अध्यायः 169

अर्जुनेन स्वस्येन्द्रलोकगमनप्रकारस्य तत्र निवासप्रकारकथनपूर्वकमिन्द्रादस्त्रप्राप्तिप्रकारस्य च कथनम् ॥ 1 ॥

अर्जुन उवाच KK03-09-169-001
ततस्तामवसं प्रीतो रजनीं तत्र भारत । KK03-09-169-001a
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः ॥ KK03-09-169-001c
व्युषितो रजनीं चाहं कृत्वापौर्वाह्णिकीः क्रियाः । KK03-09-169-002a
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा ॥ KK03-09-169-002c
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् । KK03-09-169-003a
भगवन्तं महादेवं समेतोस्मीति भारत ॥ KK03-09-169-003c
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः । KK03-09-169-004a
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् ॥ KK03-09-169-004c
समेतं लोकपालैस्तु सर्वैर्वैवस्वतादिभिः । KK03-09-169-005a
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति ॥ KK03-09-169-005c
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः । KK03-09-169-006a
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः ॥ KK03-09-169-006c
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः । KK03-09-169-007a
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् ॥ KK03-09-169-007c
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च । KK03-09-169-008a
शैशिरस्य गिरे पादे प्रादुरासन्समीपतः ॥ KK03-09-169-008c
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः । KK03-09-169-009a
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः ॥ KK03-09-169-009c
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च । KK03-09-169-010a
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः ॥ KK03-09-169-010c
मरुतां च गणास्तत्र देवयानैरुपागमन् । KK03-09-169-011a
महेन्द्रानुचरा ये च देवसद्मनिवासिनः ॥ KK03-09-169-011c
ततो मरुत्वानहरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः । KK03-09-169-012a
शचीसहायस्तत्रायात्सह सर्वैस्तदाऽमरैः ॥ KK03-09-169-012c
एतस्मिन्नेव काले तु कुबेरो नरवाहनः । KK03-09-169-013a
दर्शयामास मां राजल्ँलक्ष्म्या परमया युतः ॥ KK03-09-169-013c
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् । KK03-09-169-014a
वरुणं देवराजं च यथास्थानमवस्थितम् ॥ KK03-09-169-014c
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः । KK03-09-169-015a
सव्यसाचिन्निरीक्षास्माल्ँलोकपालानवस्थितान् ॥ KK03-09-169-015c
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् । KK03-09-169-016a
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः ॥ KK03-09-169-016c
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् । KK03-09-169-017a
प्रत्यगृह्णां तदाऽस्त्राणि महान्ति विविधानि च ॥ KK03-09-169-017c
गृहीतास्त्रस्ततो देवैरनुज्ञातोस्मि भारत । KK03-09-169-018a
अथ देवा ययुः सर्वे यथागतमरिन्दम ॥ KK03-09-169-018c
मघवानपि मां देवो रथमारोप्य सुप्रभम् । KK03-09-169-019a
उवाच भगवान्वाक्यं स्मयन्निव महायशाः ॥ KK03-09-169-019c
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय । KK03-09-169-020a
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ ॥ KK03-09-169-020c
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् । KK03-09-169-021a
तपश्चेदं महत्तप्तं स्वर्गं गन्तासि पाण्डव ॥ KK03-09-169-021c
भूयश्चैव च तप्तव्यं तपश्चरणमुत्तमम् । KK03-09-169-022a
'दुश्चरं घोरमस्त्राणां तपोबलकरं तव' ॥ KK03-09-169-022c
स्वर्गस्त्ववश्यं गन्तव्यस्त्वया शत्रुनिषूदन । KK03-09-169-023a
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति ॥ KK03-09-169-023c
विदितस्त्वं हि देवानां मुनीनां च महात्मनाम् । KK03-09-169-024a
'इहस्थः पाण्डवश्रेष्ठ तपः कुर्वन्सुदुष्करम्' ॥ KK03-09-169-024c
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम । KK03-09-169-025a
आचार्यं वरयेऽहं त्वामस्त्रार्थं त्रिदशेश्वर ॥ KK03-09-169-025c
इन्द्र उवाच KK03-09-169-026
क्रूरकर्माऽस्त्रवित्तात भविष्यसि परन्तप । KK03-09-169-026a
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि ॥ KK03-09-169-026c
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् । KK03-09-169-027a
मानुषेषु प्रयोक्ष्यामि विनाऽस्त्रप्रतिघातनात् ॥ KK03-09-169-027c
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप । KK03-09-169-028a
लेकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव ॥ KK03-09-169-028c
इन्द्र उवाच KK03-09-169-029
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय । KK03-09-169-029a
ममात्मजस्य वचनं सूपपन्नमिदं तव ॥ KK03-09-169-029c
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत । KK03-09-169-030a
वायोरग्नेर्वसुभ्योऽपि वरुणात्समरुद्गणात् ॥ KK03-09-169-030c
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् । KK03-09-169-031a
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च ॥ KK03-09-169-031c
मद्गतानि च जानीहि सर्वास्त्राणि कुरूद्वह । KK03-09-169-032a
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत ॥ KK03-09-169-032c
