ॥ KK03-09-174-016c
अन्तर्भूमौ च येऽगृह्णन्दानवा रथवाजिनः । KK03-09-174-017a
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् ॥ KK03-09-174-017c
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः । KK03-09-174-018a
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः ॥ KK03-09-174-018c
न हयानां क्षतिः काचिन्न रथस्य न मातलेः । KK03-09-174-019a
मम चादृश्यत तदा तदद्भुतमिवाभवत् ॥ KK03-09-174-019c
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत । KK03-09-174-020a
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते ॥ KK03-09-174-020c
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः । KK03-09-174-021a
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः ॥ KK03-09-174-021c
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् । KK03-09-174-022a
त्रासयन्रथघोषेण निवातकवचस्त्रियः ॥ KK03-09-174-022c
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् । KK03-09-174-023a
रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः ॥ KK03-09-174-023c
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः । KK03-09-174-024a
शिलानामिव शैलेषु पतन्तीनामभूत्तदा ॥ KK03-09-174-024c
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् । KK03-09-174-025a
बहुरत्नविचित्राणि शातकुम्भमयानि च ॥ KK03-09-174-025c
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् । KK03-09-174-026a
विशिष्टं देवनगरादपृच्छं मातलिं ततः ॥ KK03-09-174-026c
इदमेवंविधं कस्माद्देवता न विशन्त्युत । KK03-09-174-027a
पुरन्दरपुराद्धीदं विशिष्टमिति लक्षये ॥ KK03-09-174-027c
मातलिरुवाच KK03-09-174-028
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् । KK03-09-174-028a
ततो निवातकवचैरितः प्रच्याविताः सुराः ॥ KK03-09-174-028c
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् । KK03-09-174-029a
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि ॥ KK03-09-174-029c
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः । KK03-09-174-030a
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया ॥ KK03-09-174-030c
तत उक्तो भगवता दिष्टमत्रेति भारत । KK03-09-174-031a
भवितान्तस्त्वमप्येषां देहेनान्येन वृत्रहन् ॥ KK03-09-174-031c
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव । KK03-09-174-032a
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया ॥ KK03-09-174-032c
कालस्य परिणामेन ततस्त्वमिह भारत । KK03-09-174-033a
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा ॥ KK03-09-174-033c
दानवानां विनाशार्थं महास्त्राणां महद्बलम् । KK03-09-174-034a
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् ॥ KK03-09-174-034c
अर्जुन उवाच KK03-09-174-035
ततः प्रशाम्य नगरं दानवांश्च निहत्य तान् । KK03-09-174-035a
पुनर्मातलिना सार्धमगमं देवसद्म तत् ॥ KK03-09-174-035c
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 174 ॥
3-174-21 लक्ष्मणाः सारस्यः ॥ 3-174-35 प्रशाम्य प्रकर्षेण आलोच्य ॥