अध्यायः 173

अर्जुनेन दिव्यास्त्रैर्मायानिरसनपूर्वकं दैत्यहननम् ॥ 1 ॥

अर्जुन उवाच KK03-09-173-001
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः । KK03-09-173-001a
नगमात्रैः शिलाखण्डैस्तन्मां दृढमपीडयत् ॥ KK03-09-173-001c
तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः । KK03-09-173-002a
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे ॥ KK03-09-173-002c
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत । KK03-09-173-003a
तत्राश्मचूर्णा न्यपतन्पावकप्रकरा इव ॥ KK03-09-173-003c
ततोऽश्मवर्षे विहते जलवर्षं महत्तरम् । KK03-09-173-004a
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके ॥ KK03-09-173-004c
नभस प्रच्युता धारास्तिग्मवीर्याः सहस्रशः । KK03-09-173-005a
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ KK03-09-173-005c
धाराणां च निपातेन वायोर्विष्फूर्जितेन च । KK03-09-173-006a
गर्जितेन च मेघानां न प्राज्ञायत किञ्चन ॥ KK03-09-173-006c
धारा दिवि च सम्बद्धा वसुधायां च सर्वशः । KK03-09-173-007a
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि ॥ KK03-09-173-007c
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् । KK03-09-173-008a
दीप्तं प्राहिणवं घोरमशुप्यत्तेन तज्जलम् ॥ KK03-09-173-008c
हतेऽश्मवर्षे च मया जलवर्षे च शोषिते । KK03-09-173-009a
मुमुचुर्दानवा मायामग्निं वायुं च भारत ॥ KK03-09-173-009c
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः । KK03-09-173-010a
शैलेन च महास्त्रेण वायोर्वेगमधारयम् ॥ KK03-09-173-010c
तस्यां प्रतिहतायां ते दानवा युद्धदुर्मदाः । KK03-09-173-011a
प्राकुर्वन्विविधां मायां यौगपद्येन भारत ॥ KK03-09-173-011c
ततो वर्षं प्रादुरभूत्सुमहद्रोमहर्षणम् । KK03-09-173-012a
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाऽश्मनाम् ॥ KK03-09-173-012c
सा तु मायामयी वृष्टिः पीडयामास मां युधि । KK03-09-173-013a
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः ॥ KK03-09-173-013c
तमसा संवृते लोके घोरेण परुषेण च । KK03-09-173-014a
हरयो विमुखाश्चासन्प्रास्खलच्चापि मातलिः ॥ KK03-09-173-014c
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि । KK03-09-173-015a
असकृच्चाह मां भीतः किं करिष्याव इत्यपि ॥ KK03-09-173-015c
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि । KK03-09-173-016a
स च मां विगतज्ञानः सन्त्रस्तमिदमब्रवीत् ॥ KK03-09-173-016c
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् । KK03-09-173-017a
अमृतार्थं पुरा पार्थ स च दृष्टो मयाऽनघ ॥ KK03-09-173-017c
शम्बरस्य वधे घोरः सङ्ग्रामः सुमहानभूत् । KK03-09-173-018a
सारथ्यं देवराजस्य तत्रापि कृतवानहम् ॥ KK03-09-173-018c
तथैव वृत्रस्य वधे सङ्गृहीता हया मया । KK03-09-173-019a
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् ॥ KK03-09-173-019c
एते मया महाघोरः सङ्ग्रामाः पर्युपासिताः । KK03-09-173-020a
न चापि विगतज्ञानो भूतपूर्वोस्मि पाण्डव ॥ KK03-09-173-020c
पितामहेन संहारः प्रजानां विहितो ध्रुवम् । KK03-09-173-021a
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् ॥ KK03-09-173-021c
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना । KK03-09-173-022a
मोहयिष्यन्दानवानामहं मायाबलं महत् ॥ KK03-09-173-022c
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् । KK03-09-173-023a
अस्त्राणां च प्रभावं वै धनुषो गाण्डिवस्य च ॥ KK03-09-173-023c
अद्यास्त्रमाययैतैषां मायामेतां सुदारुणाम् । KK03-09-173-024a
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव ॥ KK03-09-173-024c
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप । KK03-09-173-025a
मोहनीं सर्वभूतानां हिताय त्रिदिवौकसाम् ॥ KK03-09-173-025c
पीड्यमानासु मायासु तासु तास्वसुरोत्तमाः । KK03-09-173-026a
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः ॥ KK03-09-173-026c
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः । KK03-09-173-027a
भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥ KK03-09-173-027c
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः । KK03-09-173-028a
व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे रोमहर्षणे ॥ KK03-09-173-028c
ततः पर्यपतन्नुग्रा निवातकवचा मयि । KK03-09-173-029a
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् ॥ KK03-09-173-029c
वर्तमाने तथा युद्धे निवातकवचान्तके । KK03-09-173-030a
नापश्यं सहसा सर्वान्दानवान्मायया वृतान् ॥ KK03-09-173-030c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि त्रिसप्तत्यधिकशततमोऽध्यायः ॥ 173 ॥

3-173-1 नगमात्रैः वृक्षप्रमाणैः ॥ 3-173-3 पावकप्रकराः वह्निराशयः ॥ 3-173-19 वैरोचनेः बलेः ॥ 3-173-26 पीड्यमानासु नश्यमानासु ॥