अध्यायः 170

अस्त्रविद्यासमाप्तौ सहस्राक्षेण गुरुदक्षिणात्वेन निवातकवचानां क्षपणं भिक्षितेनार्जुनेन तदर्थं प्रस्थानम् ॥ 1 ॥

अर्जुन उवाच KK03-09-170-001
कृतास्त्रमतिविश्वस्तमथ मां हरिवाहनः । KK03-09-170-001a
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् ॥ KK03-09-170-001c
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि । KK03-09-170-002a
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः ॥ KK03-09-170-002c
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा । KK03-09-170-003a
'अजेयस्त्वं हि सङ्ग्रामे सर्वैरपि सुरासुरैः' ॥ KK03-09-170-003c
अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः । KK03-09-170-004a
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति ॥ KK03-09-170-004c
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः । KK03-09-170-005a
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह ॥ KK03-09-170-005c
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च । KK03-09-170-006a
पञ्चभिर्विधिभिः पार्थ विद्यते न त्वया समः ॥ KK03-09-170-006c
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय । KK03-09-170-007a
प्रायश्चित्तं च वेत्थ त्वं प्रतीघातं च सर्वशः ॥ KK03-09-170-007c
तव गुर्वर्थकालोऽयं समुत्पन्नः परन्तप । KK03-09-170-008a
प्रतिजानीष्व तं कर्तुं ततो वेत्स्याम्यहं परम् ॥ KK03-09-170-008c
ततोऽहमब्रवं राजन्देवराजमिदं वचः । KK03-09-170-009a
विषह्यं यन्मया कर्तुं कृतमेव निबोध तत् ॥ KK03-09-170-009c
ततो मामब्रवीद्राजन्प्रहसन्बलवृत्रहा । KK03-09-170-010a
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन ॥ KK03-09-170-010c
निवातकवचा नाम दानवा मम शत्रवः । KK03-09-170-011a
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत ॥ KK03-09-170-011c
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः । KK03-09-170-012a
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति ॥ KK03-09-170-012c
ततो मातलिसंयुक्तं मयूरसमरोमभिः । KK03-09-170-013a
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् ॥ KK03-09-170-013c
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् । KK03-09-170-014a
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् ॥ KK03-09-170-014c
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् । KK03-09-170-015a
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् ॥ KK03-09-170-015c
ततः प्रायामहं तेन स्यन्दनेन विराजता । KK03-09-170-016a
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा ॥ KK03-09-170-016c
ततो देवाः सर्व एव तेन घोषेण बोधिताः । KK03-09-170-017a
मन्वाना देवराजं मां समाजग्मुर्विशाम्पते ॥ KK03-09-170-017c
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन । KK03-09-170-018a
तानब्रुवं यथाभूतमिदं कर्ताऽस्मि संयुगे ॥ KK03-09-170-018c
निवातकवचानां तु प्रस्थितं मां वधैषिणम् । KK03-09-170-019a
निबोधत महाभागा शिवं चाशास्त मेऽनघाः ॥ KK03-09-170-019c
'ततो वाग्भिः प्रशस्ताभिस्त्रिदशाः पृथिवीपते' । KK03-09-170-020a
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम् ॥ KK03-09-170-020c
रथेनानेन मघवा जितवाञ्शम्बरं युधि । KK03-09-170-021a
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि ॥ KK03-09-170-021c
बहूनि च सहस्राणि प्रयुतान्यर्बुदान्यपि । KK03-09-170-022a
रथेनानेन दैत्यानां जितवान्मघवा युधि ॥ KK03-09-170-022c
त्वमप्यनेन कौन्तेय निबातकवचान्रणे । KK03-09-170-023a
विजेता युधि विक्रम्य पुरेव मघवा वशी ॥ KK03-09-170-023c
अयं च शङ्खप्रवरो येन जेतासि दानवान् । KK03-09-170-024a
अनेन विजिता लोका शक्रेणापि महात्मना ॥ KK03-09-170-024c
प्रदीयमानं देवैस्तं देवदत्तं जलोद्भवम् । KK03-09-170-025a
प्रत्यगृह्णां जयायैनं स्तूयमानस्तदाऽमरैः ॥ KK03-09-170-025c
स शङ्खी कवची वाणी प्रगृहीतशरासनः । KK03-09-170-026a
दानवालयमत्युग्रं प्रयातोस्मि युयुत्सया ॥ KK03-09-170-026c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

3-170-6 पञ्चभिः प्रयोगादिभिः ॥ 3-170-7 आवृत्तिः पुनःपुनः प्रयोगोपसंहारौ । प्रायश्चित्तम् अस्त्राग्निना दग्धानामनागसां पुनरुज्जीवनम् । प्रतीघातं परास्त्रेणाभिभूतस्य स्वास्त्रस्योद्दीपनम् ॥ 3-170-8 गुर्वर्थो दक्षिणा । वेत्स्यामि वेदयिष्यामि । परं कार्यमिति शेषः ॥ 3-170-9 विषह्यं शक्यम् ॥ 3-170-16 प्रायां प्रयाणं कृतवान् ॥ 3-170-19 आशास्त आशाध्वम् ॥