अध्यायः 168
अर्जुनेन स्वस्य किरातरूपिणा सह युद्धप्रकारस्य पाशुपतास्त्रलाभप्रकारस्य च कथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-09-168-001
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः । KK03-09-168-001a
कृष्णया चैव बीभत्सुर्धर्मराजमपूजयत् ॥ KK03-09-168-001c
अभिवादयमानं तं मूर्ध्न्युपाघ्राय पाण्डवम् । KK03-09-168-002a
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥ KK03-09-168-002c
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव । KK03-09-168-003a
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ KK03-09-168-003c
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि पाण्डव । KK03-09-168-004a
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ KK03-09-168-004c
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृत् । KK03-09-168-005a
यथैवास्त्राण्यवाप्तानि यथैवाराधिताश्च ते ॥ KK03-09-168-005c
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिन्दम । KK03-09-168-006a
कृतप्रियस्त्वयाऽस्मीति तस्य ते किं प्रियं कृतम् ॥ KK03-09-168-006c
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते । KK03-09-168-007a
यथा तुष्टो महादेवो देवराजस्तथाऽनघ ॥ KK03-09-168-007c
यच्चापि वज्रपाणेस्तु प्रियं कृतमरिन्दम । KK03-09-168-008a
एतदाख्याहि मे सर्वमखिलेन धनञ्जय ॥ KK03-09-168-008c
अर्जुन उवाच KK03-09-168-009
शृणु हन्त महाराज विधिना येन दृष्टवान् । KK03-09-168-009a
शतक्रतुमहं देवं भगवन्तं च शङ्करम् ॥ KK03-09-168-009c
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन । KK03-09-168-010a
भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ KK03-09-168-010c
भृगुतुन्दमथो गत्वा काम्यकादास्थितस्तपः । KK03-09-168-011a
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि ॥ KK03-09-168-011c
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे । KK03-09-168-012a
तस्मा अवितथं सर्वमब्रवं कुरुनन्दन ॥ KK03-09-168-012c
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम । KK03-09-168-013a
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ KK03-09-168-013c
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत । KK03-09-168-014a
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥ KK03-09-168-014c
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् । KK03-09-168-015a
तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ KK03-09-168-015c
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः । KK03-09-168-016a
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ KK03-09-168-016c
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा । KK03-09-168-017a
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ KK03-09-168-017c
पञ्चमे त्वथ सम्प्राप्ते प्रथमे दिवसे गते । KK03-09-168-018a
वराहसंस्थितं भूतं मत्समीपं समागमत् ॥ KK03-09-168-018c
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि । KK03-09-168-019a
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ KK03-09-168-019c
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् । KK03-09-168-020a
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ KK03-09-168-020c
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी । KK03-09-168-021a
अताडयं शरेणाथ तद्भूतं रोमहर्षणम् ॥ KK03-09-168-021c
युगपत्तं किरातस्तु विकृष्य बलवद्धनुः । KK03-09-168-022a
अभ्याजघ्ने दृढतरं कम्पयन्निव मेदिनीम् ॥ KK03-09-168-022c
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः । KK03-09-168-023a
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥ KK03-09-168-023c
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव । KK03-09-168-024a
सङ्घर्षवान्महाकायस्ततो मामभ्यधावत ॥ KK03-09-168-024c
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः । KK03-09-168-025a
तं चाहं शरवर्षेण महता समवाकिरम् ॥ KK03-09-168-025c
ततः शरैर्दीप्तमुखैर्यन्त्रितैरनुयन्त्रितैः । KK03-09-168-026a
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ KK03-09-168-026c
तस्य तच्छतधा रूपमभवच्च सहस्रधा । KK03-09-168-027a
तानि चास्य शरीराणि शरैरहमताडयम् ॥ KK03-09-168-027c
पुनस्तानि शरीराणि एकीभूतानि भारत । KK03-09-168-028a
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ KK03-09-168-028c
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः । KK03-09-168-029a
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ KK03-09-168-029c
यदाऽभिभवितुं बाणैर्न च शक्नोमि तं रणे । KK03-09-168-030a
ततो महास्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ KK03-09-168-030c