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् । KK03-09-169-033a
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप ॥ KK03-09-169-033c
लोकपालेषु यातेषु मामुवाचाथ मातलिः । KK03-09-169-034a
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते ॥ KK03-09-169-034c
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् । KK03-09-169-035a
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज ॥ KK03-09-169-035c
देवराजः सहस्राक्षस्त्वां दिदृक्षति भारत । KK03-09-169-036a
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् ॥ KK03-09-169-036c
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् । KK03-09-169-037a
चोदयामास स हयान्मनोमारुतरंहसः ॥ KK03-09-169-037c
[मातलिर्हयतत्त्वज्ञो यथावद्भूरिदक्षिणः । KK03-09-169-038a
अवैक्षत च मे वक्त्रं स्थितस्याथ ससारथिः । KK03-09-169-038c
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् ॥ KK03-09-169-038e
अत्यद्भुतमिदं त्वद्य विचित्रं प्रतिभाति मे । KK03-09-169-039a
यदास्थितो रथं दिव्यं पदान्न चलितः पदम् ॥] KK03-09-169-039c
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः । KK03-09-169-040a
विचलन्प्रथमोत्पाते हयानां भरतर्षभ ॥ KK03-09-169-040c
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह । KK03-09-169-041a
अतिशक्रमिदं सर्वं तवेति प्रतिभाति मे ॥ KK03-09-169-041c
इत्युक्त्वाऽऽकाशमाविश्य मातलिर्विबुधालयान् । KK03-09-169-042a
दर्शयामास मे राजन्विमानानि च भारत ॥ KK03-09-169-042c
[स रथो हरिभिर्युक्तो ह्यूर्ध्वमाचक्रमे ततः । KK03-09-169-043a
ऋषयो देवताश्चैव पूजयन्ति नरोत्तम ॥ KK03-09-169-043c
ततः कामगमाल्ँलोकानपश्यं वै सुरर्षिणाम् । KK03-09-169-044a
गन्धर्वाप्सरसां चैव प्रभावममितौजसाम् ॥] KK03-09-169-044c
नन्दनादीनि देवानां वनान्युपवनानि च । KK03-09-169-045a
दर्शयामास मे शीघ्रं मातलिः शक्रसारथिः ॥ KK03-09-169-045c
ततः शक्रस्य भवनमपश्यममरावतीम् । KK03-09-169-046a
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् ॥ KK03-09-169-046c
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः । KK03-09-169-047a
न बाधते तत्र रजस्तत्रास्ति न जरा नृप ॥ KK03-09-169-047c
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते । KK03-09-169-048a
दिवौकसां महाराज न ग्लानिररिमर्दन । KK03-09-169-048c
न क्रोधलोभौ तत्रास्तामशुभं वा विशाम्पते ॥ KK03-09-169-048e
नित्यं तुष्टाश्च ते राजन्प्राणिनः सुरवेश्मनि । KK03-09-169-049a
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ KK03-09-169-049c
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः । KK03-09-169-050a
शीतस्तत्र ववौ वायुः सुगन्धो वीजते शुभः ॥ KK03-09-169-050c
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता । KK03-09-169-051a
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः । KK03-09-169-051c
विमानगामिनश्चात्रदृश्यन्ते बहवोऽमराः ॥ KK03-09-169-051e
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् । KK03-09-169-052a
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् ॥ KK03-09-169-052c
ते मां वीर्येण यशसा तेजसा च बलेन च । KK03-09-169-053a
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामे विजयेन च ॥ KK03-09-169-053c
प्रविश्य तां पुरीं दिव्यां देवगन्धर्वपूजिताम् । KK03-09-169-054a
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः ॥ KK03-09-169-054c
ददावर्धासनं प्रीतः शक्रो मे ददतांवरः । KK03-09-169-055a
बहुमानाच्च गात्राणि पस्पर्श मम वासवः ॥ KK03-09-169-055c
तत्राहं देवगन्धर्वैः सहितो भूरिदक्षिणैः । KK03-09-169-056a
अस्त्रार्थमवसं स्वर्गे शिक्षाणोऽस्त्राणि भारत ॥ KK03-09-169-056c
विश्वावसोश्च वै पुत्रश्चित्रसेनोऽभवत्सखा । KK03-09-169-057a
स च गान्धर्वमखिलं ग्राहयामास मां नृप ॥ KK03-09-169-057c
तत्राहमवसं राजन्गृहीतास्त्रः सुपूजितः । KK03-09-169-058a
सुखं शक्रस्य भवने सर्वकामसमन्वितः ॥ KK03-09-169-058c
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् । KK03-09-169-059a
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यन्तीर्भरतर्षभ ॥ KK03-09-169-059c
तत्सर्वमनवज्ञाय तथ्यं विज्ञाय भारत । KK03-09-169-060a
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः ॥ KK03-09-169-060c
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः । KK03-09-169-061a
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि ॥ KK03-09-169-061c

इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥

3-169-11 देवयानैर्विमानैः । देवसद्मनिवासिनः स्त्रीबालादयः शचीजयन्तादय इत्यर्थः ॥ 3-169-14 यथास्थानं प्राच्यामिन्द्रं प्रतीच्यां वरुणमित्यादि ॥ 3-169-27 अस्त्रस्यैव प्रतिघातार्थमस्त्रं मोक्ष्ये नत्वन्यत्र मानुषे ॥ 3-169-33 मायामयमिवात्यद्भुतम् ॥ 3-169-39 पदात् स्थानात् न चलितः । रथस्य भ्रमणेपि दृढासन इत्यर्थः ॥ 3-169-44 सुरर्षिणामिति दैघ्याभाव आर्षः ॥ 3-169-53 अन्वजानन्त वीर्यादिमान्भवेत्याशीर्वादान्ददुरित्यर्थः ॥ 3-169-60 अनवज्ञाय आदृत्य । तथ्यं यथावत् । अत्यर्थं पुरुषार्थ इति विज्ञाय ॥ 3-169-61 तेन कामेन अस्त्रेच्छया नतु भोगेच्छया ॥