अध्यायः 171

पार्थेन निवातकवचैः सह युयुत्सया मातलिसनाथेनेन्द्ररथेन तत्पुरम् प्रति गमनम् ॥ 1 ॥ अर्जुनशङ्खध्वनिश्रवणेन सन्नद्धैर्निवातकवचैस्तेन सह युद्धारम्भः ॥ 2 ॥

अर्जुन उवाच KK03-09-171-001
ततोऽहं स्तूयमानस्तु तत्रतत्र सुरर्षिभिः । KK03-09-171-001a
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् ॥ KK03-09-171-001c
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः । KK03-09-171-002a
ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः ॥ KK03-09-171-002c
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः । KK03-09-171-003a
'नभसीव विमानानि विचरन्त्यो विरेजिरे' ॥ KK03-09-171-003c
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः । KK03-09-171-004a
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः ॥ KK03-09-171-004c
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः । KK03-09-171-005a
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः ॥ KK03-09-171-005c
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत । KK03-09-171-006a
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् ॥ KK03-09-171-006c
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् । KK03-09-171-007a
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् ॥ KK03-09-171-007c
तत्रैव मातलिस्तूर्णं निपात्य पृथिवीतले । KK03-09-171-008a
दानवान्रथघोषेण तत्पुरं समुपाद्रवत् ॥ KK03-09-171-008c
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे । KK03-09-171-009a
मन्वाना देवराजं मामाविग्ना दानवाऽभवन् ॥ KK03-09-171-009c
सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः । KK03-09-171-010a
तथाऽसिशूलपरशुगदामुसलपाणयः ॥ KK03-09-171-010c
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः । KK03-09-171-011a
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते ॥ KK03-09-171-011c
ततः शङ्खमुपादाय देवदत्तं महास्वनम् । KK03-09-171-012a
परमां मुदमाश्रित्य प्राधमं तं शनैरहम् ॥ KK03-09-171-012c
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् । KK03-09-171-013a
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि ॥ KK03-09-171-013c
ततो निवातकवचाः सर्व एव समन्ततः । KK03-09-171-014a
दंशिता विविधैस्त्राणैर्विचित्रायुधपाणयः ॥ KK03-09-171-014c
आयसैश्र महाशूलैर्गदाभिर्मुसलैरपि । KK03-09-171-015a
पट्टसैः करवालैश्च रथचक्रैश्च भारत ॥ KK03-09-171-015c
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः । KK03-09-171-016a
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः ॥ KK03-09-171-016c
ततो विचार्य बहुशो रथमार्गेषु तान्हयान् । KK03-09-171-017a
प्राचोदयत्समे देशे मातलिर्भरतर्षभ ॥ KK03-09-171-017c
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् । KK03-09-171-018a
नान्वपश्यत्तदा कश्रित्तन्मेऽद्भुतमिवाभवत् ॥ KK03-09-171-018c
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः । KK03-09-171-019a
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् ॥ KK03-09-171-019c
तेन शब्देन सहसा समुद्रे पर्वतोपमाः । KK03-09-171-020a
आप्लवन्त गतैः सत्वैर्मत्स्याः शतसहस्रशः ॥ KK03-09-171-020c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि एकसप्तत्यधिकशततमोऽध्यायः ॥ 171 ॥

3-171-4 तिमिर्मत्स्यस्तं गिलति महामत्स्यस्तिमिङ्गिलः तमपि गिलतीति तिमितिमिङ्गिलः । तिमिरिव गिलनीयस्तिमिगिलो यस्येति विग्रहः ॥ 3-171-6 घूर्णते भ्रमति ॥ 3-171-13 दिवं स्तब्ध्वा आकाशं व्याप्य ॥ 3-171-14 दंशिताः सन्नद्धाः । त्राणैः कवचैः ॥ 3-171-19 ततस्ते दानवास्तत्र वादित्राणि सहस्रशः । विकृतस्वररूपाणि भृशं सर्वाण्यनादयन् इति झ. पाठः ॥ 3-171-20 आप्लवन्त पलायनं कृतवन्तः । गतैः सत्वैर्विगताभिर्बुद्धिभिरुपलक्षिता भ्रान्ता इत्यर्थः ॥ 3-171-24 तारकामये इति झ. पाठः । तत्र तारकामये तारार्थे सङ्ग्रामे इत्यर्थः ॥