अध्यायः 172

अर्जुनस्य निवातकवचैः सह युद्धम् ॥ 1 ॥

अर्जुन उवाच KK03-09-172-001
ततो निवातकवचाः सर्वे वेगेन भारत । KK03-09-172-001a
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे ॥ KK03-09-172-001c
आच्छाद्य रथपन्थानमुत्क्रोशन्तो महारथाः । KK03-09-172-002a
अवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् ॥ KK03-09-172-002c
ततोऽपरे महावीर्याः शूलपट्टसपाणयः । KK03-09-172-003a
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि ॥ KK03-09-172-003c
सुमहत्तुमुलं वर्षं गदाशक्तिसमाकुलम् । KK03-09-172-004a
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि ॥ KK03-09-172-004c
अन्ये मामभ्यधावन्त निवातकवचा सुधि । KK03-09-172-005a
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः ॥ KK03-09-172-005c
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः । KK03-09-172-006a
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे ॥ KK03-09-172-006c
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः । KK03-09-172-007a
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः ॥ KK03-09-172-007c
अथ मार्गान्बहूस्तत्र विचेरुर्वातरंहसः । KK03-09-172-008a
सुसंयता मातलिना प्रामथ्नन्त दितेःसुतान् ॥ KK03-09-172-008c
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे । KK03-09-172-009a
तदा मातलिना यत्ता व्यचरन्नल्पका इव ॥ KK03-09-172-009c
तेषां चरणपातेन रथनेमिस्वनेन च । KK03-09-172-010a
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः ॥ KK03-09-172-010c
गतासवस्तथैवान्ये दानवाः पाण्डवर्षभ । KK03-09-172-011a
हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः ॥ KK03-09-172-011c
ते दिशो विदिशः सर्वे प्रतिरुध्य प्रहारिणः । KK03-09-172-012a
अभ्यघ्नन्विविधैः शस्त्रैस्ततो मे व्यथितं मनः ॥ KK03-09-172-012c
ततोऽहं मातलेर्वीर्यमद्भुतं समदर्शयम् । KK03-09-172-013a
अश्वांस्तथा वेगवतो यदयत्नादधारयत् ॥ KK03-09-172-013c
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे । KK03-09-172-014a
चिच्छेद सायुधान्राजञ्छतशोऽथ सहस्रशः ॥ KK03-09-172-014c
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् । KK03-09-172-015a
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः ॥ KK03-09-172-015c
वध्यमानास्ततस्तैस्तु हयैस्तेन रथेन च । KK03-09-172-016a
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथाऽपरे ॥ KK03-09-172-016c
स्पर्धमाना इवास्माभिर्निवातकवचा रणे । KK03-09-172-017a
शरवर्षैः शरार्तं मां महद्भिः प्रत्यवारयन् ॥ KK03-09-172-017c
शरवेगैर्निहत्याहमस्त्रैः शरविघातिभिः । KK03-09-172-018a
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ KK03-09-172-018c
ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः । KK03-09-172-019a
अपीडयन्मां सहिताः शक्तिशूलासिवृष्टिभिः ॥ KK03-09-172-019c
ततोऽहमस्त्रं प्रायुञ्जं गान्धर्वं नाम भारत । KK03-09-172-020a
दयितं देवराजस्य माधवं नाम भारत ॥ KK03-09-172-020c
ततः खड्गांस्त्रिशूलांश्च तोमरांशच सहस्रशः । KK03-09-172-021a
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिदम् ॥ KK03-09-172-021c
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः । KK03-09-172-022a
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः ॥ KK03-09-172-022c
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः । KK03-09-172-023a
निष्पतन्ति महाबाणास्तन्मातलिरपूजयत् ॥ KK03-09-172-023c
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव । KK03-09-172-024a
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः ॥ KK03-09-172-024c
वध्यमानास्ततस्ते तु निवातकवचाः पुनः । KK03-09-172-025a
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् ॥ KK03-09-172-025c
शरवेगान्निहत्याहमस्त्रैरस्त्रविघातिभिः । KK03-09-172-026a
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः ॥ KK03-09-172-026c
तेषां छिन्नानि गात्राणि विसृजन्तिस्म शोणितम् । KK03-09-172-027a
प्रावृषीवाभिवृष्टानि शृङ्गाण्यथ धराभृताम् ॥ KK03-09-172-027c
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः । KK03-09-172-028a
मद्वाणैर्वध्यमानास्ते समुद्विग्राः स्म दानवाः ॥ KK03-09-172-028c
शतधा भिन्नदेहास्ते क्षीणप्रहरणौजसः । KK03-09-172-029a
ततो निवातकवचा मामयुध्यन्त मायया ॥ KK03-09-172-029c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥

3-172-9 शताः शतानि अयुतमित्यर्थः । हरयोऽश्वाः ॥ 3-172-14 चिच्छेद अहमिति शेषः ॥ 3-172-20 माधवं नाम मधोर्दैत्यस्य वधार्धं निर्मितत्वात् । देवराजस्य ब्रह्मदण्डसमं रणे इति ध. पाठः ॥