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् । KK03-09-168-031a
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ KK03-09-168-031c
तत्रापि च महाराज सविशेषमहं ततः । KK03-09-168-032a
अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ KK03-09-168-032c
स्थूणाकर्णमथो जालं शरवर्षं शरोल्बणम् । KK03-09-168-033a
शलभास्त्रमश्मवर्षं समास्थायाहमभ्ययाम् ॥ KK03-09-168-033c
जग्रास प्रसभं तानि सर्वाण्यस्त्राणि मे नृप । KK03-09-168-034a
तेषु सर्वेषु जग्धेषु ब्रह्मास्त्रं महदादिशम् ॥ KK03-09-168-034c
ततः प्रज्वलितैर्बाणैः सर्वतश्चोपचीयत । KK03-09-168-035a
उपचीयमानश्च तदा महास्त्रेण व्यवर्धत ॥ KK03-09-168-035c
ततः सन्तापिता लोका मत्प्रसूतेन तेजसा । KK03-09-168-036a
क्षणेन हि दिशः खं च सर्वतो हि विदीपितम् ॥ KK03-09-168-036c
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशामयत् । KK03-09-168-037a
ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ KK03-09-168-037c
ततोऽहं धनुरादाय तथाऽक्षय्ये महेषुधी । KK03-09-168-038a
सहसाऽभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ KK03-09-168-038c
एतेष्वस्त्रेषु भूतेन भक्षितेष्वायुधेषु च । KK03-09-168-039a
मम तस्य च भूतस्य बाहुयुद्धमवर्तत ॥ KK03-09-168-039c
व्यायामं मुष्टिभिः कृत्वा तलैरभिसमाहतौ । KK03-09-168-040a
अपातयच्च तद्भूतमहं चापातयं महीम् ॥ KK03-09-168-040c
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत । KK03-09-168-041a
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ KK03-09-168-041c
मुख्यं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः । KK03-09-168-042a
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ॥ KK03-09-168-042c
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः । KK03-09-168-043a
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ॥ KK03-09-168-043c
सोऽदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः । KK03-09-168-044a
धनुर्गृह्य तदा पाणौ बहुरूपः पिनाकधृत् ॥ KK03-09-168-044c
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् । KK03-09-168-045a
शूलपाणिरथोवाच तुष्टोस्मीति परन्तप ॥ KK03-09-168-045c
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ । KK03-09-168-046a
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ KK03-09-168-046c
तुष्टोस्मि तव कौन्तेय ब्रूहि किं करवाणि ते । KK03-09-168-047a
मनोगतं वीर यत्ते तद्ब्रूहि वितराम्यहम् । KK03-09-168-047c
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥ KK03-09-168-047e
ततः प्राञ्जलिरेवाहमस्त्रेषु कृतमानसः । KK03-09-168-048a
प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ KK03-09-168-048c
भगवानमे प्रसन्नश्चेदीप्सितोऽयं वरो मम । KK03-09-168-049a
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ॥ KK03-09-168-049c
ददानीत्येव भगवानब्रवीत्र्यम्बकश्च माम् । KK03-09-168-050a
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ॥ KK03-09-168-050c
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः । KK03-09-168-051a
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ॥ KK03-09-168-051c
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन । KK03-09-168-052a
[जगद्विनिर्दहेदेवमल्पतेजसि पातितम् ॥ KK03-09-168-052c
पीड्यमानेन बलवत्प्रयोज्यं स्याद्धनञ्जय । KK03-09-168-053a
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ KK03-09-168-053c
ततोऽप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् । KK03-09-168-054a
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ KK03-09-168-054c
उत्सादनममित्राणां परसेनानिकर्तनम् । KK03-09-168-055a
दुरासदं दुष्प्रसहं सुरदानवराक्षसैः ॥ KK03-09-168-055c
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् । KK03-09-168-056a
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ॥ KK03-09-168-056c
इति श्रीमन्महाभारते अरण्यपर्वणि निवातकवचयुद्धपर्वणि अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥
3-168-2 प्रहृष्टो धर्मपुत्रः ॥ 3-168-9 हन्तेत्यव्ययं वाक्यारम्भे हर्षे वा ॥ 3-168-15 शैशिरं हिममयम् ॥ 3-168-17 प्राणो बलम् ॥ 3-168-18 चतुर्थे मास्यतिक्रान्ते इति ध. पाठः । वराहवत् संस्थितम् आकारो यस्य ॥ 3-168-19 प्रोथेन मुखाग्रेण पोत्राख्येन । विवर्तन् विषमेण भावेन वर्तमानः इतस्ततः पर्यटन्वा ॥ 3-168-26 अनु पश्चात् यन्त्रितैः दृढाकृष्टैः ॥ 3-168-33 स्थूणाकर्ण इति शङ्कुकर्णाख्यो रुद्रावतारभेदस्तद्दैवत्यमस्त्रम् । जालं जलमयं वारुणम् । शैलास्त्रमश्मवर्षं च इति ध. पाठः ॥ 3-168-40 व्यायामं सङ्घटनम् ॥ 3-168-44 गोवृषो बलीवर्दश्रेष्ठः ॥